________________ बंधण 1235 - अभिधानराजेन्द्रः - भाग 5 बंधण (जस्सेत्यादि) (नोबंधए त्ति) न होकसमये औदारिकवैक्रिययो बन्धो विद्यत इति कृत्वा नोबन्धक इति / एवमाहारकस्यापि, तैजसस्य पुनः सदैवाऽविरहितत्वाद्वन्धको देशबन्धेन, सर्वबन्धस्तु नास्त्येव तस्येति। एवं कार्मणशरीरस्यापि वाच्यमिति / एवमौदारिकसर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽनन्तरदण्डक उक्तोऽथौदारिकस्यैव देशबन्धमाश्रित्यान्माह - (जस्स णमित्यदि) अथ वैक्रियस्य सर्वबन्धमाश्रित्य शेषाणां बन्धचिन्तार्थोऽन्यो दण्डकस्तत्रा च / (तेयगस्स कम्मगस्स य जहेवेत्यादि) यथौदारिकशरीरसर्वबन्धकस्य तैजसकार्मणयोर्देशबन्धकत्वमुक्तमेवं क्रियशरीरसर्वबन्धकस्यापितयोर्देशबन्धकत्वंवाच्यमिति भावः / वैक्रियदेशबन्धदण्डक आहारकस्य सर्वबन्धदण्डको देशबन्धदण्डकच सुगम एव, तैजसदेशबन्धदण्डके तु (बंधए वा अबंधए व त्ति) तेजसदेशबन्धक औदारिकशरीरस्य बन्धको वा, रयादबन्धको था, तत्र विग्रहे वर्तमानोऽबन्धकोऽविग्रहस्थः पुनर्बन्धकः स एवोत्पत्तिक्षेत्र-प्राप्तिप्रथमसमये सर्वबन्धको, द्वितीयाऽऽदौ तु देशबन्धक इति। एवं कार्मणशरीरदेशबन्धदण्डकेऽपि वाच्यमिति। अथौदारिकाऽऽदिशरीरदेशबन्धकाऽऽदीनामल्पत्वाऽऽदि निरुपणायाऽऽह - एएसि णं भंते! सव्वजीवाणं ओरालियवेउदिवय आहारगतेयाकम्मासरीरगाणं देशबंधगाणं सव्वबंधगाणं अबंधगाण य कयरे कयरे० जाव विसेसाहिया वा? गोयमा! सव्वत्थोवा आहारगसरीरस्स सव्वबंधगा, तस्स चेव देसबंधगा संखेज्जगुणा 2, वेउव्वियसरीरस्स सव्वबंधगा असंखंज्जगुणा 3, तस्स चेव देसबंधगा असंखेज्जगुणा 4, तेयाकम्मगाणं दोण्ह वि तुल्ला अबंधगा अणंतगुणा 5, ओरालियसरीरस्स सव्वबंधगा अणंतगुणा ६,तस्स चेव अबंधगा विसेसाहिया,तस्स चेव देसबंधगा असंखेज्जगुणा 8, तेयाकम्मगाणं देसबंधगा विसेसाहिया , वेउव्वियसरीरस्स अबंधगा विसेसाहिया 10, आहारगसरीरस्स अबंधगा विसेसहिया। एते हि विग्रहगतिकाः सिद्धाऽऽदयश्च भवन्ति / तत्रा च सिद्धाऽऽदीनामत्यन्ताल्पत्वेनेहाऽऽविवक्षा विग्रहगतिकाश्च वक्ष्यमाणन्यान्ये न सर्वबन्धकेभ्यो बहुतरा इति। तेभ्यस्तदबन्धका विशेषाधिका इति / तस्यैव चौदारिकस्य देशबन्धकाः असंख्यातगुणा विग्रहाद्धापेक्षया देशबन्धाद्धाया असंख्यात-गुणत्वात्तैजसकामणयोर्देशबन्धका विशेषाधिक यस्मात्सर्वेऽपि संसारिणस्तैसकार्मणयोर्देशबन्धका भवन्ति / तत्रा च ये विग्रहगतिका औदारिकसर्वबन्धका वैक्रियादिबन्धकाश्च ते औदारिकदेशबन्धकेभ्योऽतिरिच्यन्त इति / ते विशेषाधिका। इति। वैक्रियशरीरस्याबन्धका विशेषाधिका यस्माद्वैक्रियस्य बन्धकाः प्रायो देवनारका एव, शेषास्तु तद बन्धकाः सिद्धाश्च, तत्र सिद्धास्तैजसाऽऽदिदेश बन्धवेभ्योऽतिरिच्यन्त इतितैर्विशेषाधिका