________________ बंधण 1215 - अभिधानराजेन्द्रः - भाग 5 बंधण तित्थगराऽऽहारदुग, अंतो वीसासनिचनामाणं। तेत्तीसुदही सुरना-रयाउ सेसाउ पल्लतिगं / 73 / / (तित्थगर त्ति) तीर्थकरे, आहारकद्विके आहारकशरीराऽऽहारकाऽङ्गोपाङ्गरुपे अन्तःकोटीकोटी उत्कृष्टा स्थितिः / अन्तर्मुहूर्तमबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः / (वीसासनिचनामाणं) शेषाणां नामप्रकृतीनां नरकगतिनरकाऽऽनुपूर्वीतियग्द्विकैकेन्द्रियजातिपञ्चेन्द्रिय जातितैजसकार्मणौदारिकवैक्रियशरीरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्ग वर्णगन्धरसस्पर्शागुरुलघूपधातपराघातोच्छ्वासाऽऽतपोद्योताप्रशस्तविहायोगतिसस्थावरबादर पर्याप्त प्रत्येकास्थिराशुभदुर्भगदुः स्वरानादेयायशःकीर्तिनिर्माण लक्षणानां नीचैर्गोत्रस्य च विंशतिः सागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, विंशतिवर्षशतानि चाबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः। (तेत्तीसुदही सुरनारयाओ) सुराऽयुषो नारकाऽऽयुषश्चोत्कृष्टा स्थितिस्त्रय स्त्रिंशदुदधयः-सागरोपमाणि पूर्वकोटी त्रिभागाभ्यधिकानीति शेषः। पूर्वकोटीत्रिभागश्चाबाधाकालः। अबाधाकालहीनश्च कर्मदलिकनिषेकः। (सेसाउपल्लतिगं) शेषाऽऽयुषोर्मनुष्य तिर्यगायुषोः पल्यत्रिकंत्रीणिपल्योपमानि पूर्वकोटीत्रिभागा भ्यधिकानीति शेषः / पूर्वकोटीत्रिभागश्चाबाधाकालः। अबाधाकालहीनश्च कर्मदलिकनिषेकः / एतच पूर्वकोट्यायुष श्चतुर्गतिगमनयोग्यान् उत्कृष्टस्थितिबन्धकान् तिर्यड्मनुष्यान् प्रतिद्रष्टव्यम्। तानेवाऽऽश्रित्य यथोक्तरुपाया उत्कृष्टस्थितेः पूर्वकोटित्रिभागरुपायाश्चाबाधायः प्राप्यमाणत्वात् / / 73 / / साम्प्रतमसंज्ञिपञ्चेन्द्रियाऽऽदीन् बन्धकानाश्रित्याऽऽयुषा मुत्कृष्टां स्थितिं प्रतिपादयन्नाहआउचउक्कुक्कोसो, पल्लाऽसंखेज्जभागममणेसु। सेसाण पुव्वकोडी, साउतिभागो अवाहा सिं // 7 // (आउत्ति) श्रमनस्केष्वसंज्ञिपञ्चेन्द्रियेषु पर्याप्तेषु आयुरुत्कृष्टस्थितिबन्धकेषु चतुर्णामप्यायुषां परभवसंबन्धिनामुत्कृष्टा स्थितिः,पल्योपमासंख्येय भागमात्राः, पूर्वकोटित्रिभागाभ्यधिकेति शेषः / पूर्वकोटित्रिभाग श्चाबाधाकालः / अबाधाकालहीनचश्च कर्मदलिकनिषेकः / शेषाणां चैकेन्द्रिय द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाणां पर्याप्तानाम संक्षिपञ्चेन्द्रिय संज्ञिपञ्चेन्द्रियाणां चापर्याप्तानामायुष्युत्कृष्ट स्थितिबन्धकानां परभवाऽऽयुष उत्कृष्टस्थितिबन्धः पूर्वकोटी स्वस्वभवात्रिभागाभ्यधिको वेदितव्यः। (सिं ति) एषां स्वस्वभवत्रिभागोऽबाधाकालः / अबाधाकालहीनश्च कर्मदलिक निषेकः॥