________________ पञ्चक्खाण 9. - अभिधानराजेन्द्रः - भाग 5 पचक्खाण क्ष्यति, परं त्वजानतेति / ही०३ प्रका० / श्राद्धानामष्टमान्तप्रत्याख्यानेऽवश्रावणं कल्पते, न वा ? इति प्रश्ने उत्तरम् - श्राद्धानामष्टमान्ततपसि अवश्रावणं न कल्पते, आचारणाया अभावात्। ही०२ प्रका०। (E) श्राद्धाः प्रत्याख्यानं कदा गृह्णन्तिप्रतिक्रामकस्य च प्रत्याख्यानोचारात्पूर्व सचित्ताऽऽदिचतुदेशनियमग्रहा" स्यात्, अप्रतिक्रामकेणापि सूर्योदयात्प्राक् चतुर्दशनियमग्रहणं यथाशक्तिनमस्कारसहितग्रन्थिसहिताऽऽदिव्यासनैकाशनाऽऽदियथागृहीतसचित्तद्रव्यविकृतिनैयत्यादिनियमांच्चारणरुपं देशावकाशिकं च कार्यमिति श्राद्धविधिवृत्तिलिखितानुवादः। क्षोदक्षेमश्वायम्यतो नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयात्प्रागेवोचारवितुं युक्तं, न तु तत्पश्चात्, कालप्रत्याख्यानस्य “सूरे उग्गए'' इति पाटबलात् सूर्योदयेनैव संबद्वत्वसिद्धेः, शेषाणि संकेताऽऽदीनि तुपश्चादपि कृतानि शुद्ध्यन्ति। यतः श्राद्धविधिवृत्तौ- 'नमस्कारसहितपौरुष्यादिकालप्रत्याख्यानं सूर्योदयाप्राक् याचार्यते तदा शुद्धयति, नान्यथा, शेषप्रत्याख्यानानि सूर्योदयात्पश्चादपि क्रियन्ते, नमस्कारसहितं यदि सूर्योदयात्त्रागुचारितं तदा तत्पूर्तेरन्वयिपौरुष्यादिकालप्रत्याख्यान क्रियते स्वस्वावधिमध्ये नमस्कारसहितोचारं विना सूर्योदयादनु कालप्रत्याख्यानं न शुद्ध्यति। यदि दिनोदयात्प्रागनमस्कारसहितं विना पौरुष्यादि कृतं तदा तत्पूर्वेरुद्धमपरं कालप्रत्याख्यानं न शुद्ध्यति, तन्मध्ये तु शुद्ध्यतीति वृद्धव्यवहारः। श्रावकदिनकृल्येऽपि- "पचक्खाणं तु ज तम्मि।" इति गाथार्थपर्यालोचनयेयमेव वेला प्रतिपादिता संभाव्यते / प्रवचन सारोद्धारवृत्तावपि-" उचिए काले विहिण त्ति।" गाथाव्याख्यायामुचित काले विधिना प्राप्तं यत् स्पृष्ट तद्भिणतम्। इदमुक्तं भवति-साधुः श्रावको वा प्रत्याख्यानसूत्रार्थ सम्यगवबुद्धयमानःसूर्येऽनुद्रत एव स्वसाक्षितया चैत्यस्थापनाऽऽचार्यसमक्षं वा स्वयं प्रतिपत्रविवक्षितप्रत्याख्यानः पश्चाच्चारित्रपवित्रगात्रस्य गीतार्थस्य गुरोः समीपे सूत्रोक्तविधिना कृतिकर्माऽऽदिविनयं विधाय रागाऽऽदिरहितः सत्रोपयुक्तः प्राजलिपुटो लघुतरशब्दो गुरुवचनमनुचरन् यदा प्रत्याख्यानं प्रतिपद्यते तदा स्पृष्ट भवतीति। तथा प्रत्याख्यानपञ्चाशकवृत्तावपि-"गिएहइ सयं गहीय काले" तिगाथा, गएहाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतं, स्वयं गृहीतमात्मना प्रतिपन्नं, विकल्पमात्रेण स्वप्ताक्षितया वा चैत्यस्थापनाऽऽचार्यसमक्षं वा, कदा गएहातीत्याहकाले पौरुष्यादिके आगामिनि सति, न पुनस्तदातेक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात्, अतीतवर्तमानयोस्तुनिन्दासंवरणविषयत्यादिति / इत्यं च बहुग्रन्थानुसारेण कालप्रत्याख्यानं सूर्योदयात्प्रागेयोचार्य, नान्यथेति तत्त्वम् / ध०२ अधि० / चैत्यपूजाऽनन्तरं जिनगृहे प्रत्याचक्षते। अथ गृहचैत्यपूजाऽनन्तरं यत्कर्तव्यं तदाह-तत इत्यादि। ततो देवपूजाऽनन्तरं स्वयमात्मना जिनानामग्रतः पुरतस्तत्साक्षिकमिति यावत्। प्रत्याख्यानस्य नमस्कारसहिताऽऽद्यद्धारुपस्य ग्रन्थिसहिताऽऽदेः संकेतस्पस्य च करणमुच्चारंण, विशेषतो गृहिधर्मो भवतीति पूर्वप्रतिज्ञातेन संबन्धः। ध०२ अधि०।