________________ बंधण 1216 - अभिधानराजेन्द्रः - भाग 5 बंधण वचनादन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः। तथा उपपाताऽऽयुषो देवानां नारकाणां चाऽऽयुषो जघन्या स्थितिर्दशवर्षसहस्राणि, अन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः / / अधुना तीर्थकराऽऽ हारकयोर्जघन्यां स्थितिमभिधातुकाम आह(उकोसेत्यादि) आहारकशरीराऽऽहारकाङ्गोपाङ्गतीर्थकरनाम्नां योत्कृष्टा स्थितिः प्रागुक्ताऽन्तः सागरोपमकोटीकोटीप्रमाणा सा संख्येयगुणहीना जघन्या स्थितिर्भवति / साऽपि चान्तःसागरो पमकोटीकोटीप्रमाणैव / ननुतीर्थकरनामकर्म तीर्थकर भवादाक् तृतीये भवे बध्यते। तदुक्तम्"बज्झइत्तं तुभर्यवओ, तइयभवो (वे) सक्कइत्ताणं। 'तत्कथं जघन्यतोऽप्यन्तः सागरोपमकोटीकोटीप्रमाणातस्य स्थितिरुपपद्यते? / तदयुकम्, अभिप्रायाऽपरिज्ञानात्।" बज्झइतंतु'' इत्यादिकं निकाचनापेक्षयोत्कम्, इतरथा तु तृतीय-भवादक्तरामपि बन्ध्यते / उक्तं च विशेषणचत्याम्-"कोडाकोडीअयरोवमाणतित्थयरनामकम्मठिई। वज्झइयतं अणंतर-भवम्मि तइयम्मि निद्दिष्टुं // 1 // " ततः कथमेतत् परस्परं युज्यते? अत्रोत्तरम्-"जं बज्झइत्ति भणिय, तत्थ निकाइज्जइ त्ति नियमोऽयं / तदवंझफलं नियमा, भयणा अनिकाइयावत्थे / / 1 / / " आह-यदि तीर्थकरनाम्नो जघन्याऽपि स्थितिरन्तः सागरोपमकोटीकोटीप्रमाणा, तर्हि तावत्याः स्थिते स्तिर्यग्भवभ्रमणमन्तरेण पूरयितुमशक्यत्वात् तिर्यग्ग तावपि तीर्थकरनामसत्कर्मा जन्तुः कियन्तं काल यावद्भवेत्। तथा च सत्यागमविरोधः। आगमे हि तिर्यग्गतौ तीर्थकरनामसत्कर्मा सन् प्रतिषिध्यते / नैष दोषः 'निकाधितस्यैव तीर्थकरनामकर्मणस्तिर्यग्गतौ सतः प्रतिषेधात्। उक्तं च "जमिह निकाइयतित्थं, तिरियभवे तं निसेहियं संतं / इयरम्मि नऽत्थिदोसो, उव्वट्टोवट्टणासऽज्झे॥१॥" अस्या अक्षरगमनिका-इह-अस्मिन् प्रवचने यत्तीर्थकरनामकर्म निकाचितमवश्यवेद्यतया स्थापितं तदेव स्वरुपेण सद्विमानं, तिर्यग्गती निषिद्धम् / इतरस्मिन-पुनरनिकाचिते उद्वर्तनापर्वतनासाध्ये, तिर्यग्भवे विद्यमानेऽपि न कश्चिद्दोष इति / अत्रापि चान्तर्मुहूर्तमबाधा / ततः पर दलिकरचनायाः संभवादवश्यं प्रदेशोदयसंभवः / / 7 / / उक्तशेषाणां प्रकृतीनां जघन्यस्थितिप्ररुपणार्थमाहवग्गुकोसटिईणं, मिच्छत्तुक्कोसगेण जं लद्धं / सेसाणं तु जहन्नो, पल्लासंखेज्जगेणूणो॥७६ / / (वणुक्कोस त्ति) इह ज्ञानाऽऽवरणप्रकृतिसमुदायो ज्ञानाऽऽ वरणीयवर्ग इत्युच्यते / एवं दर्शनाऽऽवरणप्रकृतिसमुदायो दर्शनाऽऽवरणीयवर्गः / वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः / दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्गः / चारित्र मोहनीयप्रकृतिसमुदायश्चारित्रामोहनीयवर्गः / नोकषायमोहनीय प्रकृतिसमुदायो नोकषायमोहनीयवर्गः। नामप्रकृतिसमुदायो नामवर्गः / गोत्रप्रकृतिसमुदायो गोत्रवर्गः / अन्तरायप्रकृति समुदायोऽन्तरायवर्गः / एतेषां वर्गाणानां याऽऽत्मीयात्मीयोत्कृष्टा