________________ बंधण 1236 - अभिधानराजेन्द्रः - भाग 5 बंधण सर्वबन्धकाना तृतीयो राशिः, स च द्विवक्राभिधानतृतीयगत्यो त्पद्यमाना-नां त्रिभागभूतो भवति, तृतीयसमयभावित्वात्तस्य, एवं च त्रायः सर्वबन्ध-कानां राशयस्रय एव चाबन्धकानां समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यद्यपि भवन्ति तथापि संख्याप्रमाणबोधिका अबन्धका भवन्ति। ते चैवम्"जे एगसमझ्या ते, एगनिगोयम्भि, छिदिसिं एंति। दुसमइया तिपयरिया, तिसमइया सेसलोगाओ॥७॥" ये एकसामयिका ऋजुगत्योत्पद्यमानका इत्यर्थः / ते एकस्मिन् निगोदे साधारणशरीरे लोकमध्यस्थिते षड्भ्यो दिग्भ्योऽनुश्रेण्या आगच्छन्ति ये पुनर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः / ते त्रिप्रतरिका :प्रतरत्रयादागछन्ति, विदिशो वक्रेणागमनात्, प्रतरश्च वक्ष्यमाणस्वरुपः, ये पुनस्त्रिसमयिकाः समयायेण वक्रद्वयेन चोत्पद्यमानकारते शेषलोकात् प्रतरत्रायातिरिक्तलोकादा गच्छन्तीति / / प्रतरप्ररुपणायाऽऽह"तिरियाऽऽययं च चउदिसि, पयरमसंखप्पएसबाहल्लं। उड्डे पुव्वावरदा-हिणुत्तरा जाय दो पयरा।।८॥" लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः प्रकल्प्यते, असंख्येयप्रदेशबाहल्यो विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहल्य इत्यर्थस्तन्मात्रबाहल्यावेव। (उडुति) ऊवधिोलोकान्तगतौ पूर्वापरायतो दक्षिणोत्तरायतश्चेतिद्वौ प्रतराविति। अथाधिकृतमल्पबहुत्वमुच्यते "जे तिपयरिया ते छ-दिसिएहिंतो भवंतऽसंखगुणा। सेसा वि असंखगुणाः, स्वेत्ताऽसंखेनगुणियत्ता // 6 // " 'ये जीवारित्रप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षड् दिक्केभ्य अजगत्या षड्भ्यो दिग्भ्य आगतेभ्यस्सकाशाद्ववन्त्य संख्यगणाः शेषा अपि ये त्रिसमयकाः शेषलोकादागतास्तेऽप्यसंख्येयगुणा भवन्ति। कुतः क्षेत्राऽसंख्यातगुणितत्वाद्यतः षड्दिक्कक्षेत्रात् त्रिप्रतरमसंख्येयगुण, ततोऽपि शेषलोक इति। ततः किमित्याह --- "एवं विसेस अहिया, अबंधया सव्वबंधएहितो। ति समइयविग्गहं पुण, पडुच्च सुत्त इमं होइ // 10 // " वक्रद्वयमाश्रित्येदं सूत्रद्वयमित्यर्थ :"चउसमयाविग्गहे पुण, संखेज्जगुणा अबंधगा होति। एएसिं निदरिसण, ठवणारासीहिं वोच्छामि॥११॥ पढ़मो होइ सहस्सं, दुसमइया दो विलक्खमेक्केछ / तिसमइया पुण तिन्नि वि, रासी कोडी भवेकेक्का // 12 // " प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्रं परिकल्पितः, क्षेत्रास्याल्पत्यात्, द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्धकानामन्यः सर्वबन्धकाना तौ च प्रत्येक लक्षमानौ तत क्षेत्रस्य बहतरत्वात. ये पनस्त्रिभिः समयैरुत्पद्यन्तेतेषां त्रयो राशयस्तत्रचाऽऽद्ययोः समययोरबन्धकराशी, तृतीयस्तु सर्वबन्धकराशिस्ते च त्रयोऽपि प्रत्येक कोटीमाना तत्क्षेत्रस्य बहुगतत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहसंलक्षं कोटी चैवं सर्वस्तोकाः, अबन्धकास्तु लक्ष कोटीद्वयं चेत्येवं विशेषाधिकास्तइति "एएसिं जहसंभव -- मत्थोववणं करेज रासीण। एतो असंखगुणिया, वोच्छं जह देसबंधा से।।