________________ बंधण 1217- अभिधानराजेन्द्रः - भाग 5 बंधण गेहते सतिलब्धाः सागरोपमस्य त्रयः सप्त भागाः, तेचपल्योपमासंख्येयभागहीनाः क्रियन्ते, एतावत्प्रमाणां जघन्यां स्थिति ज्ञानाऽऽवरणपञ्चकदर्शनाऽऽवरणनवकासातवेदनीया न्तरायपञ्चकानामेकेन्द्रिया बध्नन्ति, न न्यूनाम् / एवं मिथ्यात्वस्य जघन्यां स्थितिमेकं सागरोपम पल्योपमासंख्यय भागहीनं कषायमोहनीयस्य / चतुरः सागरोपमस्य सप्तभागान् पल्योपमासंख्येयभागहीनान् नोकषायाणाम्। तथा वैक्रियषट् काऽऽहारकद्विकतीर्थकरवर्जितानां शेषनामप्रकृतीनां गोत्र प्रकृतिद्वयस्य च द्वौ सागरोपमस्य सप्तभागौ पल्योपमाऽसंख्येय भागहीनावेकेन्द्रिया वध्नन्ति (ऊणसंजुओ जेटु ति) स एव जघन्यः स्थितिबन्ध ऊनेन पल्योपमासंख्येयभागलक्षणेन संयुतः सन्नुत्कृष्टस्थितिबन्ध एकेन्द्रियाणां वेदितव्यः / तद्यथा-ज्ञानाऽऽवरणपञ्चकदर्शनाऽऽवरणनवकासातवेदनीयान्तराय पञ्चकानां त्रयः सागरोपमस्य सप्तभागाः परिपूर्णा उत्कृष्टः स्थितिबन्धः। एवं सर्वत्रापि भावनीयम्। उक्त एकेन्द्रियाणां जघन्योत्कृष्टः स्थितिबन्धः / / सम्प्रति विकलेन्द्रियाणामाह-(पणवीसेत्यादि) एकेन्द्रियाणां सत्क उत्कृष्टः स्थितिबन्धः पञ्चविंशत्वादिना गुणकारेण गुणितः सन् क्रमशः क्रमेण विकलानांविकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियलक्षणा नामसंज्ञिना चासंज्ञिपञ्चेन्द्रियाणां चोत्कृष्टः स्थितिबन्धो वेदितव्यः / तद्यथा-एकेन्द्रियाणामुत्कृष्टः स्थितिन्यधः पञ्चविंशत्या गुणितो द्वीन्द्रियाणामुत्कृष्टः स्थितिबन्धो भवति / स एवैकेन्द्रियाणामुत्कृष्टः स्थितिबन्धः पञ्चाशता गुणितस्वीन्द्रियाणामुत्कृष्टः स्थितिबन्ध / शतेन गुणितश्चतुरिन्द्रियाणाम्। सहस्रेण गुणितोऽसंज्ञिपञ्चेन्द्रियाणामिति। (पल्लसंखेअभागहा इयरो) स एव द्वीन्द्रियाऽऽदीनामात्मीय आत्मीय उत्कृष्टः स्थितिबन्ध पल्योपमासंख्येयभागहीनः सन् इतरो जघन्यः स्थितिबन्धो वेदितव्यः / / सम्प्रति सर्वेषामपि जघन्योत्कृष्टस्थितिबन्धानामल्पबहुत्वमाभिधीयते तत्रासूक्ष्मसम्परायस्य जघन्यस्थितिबन्धः सर्वस्तोकः / ततो बादरपर्याप्तकस्य जघन्य स्थितिबन्धोऽसंख्येयगुणः / ततोऽपि सूक्ष्मपर्याप्तकस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽप्यपर्याप्तबादरस्य जघन्यः स्थितिबन्धो विशेषाधिकः / ततोऽप्यपर्याप्तसूक्ष्मस्थ जघन्यः स्थितिबन्धो विशेषाधिकः / ततोऽपि अपर्याप्तसूक्ष्मस्योत्कृष्टः स्थिति'बन्धो विशेषाधिकः। ततोऽप्यपर्याप्तबारस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि सूक्ष्मपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि बादरपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः। ततो द्वीन्द्रियस्यपर्याप्तस्य जघन्या स्थितिबन्धः संख्येयगुणः / ततस्तस्यैवापर्याप्तस्यजघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि तस्यैव द्वीन्द्रियस्याऽपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि द्वीन्द्रियपर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि त्रीन्द्रियपर्याप्तस्यजधन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैव त्रीन्द्रियस्यापर्याप्तस्य जघन्यः स्थितिबन्धो विशेषाधिकः। ततोऽपि