नमस्कारपौरुष्यादि दिवसप्रत्याख्यानं न गृह्णाति, गृहीत्वा वा विराधयति, तर्हि प्रायश्चित्तं निर्विक तिकम्। व्य० 1 उ०। (अद्धाप्रत्याख्यानम् 'अद्धापचक्खाण' शब्दे प्रथमभागे 565 पृष्टे गतम्) इदानीमुपसंहरन्नाहभणिअंदसविहमेअं, पच्चक्खाणं गुरुवएसेणं / क यपचक्खाणविहिं, इत्तो वुच्छं समासेणं / / 16 / / भणितं दशविधमेतत्प्रत्याख्यानं गुरुपदेशेन कृतं प्रत्याखानं येन स तथाविधस्तम् / अत ऊर्द्ध वक्ष्ये समासेन संक्षेपेणेति गाथार्थः / / 16 / / आव०६ अ०(साकारद्वारम् 'सागारक' शब्दे) (10) प्रत्याख्यानविधौ दानविधिः / अथ प्रत्याख्यानविधि प्रतिपिपादयिषुस्तद्वाराएयाहगहणे आगारेसुं, सामइए चेव विहिसमाउत्तं / भेए भोगे सयपा-लणाएँ अणुबंधभावे य||४|| ग्रहणमङ्गीकरण तद्विषये / विधिप्तमायुक्तं प्रत्याख्यानं भणाम इति प्रकृतम् / एवमुप्तरपदेष्वपि योजना कार्या। तथा आकारेषु प्रत्याख्यानापवादेषु / (सामाइए चेव त्ति) सामायिक एव च सामायिकप्रत्याख्याने सत्यपि प्रतिपत्तव्यमेवेदमित्यादिलक्षणो विधिरितिगर्भः। (विहिसमाउतं ति) एतेषु ग्रहणाऽऽदिषु यो विधिविधानं, तेन समायुक्तं समन्वितं यत्त तथा,तथा भेदे अशनाऽऽदावाहारभेदे, तथा भोगे भोजने, तथा स्वयं पालनायामात्मनैवाऽऽसेवायां, तथाऽनुबन्धो भोजनोतरकालमपि स्वाध्यायाऽऽदिसव्यापाराभिष्वङ्गात्प्रत्याख्यानपरि-णामाविच्छेदः / प्रत्याख्याताऽऽहारस्य हि स्वाध्यायाऽऽदिन निर्वहति। ततो मुक्तदाऽपि यदि तमेव करोति तदा प्रत्याख्यानेऽनुबन्धोऽवसीयत इति / तदेवमनुबन्धस्य भावः सत्ताऽनुबन्धभावः, तत्र च विधिसमायुक्तमिति प्रकृतम्। चशब्दः समुच्चये। इति द्वारगाथासमासार्थः // 4 // एतामेव लेशतो व्याचिख्यासुर्ग्रहणविधिप्रतिपादनार्थ तावदाहगिएहति सयं गहीयं, काले विणएण सम्ममुवउत्तो। अणुभासंतो पइव-त्युजाणगो जाणगसगासे / / 5 / / गृएहाति प्रतिपद्यते, प्रत्याख्यानमिति प्रकृतम्। स्वयं ग्रहीतमात्मना प्रतिपन्नं, विकल्पमात्रेण स्वसाक्षितयावा चैत्यस्थापनाऽऽचार्यसमक्ष वा। कदा गृएहातीत्याहकाले पौरुष्यादिके आगामिनि सति, न पुनस्तदतिक्रमे, अनागतकालस्यैव प्रत्याख्यानविषयत्वात्, अतीतवर्त्तमानयोनिन्दासंवरणविषयत्वादिति। तथा विनयेन वन्दनकदानाऽऽदिना, अनेन प्रत्याख्यानस्य विनयतः शुद्धिरुपदर्शिता / / (पञ्चा) वस्तु वस्तु प्रति प्रतिवस्तु, वस्तु च पुरिमाशिनाऽऽदि / इदं चानुभाषमाण इत्यनेन ज्ञायक इत्यनेन वा संबन्धनीयम् / तथा ज्ञायको ज्ञाता. गृह्णातीति प्रकृतम् / अनेन च ज्ञानशुद्धिरस्योक्ता, ज्ञानस्य दर्शनपूर्वकत्वाद्दर्शनशुद्धिश्वा पञ्चा०५ विव०। ज्ञायको ज्ञायकसमीप इत्युक्तम्, इह च चत्वारो भगा भवन्तीति तदुपदर्शनायाऽऽहएत्थं पुण चउभंगो, विण्णेओ जाणगेयरगओ उ। सुद्धासुद्धा पढम-तिमा उ सेसेसु उ विभासा।।६।। अत्र ज्ञायको ज्ञायक समीप इत्यत्र ग्रहणविधेरवयवे, पुनः शब्दोऽस्यैव विशेषद्योतनार्थः। स चायम्-चतूरुपो भङ्गश्चतुर्भङ्गः,