१३।। एगो असंखभागो, वट्टइ उव्वट्टणोववायम्मि। एगनिगोए निचं, एवं सेसेसु विसए वा / / 14 / / अंतोमुत्तमेव, ठिई निगोयाण जं विणिदिट्ठा। पल्लमृति निगोया, तम्हा अंतोमुहत्तेणं / / 15 / / " अनेन च गाथाद्रयेनोद्वर्तनाभणनात् विग्रहसमयसंभवोऽन्त मुहूर्तान्ते परिवर्तनामणनाच निगोदस्थितिसमयमानवमुक्तम् / ततश्च -- "तेसिं ठिइसमयाण, विग्गहसमया हवंति जइ भावे। एवं तिभागे सवे, विग्गहिया सेसजीवाणं॥१६॥ सव्वे विय विग्गहिया, सेसाणं जं असंखभागस्मि। तेणासखगुणा दे-सबंधया अबंधएहिंतो॥१७॥ वेउव्वियआहारण-तेयाकम्मापढियसिद्धाई। इह वि विसेसो जो ज-त्थ तत्थ तं तं भणीहामि // 18 / / वेउव्विसव्वबंधा, थोवा जे पढमसमयदेवाई। तस्सेव देसबंधा, असंखगुणिया कई के वा? ||16 / / " उच्यते"तेसिं चियजे सेसा, ते सव्वे सव्वबंधए मोप्तुं। होंति अबंधाणंता, तव्वजा सेसजीवा जे॥२०॥' अयमर्थः तेषामेव वैक्रियबन्धकानां सर्वबन्धकान्मुक्त्वा ये शेषास्ते सर्वेवैक्रियस्य देशबन्धका भवन्ति, अत्र च सर्वबन्धकान् मुक्त्वेत्यनेन कथमित्यस्य निर्वचनमुक्तं, ये शेषा, इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्याऽनन्ता भवन्ति, ते च के? ये तद्वर्जा : वैक्रियसर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकाऽऽदिबन्धका देवाऽऽदयश्च वैग्रहिका इति // 20 // "आहारसव्वबंधा, थोवा दो तिन्नि पंच वा दस वा। संखेज्जगुणा दंसे, तओ पुहुत्तं सहस्साणं / / 21 / / तव्वज्जा सव्वजिया, अबंधया ते हवंतिणंतगणा। थोवा अबंधया ते-यगस्स संसारमुक्का जे।२२॥" तदर्जा-आहारकबन्धवाः सर्वजीवा अबन्धका इत्याहारका बन्धकस्वरूपमुक्तं, तेच पूर्वेभ्योऽनन्तगुणा भवन्ति। "सेसा य देशबंधा, तव्वज्जा ते भवंतऽणंतागुणा। एवं कम्मगभेया, वि नवरि नाणत्तमाउम्मि॥२३॥" तचाऽऽयुर्नानात्वमेवम्"थोवा आउयबंधा संखेजगुण अबंधया हॉति। तेयाकम्माण सव्वबंधगा नत्थि णाइत्ता / / 24 // " संख्यातगुणा आयुष्कारबन्धका इति यदुक्तं तत्रा प्रश्नआह"असंखेज्जगुणाउ-गस्स किं अबंधगा न भण्णंति। जम्हा असंखभागो, उ वट्टइ एगसमएणं // 25 // " अयमभिप्रायः-एकोऽसंख्यभागो निगोदजीवानां सर्वदोधर्तते, स च बद्धाऽऽयुषामेव, तदन्येषामुद्वर्तनाभावात्, तेभ्यश्च ये शेषास्तेऽबद्धाऽऽयुषस्ते च तदपेक्षयाऽसंख्यातगुणा एवेत्येवम संख्यातगुणा आयुष्काबन्धकाः स्युरिति। अत्रोचयते "भण्णइ एगसमइओ, कालो उट्वट्टणाइँ जीवाणं / बंधणकालो पुण आ-उगस्स अंतोमुत्तो उ॥२६॥" अयमभिप्रायः-निगोदजीवभवकालाऽपेक्षया तेषामायुर्बन्ध कालः संख्यात भागवृत्तिरित्यबन्धकाः संख्यातगुणा एव। एतदेव भाव्यते"जीवाण ठिईकाले, आउयबंधऽद्धभाइए लद्धं / एवइभागे आउ-स्स बंधया सेसजीवाणं / / 27 // " निगोदजीवानां स्थितिकालः अन्तर्मुहूर्तमानः, सच कल्पनया समयलक्ष, तत्राऽऽयुर्बन्धाद्धाया आयुर्वन्धकाले नान्तमुहूर्त माने नै व कल्पनया समयसहस्रलक्षणे न भाजिते सति य -