उक्ताः। आहारकशरीरस्याऽबन्धका विशेषाधिका यस्मान्मनुष्याणामेवाऽऽहारकशरीर वैक्रिय तु तदन्येषामपि / ततो वैक्रियबन्धेभ्य आहारकबन्धकानां स्तोकत्वेन वैक्रियाऽबन्धकेभ्य आहारकाऽबन्धका विशेषाधिका इति। इह चेय स्थापना औदारिकस्य वैक्रियस्य सर्वबन्धका |सर्वबन्धका अनन्तगणाः६, असंख्यगुणाः३, देशबन्धका देशबन्धकाः असंख्यगुणाः 8, असंख्यगुणाः 4, अबन्धकाः अबन्धका विशेषाधिकाः७ |शेषाधिका : 10 आहारकस्य तैजसस्य कार्मणस्य सर्वबन्धकाः न सन्ति नसन्ति सर्वस्तोकाः१ सर्वबन्धकाः, सर्वबन्धकाः, देशबन्धका : देशबन्धकाः देशबन्धकाः संख्यगुणाः 2, विशेषाधिकाः 6, विशेषाधिकाः 6, अबन्धकाः वि- अबन्धकाः अबन्धकाः शेषाधिका: 11 अनन्तगुणाः 5 अनन्तगुणाः 5 इहाल्पबहुत्वाधिकारं वृद्धाः गाथाभिरेवं प्रपञ्चितवन्तः "ओरालसव्वबंधा, थोवा अब्बंधया विसेसहिया। तत्तो य देसबंधा, असंखगुणिया कहं भेया ? ||1 // " इहौदारिकसर्वबन्धाऽऽदीनामल्पत्वाऽऽदिभावनार्थं सर्वबन्धाऽऽदिस्वरुपंतावदुच्यते "पढमम्मि सव्वबंधे,समए सेसेसु देसबंधोउ। सिद्धाईण अबंधो, विग्गहगइयाण य जियाण // 2 // " इह ऋजुगत्था विग्रहगत्या चोत्पद्यमानानांजीवानामुत्पत्ति क्षेत्रप्राप्तिप्रथमसमये सर्वबन्धो भवति। द्वितीयाऽऽदिषु देशबन्धः, सिद्धाऽऽदीनामित्यत्राऽऽदिशब्दाद्वैक्रियाऽऽदिबन्धकानां च जीवानामौदारिकस्याबन्ध इति। इह च सिद्धादीनामबन्धकत्वेऽप्यत्यन्ताल्पत्वेनाविवक्षणाद्विग्रहिकानेव प्रतीत्य सर्वबन्धकेभ्योऽबन्धका विशेषा उक्ताः इत्येतदेवाऽऽह "इह पुण विग्गहिय चिय, पडुच्च भणिया अबंधगा अहिया। सिद्धा अणंतभाग म्मि सव्वबंधाण वि भवंति॥३॥" साधारणेष्वपि सर्वबन्धभावात्सर्वबन्धका सिद्धेभ्योऽनन्तगुणा यत एवं ततः सिद्धास्तेषामनन्तभागे वर्तन्ते। यदि च -सिद्धा अपि तेषामनन्तभागे वर्तन्ते तदा सुतरां वैक्रियबन्धकाऽऽदयः प्रतीयन्त एव, ततस्तान्विहाय एव सिद्धपदमेवेहाधीतमिति / अथ सर्वबन्धकानामबन्धकानां च समताऽभिधानपूर्वकमबन्धकानां विशेषाधिकत्वमुपदर्श यितुमाह - "उजुआ य तेगबका, दुहओ बंका गई भवे तिविहा। पढमाइसव्वधा, सव्वे वीया य अद्धं तु॥४॥ तइयाइ तइयभागों, लब्भइ जीवाण सव्यबंधाण। इह तिन्नि सव्वबंधा, रासी तिन्नेव य अबंधा / / 5 / / रासिप्पमाणओ ते, तुल्ला बंधा य सव्वबंधा य। संखापमाणओ पुण, अबंधगा मुण जहऽन्भहिया॥६॥" ऋज्ज्वायतायां गतौ सर्वबन्धका एवाऽऽद्यसमये भवन्त्येव- मेक स्तेषां राशि, एकवक्राया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धकाः, द्वितीय तु सर्व बन्धका इत्येवं तेषां द्वितीयो राशिः, स चैकवक्राभिधानद्वितीय गत्योत्पद्यमानानामर्द्धभूतो भवतीति. द्विवकया गत्या ये पुनरुत्पद्यन्ते ते आये समयद्वये अबन्धकास्तृतीये तु सर्वबन्धकाः / अयं च