________________ बंधण 1222 - अभिधानराजेन्द्रः - भाग 5 बंधण माना ये जीवास्तदपेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्तीत्यर्थः / ततः पुनरपि पल्योपमाऽसंख्येयवर्गमूलप्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थानेऽर्धा भवन्ति / एवं तावद्वाच्यं यावद् द्विगुणहानावपि प्रभूतानि सागरोपमशतान्यति क्रामन्ति / एवं परावर्त्तमानशुभप्रकृतीना त्रिस्थानकरसबन्धका द्विस्थानगतरसबन्धकाश्च, अशुभपरार्त्तमानप्रकृतीना तु द्विस्थानरसबन्धकारित्रस्थानरसबन्धकाश्चतुः स्थानरस बन्धकाश्च वक्तव्याः / एकस्मिन् द्विगुणवृद्धयन्तरे द्विगुणहान्यन्तरे वा स्थितिस्थानानि पल्योपमस्याऽसंख्येयानि वर्गमूलानि पल्योपमस्यासंख्ययेषु वर्गमूलेषु यावन्तः समया स्तावत्प्रमाणानीत्यर्थः / नानाऽन्तराणि नानारुपाद्विगुणवृद्धि द्विगुणहानि (लक्षणानि) स्थानानिपल्योपमस्य सम्बन्धिनः। प्रथमवर्गमूलस्याऽसंख्येयतमे भागे यावन्तः समयास्ता वत्प्रमाणानि भवन्ति / नानाद्विगुणवृद्धिद्विगुणहानिस्थानि स्तोकानि। एकरिमन् द्विगुणवृद्ध्यन्तरे द्विगुणहान्यन्तरेवा स्थितिस्थानानि असंख्येयगुणानि !|65|| अणगारप्पाउग्गा, विट्ठाणगया उ दुविहपगडीणं / सागारा सव्वत्थ वि, हिट्ठा थोवाणि जवमज्झा / / 66 // ठाणाणि चउट्ठाणा, संखेजगुणाणि उवरिमेवं ति। तिहाणे बिट्ठाणे,सुभाणि एगंतमीसाणि ||7|| उवरिं मिस्साणि जह-नगो सुभाणं तओ विसेसहिओ। होइ सुभाण जहण्णो, संखेजगुणाणि ठाणाणि / / 68|| बिट्ठाणे जवमज्झा, हेट्ठा एगंत मीसगाणुवरि। एवं तिचउहाणे, जवमज्झाओ य डायठिई||EIR अंता कोडाकोडी, सुभविट्ठाण जवमज्झओ उवरिं। एगंतगा विसिट्ठा, सुभजिट्ठा डायठिइजेट्ठा।।१००|| (अणगार त्ति) द्विविधानामपि-शुभानामशुभाना च परावर्त मानप्रकृतीनां रसा अनाकारप्रायोग्याः बन्ध प्रत्यनाकारोपयोग योग्या बन्धमधिकृत्य तथाविधमन्दपरिणामयोग्या इत्यर्थः / नियमात द्विस्थानगता एव नान्ये / तुरेवकारार्थः / उक्तं च - "तुः स्याद्भेदेऽवधारणे / ' सकाराः साकारोपयोगयोग्या बन्धमधि कृत्य तीव्रपरिणामयोग्याः। पुनः सर्वत्राऽपि द्विस्थानाऽऽदौ प्राप्यन्ते द्विस्थानगतास्त्रिस्थानगताश्चतुःस्थानगताश्च रसा बन्धमाश्रित्य साकारोपयोगयोग्या भवन्तीत्यर्थः / / इदानीं सर्व स्थितिस्थानानामल्पबहुत्वमाह- (हिट्ठा थोवाणीत्यादि) परावर्त्तमानशुभप्रकृतीनां चतुःस्थानकरसयवमध्यादधः स्थितिस्थानानि सर्वस्तोकानि। तेभ्यश्चतुः स्थानकरसयव मध्यस्यैवोपरि स्थितिस्थानानि संख्येयगुणानि / तेभ्योऽपि परावर्तमानशुभप्रकृतीनां त्रिस्थानकरसयवमध्यादधः स्थिति स्थानि संख्येयगुणानि। तेभ्योऽपित्रिस्थानकरसयवमध्यस्यो परिस्थितिस्थानानि संख्येयगुणानि। (एवं तिहाणे ति) एवं संख्येयगुणतयाऽध उपरिच त्रिस्थानेऽपि रसे स्थितिस्थानानि वक्तव्यानीत्यर्थः / तेभ्योऽपि परावर्त्तमानशुभप्रकृतीनां द्विस्थान करसयवमध्यादध:-स्थितिस्थानानि एकान्तसाकारो फ्योगयोग्यानि संख्येयगुणानि / तेभ्योऽपि द्विस्थानकर सयवमध्यादधः पश्चात्येभ्यः