________________ बंधण 1221 - अभिधानराजेन्द्रः - भाग 5 बंधण स्थानगतं रसं बध्नन्ति / संक्लिष्टतरपरिणामास्तु द्विस्थानगतम् / ये पुनस्तद्योग्य भूमिकाऽनुसारेण सर्वविशुद्धाः परावर्त्तमाना अशुभप्रकृतीबध्नन्ति ते तासां द्विस्थानगत रसं निवर्तयन्ति / मध्यमपरिणामास्त्रिस्थानगतम् / संक्लिष्टतरपरिणामास्तु चतुःस्थानगतम् ! (धुवपगडीत्यादि) ये सर्वविशुद्धाः शुभप्रकृतीनां चतुःस्थानगतं रसं बध्नन्ति, ते ध्रुवप्रकृतीनां जघन्यां स्थिति निवर्तयन्ति। (तिट्टाणे इति) षष्ठ्यर्थे सप्तमी, परावर्त्तमानशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां मध्यमां स्थिति बध्नन्ति / द्विस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनांज्येष्ठामुत्कृष्टां स्थिति बध्नन्ति। तथा इतरासां परावर्त्तमानाऽ शुभप्रकृतीनां ये द्विस्थानगत रसं बध्नन्ति, ते ध्रुवप्रकृतीना जघन्यां स्थिति स्वस्थाने स्वविशुद्धिभूमिकाऽनुसारेणेत्यर्थः, बध्नन्ति, परावर्तमानाशुभप्रकृतिसत्कद्विस्थानगतरसन्धहेतु-विशुद्ध्यनुसारेण जघन्यां स्थिति बध्नन्ति, नत्वतिजघन्यामित्यर्थः / जघन्यस्थितिबन्धो | हि ध्रुव प्रकृतीनामेकान्तविशुद्धौ सम्भवति, न च तदानीं परावर्तमानाऽशुभप्रकृतीनां बन्धाः संभवन्ति / ये पुनः परावर्त्तमानाऽशुभप्रकृतीनां त्रिस्थानगतस्य रसस्य बन्धकास्ते ध्रुव प्रकृतीनामजघन्यां स्थिति बध्नन्ति / तथा ये परावर्त्तमानाऽशुभप्रकृतीनां चतुःस्थानगतं रस बध्नन्ति ते ध्रुवप्रकृतीनामुत्कृष्टां स्थिति निवर्तयन्ति / / 6 1||2|| इह द्विधा प्ररुपणा-अनन्तरोपनिधया, परम्परोपनिधया च / तत्राऽनन्तरोपनिधया प्ररुपणामाह - थोवा जहन्नियाए, होति विसेसाहिओदहिसयाइं। जीवा विसेसहीणा, उदहिसयपुहुत्तमो जाव।।६३ / / (थोव ति) परावर्तमानानां शुभप्रकृतीनां चतुःस्थानगत रसबन्धकाः सन्तोज्ञानाऽऽवरणीयाऽऽदीनां ध्रुवप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। द्वितीयस्यां स्थितौ विशेषाधिकः। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः एवं तावद्विशेषाधिका वक्तव्या यावत्प्रभूतानि सागरोपमशतान्यतिक्रान्तानि भवन्ति / ततः परं विशेषहीना स्तावद् वक्तव्या यावद्विशेषहनावपि (उदहिसयपुहुत्तं ति) प्रभूतानि सागरोपमशतानि भवन्ति / 'मो' इति पादपूरणे / पृथक्त्वशब्दोऽत्रा बहुत्वयाची। यदाह चूर्णिकृत्-'पुहुत्तसद्यो बहुत्तवाचीति।" इति।।६३|| एवं तिट्ठाणकरा, विट्ठाणकरा य आ सुभुक्कोसा। असुभाणं विट्ठाणे, तिचउट्ठाणे य उक्कोसा ||4|| (एवं ति) परावर्तमानानां शुभप्रकृतीनां त्रिस्थानगतंरसं निवर्तयन्तः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः / ततो द्वितीयस्यां स्थितौ विशेषाधिकाः / ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः / एवं तावद्वाच्यं यावत्प्रभूतानि | सागरोपमशतान्यतिकामन्ति। ततः परं विशेषहीना विशेषहीनास्तावद्वकव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशताति गच्छन्ति / तथा परावर्तमानाशुभ प्रकृतीनां द्विस्थानगतं रसं