________________ बंधण 1220 - अभिधानराजेन्द्रः - भाग 5 बंधण ठिइदीहयाएँ कमसो, असंखगुणियाणऽणंतगुणणाए। पढमजहण्णुक्कोसं, वितियजहन्नाइया चरमा |86 / / (ठिइदीहयाए त्ति) स्थितिदीर्घतया क्रमशः-क्रमेणाऽध्यवसायस्थानान्यसंख्येयगुणानि वक्तव्यानि / यस्य यतः क्रमेण दीर्घा स्थितिस्तस्य ततः क्रमेणाध्यवसायस्थानान्य संख्येयगुणानि वक्तव्यानीत्यर्थः / तथाहि सर्वस्तोकान्यायुषः स्थितिबन्धाध्यवसायस्थानानि। तेभ्योऽपि नामगोत्रयोर संख्येयगुणानि / नन्वायुषः स्थितिस्थानेषु यथोत्तरम संख्येयगुणा वृद्धिः, नामगोत्रयोस्तु विशेषाधिका, तत्कथमायुरपेक्षया, नामगोत्रयोरसख्येयगुणानि भवन्ति? उच्यते-आयुषो जघन्यस्थितावध्यवसायस्थानान्यतीव स्तोकानि, नामगोत्रयोः पुनर्जघन्यायां स्थितौ अतिप्रभूतानि, स्तोकानिचाऽऽयुषः स्थितिस्थानानि, नामगोजयोस्त्वति प्रभूतानि, ततो न कश्चिद् दोषः नामगोत्रयोः सत्कं स्थिति बन्धाध्यवसायस्थानेभ्यो ज्ञानाऽऽवरणीयदर्शनाऽऽवरणीय वेदनीयान्तरायाणां स्थितिबन्धाऽध्यवसायस्थानान्य सख्येयगुणानि / कथमिति चेदुच्यते-इह पल्योपमासङ्ख्येयभाग मात्रासु स्थितिष्वतिक्रान्तासु द्विगुणवृद्धिरुपलब्धा। तथा च सत्येकैकस्याऽपि पल्योपमस्यान्तेऽसड्ख्येयगुणानि लभ्यन्ते। किं पुनर्दशसागरोपमकोटीकोट्यन्ते इति तेभ्योऽपि कषायमोहनीवस्य स्थितिबन्धाऽध्यवसायस्थानान्यसङ्ख्येयगुणानि / तेभ्योऽपि दर्शनमोहनीयस्य स्थितिबन्धाऽध्य वरसायस्थानान्यसंख्येयगुणानि। उक्तः प्रकृतिसमुदाहारः।। सम्प्रति स्थितिसमुदाहारे या प्राक् तीवमन्दता गोक्ता, साऽभिधीयते -- (अणंतेत्यादि) प्रथमायां स्थिती जघन्य स्थितिबन्धाऽध्यवसायस्थानम्। ततस्तस्यामेवोत्कृष्टम् / ततो द्वितीयस्थितौ जघन्यम् / एवमादि आ चरमात् उत्कृष्टस्थितौ चरम स्थितिबन्धाऽध्यवसायस्थानं यावत् क्रमेणानन्तगुणतया वक्तव्यम् / तद्यथा ज्ञानाऽऽवरणीयस्य जघन्यस्थितौ जघन्य स्थितिबन्धाऽध्यवसावस्थानं सर्वमन्दानुभावम्। ततस्तस्यामेव जघन्यस्थितौ उत्कृष्टमध्यवसायस्थानमनन्त गुणम् / ततोऽपि द्वितीयस्थितौ जघन्य स्थितिबन्धाऽध्यवसाय स्थायमनन्तगुणम् / ततोऽपि तस्याभेव द्वितीयस्थिती उत्कृष्टमनन्तगुणम्। एवं प्रतिस्थिति जघन्यमुत्कृष्टं च स्थितिबन्धाऽध्यवसायस्थानमनन्तगुणतया तावद्वक्तव्यं यावदुत्कृष्टायां स्थितौ चरम स्थितिबन्धाऽध्यवसायस्थानम नन्तगुणम् / / 86 / / तदेवं स्थितिसमु. दाहारोऽपि निरवशेष उक्तः प्रकृति समुदाहारश्च / सम्प्रति जीवसमुदाहारमभिधित्सुराह - बंधंती धुवपगडी, परित्तमाणिगसुभाण तिविहरसं। चउ विग विट्ठाणगयं, विवरीयतिगं च असुभाणं ||10| (बंधंति त्ति) ज्ञानाऽऽवरणीयपञ्चकदर्शनाऽऽवरणीय नवक मिथ्यात्वषोडशकषायभयजुगुप्सातैजसकार्मणवर्णगन्धरस स्पर्शागुरुलधूपघातनिर्माणान्तरायपञ्चकलक्षणाः सप्तचत्वारिंशत्संख्या ध्रुवप्रकृतीर्बन्धनन्ति / परावर्त्तमानशुभप्रकृतीनां सातवेदनीय देवगतिमनुजगति पञ्चेन्द्रियजातिवैक्रियाऽऽहारकौदारिकशरीरसमचतुरससंस्थानवजर्षभनाराच संहनाङ्गोपाङ्गन्नयमनुजानुपूर्वी देवानुपूर्वीपराधातोच्छवासाऽऽ तपोदद्योतप्रशस्तविहायोगतिासाऽऽदिदशकतीर्थ करनामनरकाऽऽयुवर्जशषाऽऽयुष्कायोचैर्गोत्रलक्षणानां चतुस्त्रिंशत्संख्यानां त्रिविध त्रिप्रकारम्। तद्यथा-चतुःस्थानगतं त्रिस्थानगतं द्विस्थानगतं चरममनुभाग बध्नन्ति। इह शुभप्रकृतीनां रसः क्षीराऽऽदिरसोपमः / अशुभप्रकृतीनां तु घोषातकीनिम्बाऽऽदिरसोपमः। उक्तं च - 'घोसाडइनिंबुवमो, असुभाण सुभाण स्त्रीरखंडुवमो " इति / क्षीराऽऽदिरसश्च स्वाभाविक एकस्थानिक उच्यते / द्वयोस्तु कर्षयोरावर्तने कृते सति योऽवशिष्यते एकः कर्षः सतिस्थानिकः त्रयाणां कर्षाणामावर्तने कृते सति य उद्वरित एकः कर्षः स त्रिस्थानगतः / चतुर्णा तु कर्षाणामावर्त्तने कृते सति योऽवशिष्टः एकः कर्षः स चतुःस्थानगतः / एकस्थानगतोऽपि रसो जललवबिन्दुचुलुकप्रसृत्यजलिकरक कुम्भद्रोणाऽऽदिषु प्रक्षेपात् मन्दमन्दतराऽऽद्यसंख्यभेदत्वं प्रतिपद्यते / एवं द्विस्थानगताऽऽदिष्वपि रसेष्वसंख्येयभेदत्ववाच्यम्। एतदनुसारेण च कर्मणामपिरसेष्वेकस्थानमतत्वाऽऽदि स्वधिया परिभावनीयम् / एकस्थानगताच रसात् कर्मणां द्विस्थानगताऽऽदयो रसा यथोत्तरमनन्तगुणा वाच्याः / तदुक्तम् - "अणतगुणिया कमेणियरे।" तथा केवलज्ञानाऽऽवरणवर्जानां चतुर्णा ज्ञानाऽऽवरणीयानां, केवलदर्शनाऽऽवरणवर्जानां त्रयाणां चक्षुरादिदर्शनाऽऽवरणीयाना, पुरुषवेदसंज्वलनचतुष्टयान्तरायपञ्चकानां च सर्वसंख्यया सप्तदशप्रकृतीनां बन्धमाश्रित्य चतुर्धाऽपिरसः, सम्भवति / तद्यथा-एकस्थानगतो द्विस्थानगतस्विस्थानगतश्चमुःष्स्थानगतश्च / शेषाणां तु शुभप्रकृतीनामशुभप्रकृतीनां वा द्विस्थानगतः त्रिस्थानगतश्चतुःस्थानगतश्चानतु कदाचनाऽप्येक स्थानगत इति वस्तुस्थितिः / / ताशुभप्रकृतीनां चतुःस्थानगताऽऽदिक्रमेण रसख्य नौविध्यं प्रतिपाद्य सम्प्रत्यशुभप्रकृतीनां रसस्य त्रैविध्यमाह-(विवरीयतिग च असुभाणं) ता एव धुवप्रकृतीबंधन्तो यदि परावर्तमाना अशुभप्रकृतीबंध्नन्ति, तदा तासामनुभागं विपरीतत्रिक विपरीतं त्रिकं यस्य स तथा ते बध्नन्ति। तद्यथा-द्विस्थानगतं त्रिस्थानगतं चतुःस्थानगतं च / इह ध्रुवप्रकृतीनां जघन्यां स्थिति बध्वन् शुभप्रकृतीनां बन्धमागतानां चतुःस्थानगतं रस बध्नाति, अशुभप्रकृतीनां तु द्विस्थानगतम्। अजधन्यां ध्रुव प्रकृतीनां स्थिति बघ्नन् शुभप्रकृतीनामशुभप्रकृतीनां वा यथायोग बन्धमागतानां त्रिस्थानगतं रसं बध्नाति / उत्कृष्टां च स्थिति ध्रुवप्रकृतीनां बध्नन् शुभप्रकृतीनां द्विस्थानगतम शुभप्रकृतीनां चतुःस्थानगतं रसं बध्नाति। ततः शुभप्रकृतिगतरसत्रौविध्यक्रमापेक्षयाऽशुभप्रकृतीनां रसत्रौविध्यक्रमस्य वैपरीत्यमुक्तम् // 6 // अथ के शुभप्रकृतीनां चतुःस्थानगतं त्रिस्थानगत्तं द्विस्थानगतं वा रसं बध्नन्ति? उच्यतेसव्वविसुद्धा बंध-ति मज्झिमा संकिलिट्ठतरगा या धुवपगडि जहन्नटिइं, सव्वविसुद्धा उबंधंति // 11 // तिहाणे अजहण्णं, विट्ठाणे जेट्टगं सुभाण कमा। सट्ठाणे उ जहन्नं, अजहन्नुक्कोसमियरासिं / / 6 / / (सव्वात्ति) ये सर्वविशुद्धा जन्तचस्ते परावर्त्तमानशुभप्रकृतीना चतुःस्थानगत रस बध्नन्ति / ये पुनर्मध्यमपरिणामास्ते त्रि