________________ पचक्खाण 101 - अभिधानराजेन्द्रः - भाग 5 पचक्खाण या सभाही तहा तहा पयइयव्वं / समाहि त्ति वक्खाणियं / / 24 / / अमुमेवार्थमुपदर्शयन्नाह भाष्यकार:संदिग्गअन्नसंभोइयाण, दंसिज्ज सङ्कमकुलाई। अतरंतो वा संभो-इयाण दंसे जहसमाही॥२५॥ गतार्था, नवरमरस्स अन्नसंभोइयव्वं // 25|| आव०६ अ०। (11) / धकथामन्थनिर्मथितमिथ्यात्वभावाश्च भव्याः शुद्ध प्रत्याख्यानं प्रपद्यन्त इति। तदाहपंचविहे पच्चक्खाणे पण्णत्ते। तं जहा-सद्दहणसुद्धे, विणयसुद्धे, अणुभासणासुद्धे, अणुपालणासुद्धे, भावसुद्धे / (पंचतेहेत्यादि) प्रतिषेधत आख्यानं मर्यादया कथनं प्रत्याख्यानम्। तत्र श्रद्धापनेन तथेतिप्रत्ययलक्षणेन शुद्धं निरवयं श्रद्धानशुद्धम, श्रद्धानाभावे हि तदशुद्धं भवति। एवं सर्वत्र इह नियुक्तिगाथा"पञ्चखाणं सव्व-त्रुदेसियं जं जहिं जया काले। तं जो सदहइ नरो, तं जाणसु सद्दहणसुद्धं // 1 // विनयशुद्धं यथाकिइकम्मस्स विसोहि,पउंजए जो अहीणमइरित्तं / नणवयणकायगुत्तो, तं जाणसु विणयओसुद्धं // 1 // " अनुभासणाशुद्धं यथा"अगुभासइ गुरुवयणं, अक्खरपयवंजणेहि परिसुद्धं / पंजलिउडो अभिमुहो, तं जाणऽणुभासणासुद्धं / / 1 / / नवरं गुरुर्भणति-वोसिरत त्ति।" शिष्यस्तु-''वोसिरामि त्ति।" / अनुपातनाशुद्धं यथा"फतारे दुभिक्खे, आयके वा महइ समुप्पण्णे। जं पात्रिय न सग्गं, तं जाणऽणुपालणासुद्धं / / 1 / / " भावशुद्धं यथा"रानेण व दोसेण व, परिणामेण व न दूसियं जंतु। त खलु पञ्चक्खाणं, भावविसुद्धं सुणेयव्यं // 1 // " इति अन्यदपि षष्ठं ज्ञातशुद्धमिति नियुक्तावुक्तं, तदाह"पचक्खाणं जाणइ, कप्पे जंजम्मि होइ कायव्वं / मूलगुणउत्तरगुणे, तं जाणसु जाणसुद्धं ति॥१॥" / स्था०५ ठा०३ उ०। (12) प्रत्याख्यानशुद्धिःसोही पचक्खाण-रस छव्विहा समणसमयकेऊहिं। पन्नत्ता तित्थयरेहि, तमहं वुच्छं समासेण // 26 // शोधनं शुद्धिः, सा प्रत्याख्यानस्य प्राग्निरुपितशब्दार्थस्य, षड्विधा षट् प्रकारा, श्रमणसमयकेतुभिः साधुसिद्धान्तविहाभूतैः, प्रज्ञप्ता परुपिता. कैः?, तीर्थकरैः ऋषभाऽऽदिभिः, तामहं वक्ष्ये / कथम?, समासेन संक्षेपेणेति गाथार्थः ||26|| अधुना षड्विधत्वमुपदर्शयन्नाहसा पुण सद्दहणा जा-णणा य विणय अणुभासणा चेवा अणुपालणा विसोही, भावविसोही भवे छट्ठा // 27 // सा पुनः शुद्धिरेव षड्विधा / तद्यथा-श्रद्धानशुद्धिर्ज्ञानशुद्धिर्विनयशुद्धिः, अनुभाषणशुद्धिश्चैव / तथा-अनुपालनाशुद्धिर्भवति षष्ठी। पाठान्तरं वा- ''सोही सहहणा'' इत्यादि / तत्र शुद्धिशब्दो द्वारोपलक्षणार्थः, नियुक्तिगाथा चेयमिति गाथासमासार्थः / / 27 / / अवयवार्थ तु भाष्यकार एव वक्षयति इति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाऽऽहपचक्खाणं सवं-नुभासिअंजं जहिं जया