त्रीन्द्रियापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि पर्याप्तत्रीन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततश्चतुरिन्द्रियस्य पर्याप्तकस्य जघन्यः स्थिति बन्धः संख्येयगुणः / ततोऽप्यपर्याप्त चतुरिन्द्रियस्य जघन्यः स्थितिबन्धो विशेषाधिकः / ततोऽप्यपर्याप्तचतु रिन्द्रियस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽसंज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्येवापर्याप्तस्य जघन्यःस्थितिबन्धो विशेषाधिकः / ततोऽपि तस्यैवापर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततोऽपि तस्यैव पर्याप्तस्योत्कृष्टः स्थितिबन्धो विशेषाधिकः / ततः संयतस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः / (विरए इत्यादि) विरतेसंयते, अत्र चजघन्य उत्कृष्टश्च स्थितिबन्ध उक्त एव / ततो देशयतिद्रिके देशविरतद्विके जघन्योत्कृष्टस्थितिबन्धलक्षणे तथा सम्यक्त्वचतुष्केऽविरतसम्यग्दृष्टौ पर्याप्तऽपर्याप्त च प्रत्येक जघन्योत्कृष्टस्थितिबन्धके स्थितिबन्धो यथोत्तर संख्येयगुणो वक्तव्यः। तद्यथा-संयतोत्कृष्टस्थितिबन्धात् देशविरतस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततो देशविरतस्यैबोत्कृष्टः स्थितिबन्धः संख्येयगुणः। ततः पर्याप्तविरतस्य सम्यग्दृष्टर्जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽप्यपर्याप्ताविरतस्य सम्यग्दृष्टैर्जघन्यः स्थितिबन्धः / संख्येयगुणः, ततोऽप्यपर्याप्ताविरतसम्यग-दृष्टरुत्कृष्टः स्थिति बन्धः संख्येयगुणः / ततोऽपि पर्याप्ताविरतसम्यग्दृष्टरुत्कृष्टः स्थितिबन्धः संख्येयगुणः॥८१॥ सन्नीपज्जत्तियरे, अभिंतरओ य (उ) कोडिकोडीओ। ओघुक्कोसो सन्नि-रस होइ पञ्जत्तगस्सेव / / 82 // (सन्नि त्ति) अविरतसम्यगद्दष्टेः पर्याप्तस्य सत्कादुत्कृष्ट स्थितिबन्धात् संज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः। ततोऽपि तस्यैवापर्याप्तस्य जघन्यः स्थितिबन्धः संख्येयगुणः / ततोऽपि तस्यैवापर्याप्तस्य संज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्धः संख्येयगुणः। (अभिंतरओ य (उ) कोडिकोडीउत्ति) संयतस्योत्कृष्टात् स्थितिबन्धादारभ्य यावदपर्याप्तसंज्ञिपञ्चेन्द्रियस्योत्कृष्टः स्थितिबन्ध एव सर्वोऽपि सागरोपमकोटीकोठ्या अभ्यन्तर एवं द्रष्टव्यः / एकेन्द्रियाऽऽदीनां तु सर्वजघन्यसर्वोत्कृष्टस्थितिबन्ध परिमाणं प्रागेव प्रत्येकमुक्तम्। संज्ञिपञ्चेन्द्रियपर्याप्तकस्य पुनरुत्कृष्ट : स्थितिबन्धो य एव प्रागोधेनसामान्येनोक्त उत्कृष्टः स्थितिबन्धः स एव वेदितव्यः।।८तदेवं कृता स्थितिस्थान (बन्ध) प्ररुपणा। सम्प्रति निषेकप्ररुपणावसरः। तत्रा च / अनुयोगद्वारे-अनन्तरोपनिधा, परम्परोपनिधा च। तत्रानन्तरोपनिधा प्ररुपणार्थमाह - मोत्तूण सगमबाहे, पढमाएँ ठिइएँ बहुतरं दव्वं / एत्तो विसेसहीणं, जावुक्कोसं ति सव्वस्सिं // 83|| (मोत्तूण त्ति) सर्वस्मिन्नपि कर्मणि बध्यमाने आत्मीयमबाधाकाले मुक्त्वापरित्यज्य ऊर्ध्वं दलिकनिक्षेपं करोति। तत्रा प्रथमायां स्थिती समयलक्षणायां प्रभूततरं द्रव्यं कर्मदलिकं निषिञ्चति / (एत्तो विसे सहीणं ति) इतः प्रथमस्थितेरुवं द्वितीयाऽऽदिषु स्थितिषु समयसमयप्रमाणासु विशेषहीन विशेषहीनं कर्मदलिकं निषिञ्चति /