निवर्तयन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः / ततो द्वितीयस्यां स्थिती विशेषाधिकाः / ततोऽपि तृतीयस्यां (स्थितौ) विशेषाधिकाः / एवं तावद्वाच्यं यावत्प्रभूतानि सागरोपमशतान्यतिक्रामन्ति / ततः परं विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि प्रयान्ति / परावर्तमानाशुभप्रकृतीनां च द्विस्थानगतरसबन्धका एवं तावद्वक्तव्या यावत्तासां परावर्तमान शुभप्रकृतीनामुत्कृष्टा स्थितिः उत्कृष्टस्थितिगतद्विस्थानर बन्धका इत्यर्थः / (असुभाणमित्यादि) अशुभपरावर्त्तमान प्रकृतीनां प्राग्दर्शितक्रमेण प्रथमतो द्विस्थानगतरसबन्धका वक्तव्याः। ततस्विस्थानगतरस बन्धका वक्तव्याः। ततश्चतुः- स्थानगतरसबन्धकाः। ते च तावद्वक्तव्या यावदुत्कृष्टा स्थितिः। इयमत्रा भावना-अशुभपरावर्त्तमानप्रकृतीनाजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो द्वितीयस्यां स्थिती विशेषाधिकाः / ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः / एवं विशेषाधिका विशेषाधिकास्तावद्वक्तव्या यावत्प्रभूतानि सागरोपमशतानि गच्छन्ति। ततः परं विशेषहीना विशेषहीनास्ता वद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतानि यान्ति / अशुभपरावर्त्तमानप्रकृतीनां त्रिस्थानगतरसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः ततो द्वितीयस्यां स्थितौ विशेषाधिकाः / एवं प्रागिव तावद्वाच्य यावद्विशेषहानावपि प्रभूतानि सागरोपमशतान्यतिक्रामन्ति। तथाऽशुभपरावर्त्तमानप्रकृतीनां चतुः स्थानगतरसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः। ततो द्वितीयस्यां स्थिती विशेषाधिकाः। ततोऽपि तृतीयस्यां स्थितौ विशेषाधिकाः। एवं तावद्वाच्य यावत् प्रभूतानि सागरोपमशतानि गच्छन्ति। ततः परं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावद्विशेषहानावपि प्रभूतानि सागरोपमशतान्यतिक्रामन्ति। अशुभपरावर्त्तमानप्रकृतीनां च चतुःस्थानगतरसबन्धका एवं विशेषहीना विशेषहीनास्तावद्वक्तव्या यावत्तासामशुभपरावर्त्तमानप्रकृतीनामुत्कृष्ट स्थितिर्भवति, उत्कृष्टस्थितिगतचतुःस्थानकरसबन्धका इत्यर्थः // 64|| तदेवं कृताऽनन्तरोपनिधया प्ररुपणा। सम्प्रति परम्परोपनिधया तामाह - पल्लासंखियमूला-नि गंतु दुगुणा य दुगुणहीणा य। नाणंतराणि पल्ल- रस मूलभागो असंखतमो ||15|| (पल्ल ति) परावर्त्तमानशुभप्रकृतीनां चतुःस्थानगतरस बन्धका ध्रुवप्रकृतीना जघन्यस्थितौ बन्धकत्वेन वर्तमाना ये जीवास्तदपेक्षया जघन्यस्थितः परतः पल्योपमस्या संख्येयानिवर्गमूलानिपल्योपमस्यासंख्येयेषु वर्गमूलेषु यावन्तः समयास्तावत्प्रमाणाः स्थितीरतिक्रम्यपरस्मिन् स्थितिस्थाने वर्तमाना जीवा द्विगुणा भवन्ति / ततः पुनरपि पल्योपमासंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यान्तरे स्थितिस्थाने द्विगुणा भवन्ति / एवं द्विगुणास्तावद्वक्तव्या यावत्प्रभूतानि सागरोपमशतान्यतिक्रामन्ति। ततः परं पल्योपमाऽसंख्येयवर्ग मूलप्रमाणाः स्थितीरतिक्रम्यपरस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरमस्थिती बन्धकत्वेन वर्त