________________ बंधण 1218 - अमिधानराजेन्द्रः - भाग 5 बंधण तथाहि-प्रथमस्थितेः सकाशात् द्वितीयस्थितौ विशेषहीनम्। ततोऽपि तृतीयस्थितौ विशेषहीनम् / ततोऽपि चतुर्थस्थितौ विशेषहीनम् / एवं विशेषहीनं विशेषहीनं तावद्वाच्यं यावत्तत्तत्समयबध्यमानकर्मणामुत्कृष्टा स्थितिः, चरम समय इत्यर्थः / / 83 // कृताऽनन्तरोपनिधाप्ररुपणा। सम्प्रति परम्परोपनिधाप्ररुपणार्थमाह - पल्लासंखियभाग, गंतुं दुगुणूणमेवमुक्कोसा। नाणंतराणि पल्ल-स्स मूलभागो असंखतमो // 54 // (पल्ल त्ति) अबाधाकालादूर्ध्व प्रथमस्थितौ यन्निषिक्तं कर्मदलिक तदपेक्षया द्वितीयाऽऽदिषु स्थितिषु समयसमयरुपासु विशेषहीनविशेषहीनतरं दलिकमारभ्यमाणं पल्योपमासंख्येयभागमात्रासु स्थितिष्यतिक्रान्तासु दलिकं द्विगुणोनं भवति, अर्धं भवतीत्यर्थः / ततः पुनरप्यत ऊर्ध्वमत दपेक्षया विशेषहीन विशेषहीनतरं दलिकमारभ्यमाणपल्योपमा संख्येयभागमात्राप्रमाणासु स्थितिष्वतिक्रान्तासु अर्धे भवति / एवमर्धाऽर्धहान्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः, स्थितेश्चरमसमय इत्यर्थः / क्रियन्ति पुनरेवं द्विगुणहानिस्थानानि भवन्तीत्येतन्निरुपणार्थमाह - (नाणंतराणील्यादि) नानाप्रकाराणि यान्यन्तराणि अन्तरान्तरा द्विगुणहानिस्थानानि भवन्ति, तान्युत्कृष्टस्थितिबन्धे पल्योपमस्य सम्यन्धिनः प्रथमवर्गमूलस्याऽसंख्येयतमे भागे यावन्तः समयास्तावत् प्रमाणानि भवन्ति / उक्तं च - "पलिओवमस्स मूला, असंखभागम्मि जत्तिया समया। तावइया हाणीओ, ठिइबंधुक्कोसए नेया।।१।।' ननु मिथ्यात्व मोहनीयस्योत्कृष्टस्थितेः सप्ततिसागरोपमकोटीकोटीप्रमाणत्वा देतावत्यो हानयः सम्भवन्तु, आयुषस्तूत्कृष्टस्थितेः, त्रायस्त्रिंशत्सागरोपमसमयमात्रत्वात् कथमेतावत्यो हानयः सम्भवन्तीति? उच्यते-इहाऽसंख्येयतमो भागोऽसंख्येयभेदाऽऽत्मकः, असंख्यातस्याऽसंख्यातभेदभिन्नत्वात्। ततः पल्योपमप्रथमवर्गमूलस्याऽसंख्येयतमो भाग आयुष्यतीवाल्प तरो गृह्यते इत्यविरोधः / तथा सर्वाणि द्विगुणहानिस्थानानि स्तोकानि / एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानानि असंख्ययगुणानि इति // 84 // कृता निषेकप्ररुपणा। सम्प्रत्यबाधाकण्डकप्ररुपणार्थमाहमोत्तूण आउगाई, समए समए अबाहहाणीए। पल्लासंखियभागं, कंडं कुण अप्पबहुमेसिं / / 5 / / (मोत्तूण त्ति) आयूंषि चत्वार्यपि मुक्त्वा शेषाणां सर्वेषामपि कर्मणामबाधाहानौ समये समये पल्योपमाऽसंख्येयभागलक्षणं कण्डकमुत्कृष्टस्थितेः सकाशाद्धीनं करोति / तथाहि-उत्कृष्ट यामबाधायां वर्तमानो जीवः स्थितिमुत्कृष्टां बध्नाति, परिपूर्णामकसमयहीनां वा। एवं यावत्पल्योपमासंऽख्येयभाग हीनां वा / यदि पुनरुत्कृष्टाऽबाधा एकेन समयेन हीना भवेत्ततो नियमात्पल्योपभाऽसंख्येयभागमात्रेण कण्डकेन हीनामेवोत्कृष्टां स्थिति बध्नाति / तामप्येकसमयहीनां वा द्विसमयहीना वा यावत्पल्योपमाऽसंख्येयभागहीना वा। यदि पुनीभ्यां हीनोत्कृष्टाऽबाधा भवेत्ततो नियमात्पल्योपमाऽसंख्येयभागलक्षणकण्डकद्वयहीनामेवो