काले। तं जो सद्दहइ नरो, तं जाणसु सहहणसुद्धं // 28|| प्रत्याख्यानं सर्वज्ञभाषितं तीर्थकरप्रणीतमित्यर्थः / यदिति यत्सप्तविंशतिविधंपञ्चविधं साधुमूलगुणप्रत्याख्यानं / दशविधभुत्तरगुणप्रत्याख्यानं, द्वादशबिधं श्रावकप्रत्याख्यानम्, यत्र जिनकल्पे स्थविरकल्पे, चतुर्यामे पश्चयामे च श्रावकधर्मे वा / यदा सुभिक्षे दुर्भिक्षे वा, पूर्वाह्न पराले वा / काल इति चरमकाले यत्र यः श्रद्दधते नरस्तत्र तदभेदोपचाराः तस्यैव तथापरिणतत्वाज्जानीहि श्रद्धानशुद्धामिति गाथार्थः // 28 // ज्ञानशुद्ध प्रतिपाद्यतेपचक्खाणं जाणइ, कप्पे जं जम्मि होइ कायव्वं / मूलगुणउत्तरगुणे, तं जाणसु जाणणासुद्धं // 26 // प्रत्याख्यानं जानात्यवगच्छति, कल्पे जिनकल्पाऽऽदौ, यत्प्रत्याख्यानं,यस्मिन् भवति कर्तव्यं मूलोत्तरगुणविषयं, तज्जानीहि ज्ञानशद्धम्। इति गाथार्थः // 26 // विनयशुद्धमुच्यतेकिइकम्मस्स विसुद्धिं, पउंजई जो अहीणमइरित्तं / मणवयणकत्यगुत्तो, तं जाणसु विणयओ सुद्धं // 30 // (कितिकम्मस्सेत्यादि) कृतकर्मणो वन्दनकस्येत्यर्थः / विशुद्धिं निरवद्या करणक्रियां प्रयुङ् क्तेयः प्रत्याख्यानकाले अन्यूनातिरिक्तो विशुद्धमनोवाक्कायगुप्तः सन्, तत्प्रत्याख्यानपरिणामत्वात् प्रत्याख्यान जानीहि विनयतो विनये शुद्धम् / इति गाथाऽर्थः / / 30 / / अधुना अनुभापणाशुद्ध प्रतिपादयन्नाहअणुभासइ गुरुवयणं, अक्खरपयवंणणेहि परिसुद्धं / कयपंजली अभिमुहो, तं जाणऽणुभासणामुद्धं // 31 // कृतिकर्मप्रत्याख्यानं कुर्वन् अनुभाषते गुरुवचनं, लघुतरेण शब्देन भणतीत्यर्थः। कथमनुभाषते? अक्षरपदव्यञ्जनैः परिशुद्धम्, अनेनानुभाषणाऽऽपन्नमाह / नवरं ''गुरु भणइवोसिरह त्ति / इसो वि भणतिवोसिरामि त्ति / सेसं गुरुभणियसरिसं भाणियव्वं / " किंभूतः सन् कृतप्राञ्जलिरभिमुखः तज्जानीझनुभाषणाशुद्धमिति गाथार्थः // 31 // आव०६ अ०। (अनुपालनाशुद्धम् 'अणुपालनासुद्ध' शब्दे प्रथमभागे 388 पृष्ठे गतम्) इदानीं भावशुद्धमाहरागेण व दोसेण व, परिणामेण व न दूसिअंजं तु। तं खलु पञ्चक्खाणं, भावविसुद्धं मुणेअव्वं / / 33 / / रागेण वाऽभिष्वङ्गलक्षणेन, द्वेभेण वा अप्रीतिलक्षणेन, परिणामेन चेहलोकाऽऽद्याशंसालक्षणेन स्त्म्भाऽऽदिना वक्ष्यमाणेन, न दूषितं न कलुषितं यत्तु यदेव तत्खल्विति तदेव, खलुशब्दस्यावधारणार्थत्वात्प्रत्याख्यानं भावशुद्धं, (मुणेयव्यं ति) ज्ञातव्यमिति गाथासमासार्थः (33) "अवयवत्थे पुणरागेण एस पूइज्जइ त्ति अहं पि एवं करेमि त्ति पूजाहामि त्ति एवं रागेण करेइ। दोसेण तहा करेमि जहा लोगो ममद्दत्तो पडइ, तेण एयस्स नाढायति त्ति, एवं दोसेणं परिणामेण नो इहलोगट्ठयाए नो परलोगट्ठयाए नो कित्तिजसहेउं वा अन्नपाणवत्थलेणसयणासणहेउवा जो एक न करेइ तं भावसुद्धं " // 33 //