स्थितिस्त्रिशत्सागरोपमकोटीकोठ्यादिलक्षणा, तस्या मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटी कोटी लक्षणया भागे हते सति यल्लभ्यते तत्पल्योपमाऽ संख्येयभागन्यून सदुक्तशेषाणां प्रकृतीनां जघन्यस्थितेः परिणाममवसेयम्। तथाहि-दर्शनाऽऽवरणीयवेदनीययोरुत्कृष्टा स्थितिस्त्रिंशत्-सागरोपमकोटीकोटीप्रमाणा, तस्या मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हते सति 'शून्यं शून्येन पातयेत' इति वचनाल्लब्धास्वयः सागरोपमसप्तभागाः, ते पल्योपमासंख्येयभागहीना निद्रापञ्च कासातवेदनीययोजघन्या स्थितिः। एवं मिथ्यात्वस्य सप्तसप्तभागाः पल्योपमासंख्येयभागहीनाः, संज्वलनवर्जानां द्वादशकषायाणां चत्वारः सप्तभागाः पल्योपमासंख्येय भागहीनाः। तथा नोकषायमोहनीयस्य नामकर्मणो गोत्रास्य च स्वस्वोत्कृष्टायाः स्थितेविंशतिसागरोपम कोटीकोटीप्रमाणाया मिथ्यात्वस्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हते सति यौलब्धौ द्वौ सागरोपमस्य सप्तभागी, तौ पल्योपमासंख्येयभागहीनौ पुरुषवेदवर्जानामष्टानां नोकषायाणां देवद्विकमरकद्विकवैक्रियद्विकाऽऽहारकद्विकाऽयशः कीर्ति तीर्थकरवर्जशेषनामप्रकृतीनां नीचैर्गोत्रस्य च जघन्या स्थितिः / वैक्रियषट्कस्य देवगतिदेवानुपूर्वी नरकगतिनरकाऽनुपूर्वीवैक्रिय शरीरवैक्रियाऽङ्गोपागलक्षणस्य द्वौ सप्तभागौ सहसगुणितौ पल्योपमासंख्येयभागहीनी जघन्या स्थितिः / यतस्तस्य वैक्रिय षट्कस्य जघन्यस्थितिबन्धका असंज्ञिपञ्चेन्द्रियास्ते च जघन्यां स्थितिमेतावर्तीमव बन्धन्ति, न न्यूनाम्। तदुक्तम्वेउव्विय (विउव्य) छक्के तं, सह-स्स ताड़ियंजअसण्णिओ तेसिं। पलिआसंखंऽसूणं, ठिइ अबाहूणियनिसेगो॥१॥" अस्या अक्षरगमनिका "वग्गुकोसठिईण, मिच्छन्तुकोसियाए' इत्यनेन करणेन यल्लब्धं तत् सहस्राताडितंगुणितम् / ततः पल्योपमस्यासंख्येयनांशेनभागेन न्यूनं सत् वैक्रियषट्के-उक्तस्वरुपे जघन्यस्थितः परिणाममवसेयम् / कुत इत्याह-यद यस्मात्कारणात्तेषां वैक्रियषट्कलक्षणानां कर्मणा असंज्ञि-पञ्चेन्द्रिया एव जघन्यस्थितेर्वन्धकाः। तेच जघन्यां स्थितिमेतावतीमेव बध्नन्ति, नन्यूनाम्, अन्तर्मुहूर्त्तमबाधा, अबाधाकालहीना च कर्मस्थितिः कर्मदलिकनिषेक इति / / 7 / / सम्प्रत्येकेन्द्रियाणां जघन्योत्कृष्टस्थितिबन्धप्रतिपादनार्थमाहएसेगिंदियडहरो, सव्वासिं ऊणसंजुओ जेट्ठो। पणवीसा पन्नासा, सयं सहस्सं च गुणकारो॥८०।। कमसो विगलअसन्नी-ण पल्लसंखेज्जभागहा इयरो। विरए देसजइदुगे, सम्मचउक्के य संखगुणो // 1 // (एसे त्ति) सर्वासां प्रकृतीनां वैक्रियषट्काऽऽहारकतीर्थ करवर्जितानामेषोऽनन्तरोक्तः “वगुकोसठिईणं, मिच्छन्तुक्कोसगेण जलद्धं / सेसाणं तु जहण्णो, पल्लासंखेजगेणुणो। 76 ||" इत्येवलक्षणः स्थितिबन्धो डहरोजघन्य एकेन्द्रियाणां द्रष्टव्यः। तथाहि ज्ञानाऽऽवरण दर्शनाऽऽवरणवेदनीयान्तराया गामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोटी प्रमाणा, तस्या मिथ्यात्वस्थित्योत्कृष्टया सप्ततिसागरोपमकोटीकोटी प्रमाणया भा