त्कृष्टां स्थिति बध्नाति। तामप्येकसमयहीनां वा यावत्पल्योपमाऽसंख्येयभागहीना वा। एवं यतिभिः समयैरुनाऽबाधा भवति, ततिभिरेव कण्डकैः पल्योपमाऽसंख्येयभागलक्षणैरुना स्थितिद्रष्टव्या यावदेकत्रा जघन्या बाधा भवति, अन्यत्र च जघन्या स्थिति। तदेवमबाधा गतसमयसमयहान्या स्थितेः कण्डकहानिप्ररुयणा कृता / सम्प्रत्यल्पबहुत्वप्ररुपणार्थमाह-(अप्पबहुमेसि)एषां वक्ष्यमाणानामल्पबहुत्वं वक्तव्यम्।।८।। केषामिति चेत्तानेवाऽऽह - बंधाऽबाहाणुक्कसि - (सइ) यरं कंडकअबाहबंधाणं / ठाणाणि एकनाणं-तराणि अत्थेण कंडं च // 86 // (बंध ति) (बंधाबाहाणुक्कसियरं ति) उत्कृष्टः स्थिति बन्धो जघन्यः स्थितिबन्धः उत्कृष्टाऽबाधा जघन्याऽबाधा / (कंडकअबाहबंधाणं ठाणाणि त्ति) कण्डकस्थानानि अबाधा-स्थानानि स्थितिबन्धस्थानानि च। एग (क) नाणंतराणि ति] एक द्विगुणहान्योरन्तरं नानारुपाणि चान्तराणि द्विगुणहानिस्थानरुपाणि। (अत्थेणं कंडं च त्ति) जघन्याऽबाधाहीनया उत्कृष्टाऽबाधया जघन्यस्थितिहीनाया उत्कृष्टस्थितेर्भागे हते सति यावान् भागो लभ्यते, वान् अर्थेन् कण्डकमित्युच्यते, इत्याम्नायिका व्याख्यानयन्ति। चः समुच्चये। पञ्चसङ्ग्रहे पुनरेतस्य स्थानेऽबाधाकण्डकस्थानानीत्युक्तम् / तत्र चैवं मूलटीकाकारण व्याख्याकृता अबाधा च कण्डकानि चाऽबाधाकण्डकं / समाहारो द्वन्द्वः, तस्य स्थानानि अवाधाकण्डकस्थानानि। तयोर्द्वयोरपि स्थानसंख्येत्यर्थः। एतेषादशानां स्थानानामल्प बहुत्वमुच्यते-तत्र संज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु अपर्याप्तकेषु वा बन्धकेषु आयुर्वर्जानां सप्तानां कर्मणां सर्वस्तोका जघन्याऽबाधा। सा चाऽन्तर्मुहूर्तप्रमाणा। ततोऽबाधा स्थानानि कण्डकस्थानानि चाऽसंख्येयगुणानि / तानि तु परस्परं तुल्यानि / तथाहिजघन्यामबाधामादिं कृत्वोत्कृष्टाऽबाधाचरम समयमभिव्याप्य यावन्तः समयाः प्राप्यन्ते, तावन्त्यबाधास्थानानि भवन्ति। तद्यथा-जघन्याऽबाधा एकमबाधास्थानं सैव सामयाधिका द्वितीयम् / द्विसमयाधिका तृतीयम् / एवं तावद्वाच्य यावदुत्कृष्टाबाधाचरमसमयः / एतावन्त्येव चाऽवाधाकण्डकानि, जघन्याबाधात आरभ्य समयं समयं प्रति कण्डकरय प्राप्यमाणत्वात् / एतच प्रागेवोक्तम् / तेभ्य उत्कृष्टाबाधा विशेषाधिका, जधन्याबाधायास्तत्र प्रवेशात् / ततो दलिकनिषेकविधौ द्विगुणहानिस्थानानि असंख्येयगुणानि, पल्योपमप्रथमवर्गमूलाऽसंख्येयभागगतसमयप्रमाणत्वात्। तत एकस्मिन् द्विगुणहान्योरन्तरे निषेकस्थानान्यसंख्येयगुणानि, तेषामसंख्येयानि पल्योपमवर्गमूलानि परिमाणमिति कृत्वा तेभ्योऽपि अर्थेन कण्डकमसंख्येयगुणम्। तस्माजघन्यः स्थितिबन्धोऽसंख्येयगुणः, अन्तःसागरोपमकोटीकोटी प्रमाणत्वात्। संज्ञिपज्वेन्द्रिया हि श्रेणिमनारुढा जघन्यतोऽपि स्थितिबन्धमन्तः सागरोपमकोटीकोटीप्रमाणमेव कुर्वन्ति / ततोऽपि स्थितिबन्धस्थानान्यसंख्येयगुणानि। तत्रज्ञानाऽऽवरणदर्शनाऽऽवरणवेदनीयान्तरायाणामेकोनत्रिशद् गुणानि समधिकानि मिथ्यात्वमोहनीयस्यैकोनसप्ततिगुणा