ऊर्ध्व स्थितिस्थानानि मिश्राणि साकाराऽनाकारोपयोगयोग्यानि संख्येयगुणानि / तेभ्योऽपि द्विस्थानकरसयवमध्यस्योपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि। तेभ्योऽपि शुभानां परावर्त्तमानप्रकृतीनां जधन्यः स्थितिबन्धः संख्येयगुणः / ततोऽप्यशुभपरावर्तमान प्रकृतीनां जघन्यस्थितिबन्धः विशेषाधिकः / ततोऽप्यशुभपरा वर्तमानप्रकृतीनामेव द्विस्थानकरसयवमध्यादध एकान्तसाकारोप योगयोग्यानि स्थितिस्थानानि संख्येयगुणानि / ततस्तासामेव परावर्तमानाशुभप्रकृतीनां द्विस्थानकरसयवमध्यादधः पाश्चात्येभ्य ऊर्ध्व मिश्राणि स्थितिस्थानानि संख्येयगुणानि। तेभ्योऽपि तासामेवाशुभपरा वर्तमानप्रकृतीनां द्विस्थानकरसयवमध्यादुपरि स्थितिस्थानानि मिश्राणि संख्येयगुणानि। तेभ्योऽप्युपरि एकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि / तेभ्योऽपि तासामेव परावर्तमानाऽशुभप्रकृतीनां त्रिस्थानकर सयवमध्यादधः स्थिति स्थानानि संख्येयगुणानि / तेभ्योऽपि त्रिस्थानकरसययमध्यस्योपरि स्थितिस्थानानि संख्येयगुणानि / तेभ्योऽप्यशुभपरावर्तमानप्रकृतीनामेव चतुः स्थानकरसयवमध्यादधः स्थितिस्थानानि संख्येयगुणानि / तेभ्योऽपि यवमध्यादुपरि डायस्थितिः संख्येयगुणा / यतः स्थितिस्थानादपवर्तनाकरणवशेनोत्कृष्टां स्थितिं याति तावती स्थिति[यस्थितिरित्युच्यते। ततोऽपि सागरोपमाणामन्तः कोटीकोटी संख्येयगुणा। ततोऽपि परावर्तमानशुभप्रकृतीनां द्विस्थानकरसयवमध्यस्योपरि यानि मिश्राणि स्थितिस्थानानि तेषामुपर्यकान्तसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि / तेभ्योऽपि परावर्तमानशुभप्रकृतीनामुत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽप्यशुभपरावर्तमानप्रकृतीनां बवा डायस्थितिर्विशेषाधिका / यतः स्थितिस्थानात् माण्डूकप्लुतिन्यायेन डायाफालां दत्त्वा या स्थितिबध्यते ततः प्रभृति तदन्ता तावती स्थितिबंद्धा डायस्थितिरिहोच्यते। सा चोत्कर्षतोऽन्तःसागरोपमकोटीकोट्यूना सकलकर्मस्थिति प्रमाणा वेदितव्या। तथाहि-अन्तःसागरोपमकोटीकोटीप्रमाणां स्थितिबन्धं कृत्वा पर्याप्तसंज्ञिपञ्चेन्द्रिय उत्कृष्टां स्थिति बध्नातीति नान्यथा / ततोऽपि परावर्तमानाशुभप्रकृतीनामुल्कृष्टः स्थितिबन्धो विशेषाधिक इति।। सम्प्रत्यस्मिन् विषये जीवानामल्पबहुत्वमाह -- संखेज्जगुणा जीवा, कमसो एएसु दुविहपगईणं। असुभाणं तिट्ठाणे, सव्वुवरि विसेसओ अहिया||१०१।। (संखेज त्ति) सर्वस्तोकाः परावर्तमानशुभप्रकृतीनां चतुः स्थानकरसबन्धका जीवाः / तेभ्योऽपि त्रिस्थानकरसबन्धकाः संख्येयगुणाः / तेभ्योऽपि द्विस्थानकरसबन्धकाः संख्येयगुणाः / तेभ्योऽपि परावर्तमानाशुभप्रकृतीनां द्विस्थानकरसबन्धकाः संख्येयगुणाः। तेभ्योऽपि चतुःस्थानकरसबन्धकाः संख्येयगुणाः / तेभ्योऽपि त्रिस्थानकरसबन्धका विशेषाधिकाः। तथा चाऽऽह--(असुभाणमित्यादि) अशुभानामशुभप्रकृतीनां त्रिरथाने त्रिस्थानकस्य रसस्य बन्धकाः सर्वेषामुपरि विशेषाधिका वक्तव्याः। एवं बंधणकरणे, परूविए सह हि बंधसयगेणं /