७४|| इदानीमायुर्वर्जानां सर्वकर्मणामबाधाकालपरिमाण प्रतिपादनार्थमाह - वाससहस्समवाहा, कोडाकोडी दसगस्स सेसाणं। अणुवाओ अणुवट्टण---गाउसु छम्मासिगुक्कोसो।।७५ / / (वास ति) कोटीकोटीदशकस्य दशानां सागरोपम कोटीकोटीनां वर्षसहसंदशवर्षशतानि अबाधा भवति। शेषाणांद्वादशचतुर्दशपञ्चदशषोडशाष्टादशविंशतित्रिशचत्वारिं शत्सप्ततीनामनुपातोऽनुसारः कर्त्तव्यः, पैराशिकमनु सर्तव्यमित्यर्थः / तथाहि यदा दशानां सागरोपमकोटी कोटीनां वर्षसहस्त्रमबाधा प्राप्यते, तदा द्वादशानां सागरोपमकोटी कोटीना वर्षसहस्त्रं शतद्वयं चाऽबाधा भवति. चतुर्दशानां वर्षसहस्र शतचतुष्टय च / एवं सर्वत्राध्यनु सर्तव्यम् / (अणुवट्टणगाउसु छम्मासिगुकोसो) अनपवर्तनीयाऽऽयुष्केषु देवनारकासंख्येयवर्षाऽऽयुष्कतिर्यड्मनुष्येषुपरभवाऽऽयुष्कोत्कृष्ट स्थितिबन्धकेषुपरभवाऽऽयुष उत्कृष्टाsबाधा पाण्मासिकीषण्मासप्रमाणा द्रष्टव्या / षण्मासावाशेषे एवं तेषां परभवऽऽयुर्बन्धकत्वात् / केचित्पुनर्युगलधर्मिणां पल्योपमासंख्येयभागप्रमाणामबाधामिच्छन्ति / तदुक्तम्-'पलियासंखिज्जंऽसं, जुगधम्माणं वयंतण्णे'' इति // 75 // तदेवमुक्तोत्कृष्टा स्थितिः / सम्प्रति जघन्यामभिधातुकाम आह - भिन्नमुहुत्तं आवरण-विग्घं दंसण चउक्कलोभंते। बारस सायमुहुत्ता, अट्ठ य जसकित्तिउच्चेसु / / 76 / / (भिन्न त्ति) पञ्चानां ज्ञानाऽऽवरणीयानांपञ्चानामन्तरायाणां चतुर्णा - दर्शनाऽऽवरणानां चक्षुरचक्षुरवधि केवलदर्शनाऽऽवरणरुपाणां सर्वान्तिमस्य च लोभस्य संज्वलन संज्ञस्य भिन्नमुहूर्तमन्तर्मुहूर्त जघन्या स्थितिः, अन्तर्मुहूर्तमयाधाकालः, अबाधाकलहीनश्च कर्मदलिकनिषेकः। सातवेदनीयस्यजघन्या स्थितिज्दश मुहूर्तोः, अन्तर्मुहूर्त चायाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः / इहकाषायिक्या एव स्थितेजघन्यत्व प्रतिपादनमभिप्रेतम् / अतो द्वादश मुहूर्त्ता इत्युक्तम् / अन्यथा सातवेदनीयस्य जघन्या स्थितिः समयद्वयमात्राऽपि सयोगिकेवल्यादौ प्राप्यते। तथा यशाकीयुचैर्गोत्रयोरष्टौ मुहूर्ता जघन्या स्थितिः, अन्तर्मुहूर्तमबाधा, अबाधाकालहीनश्च कर्मदलिकनिषेकः।।७६।। दो मासा अलुद्धं, संजलणे पुरिस अट्ठ वासाणि। भिन्नमुहुत्तमबाहा, सव्वासिं सव्वहिं हस्से // 77 / / (दो मास त्ति) संज्वलनानां द्वौ मासौ / अर्धाधं च जघन्या स्थितिः। एतदुक्तं भवति-संज्वलक्रोधस्य द्वौ मासौ जघन्या स्थितिः। संज्वलनमानस्य मासः। संज्वलनमायाया अर्धमासः। तथा पुरुष-पुरुषवेदस्याष्टौ वर्षाणि जघन्या स्थितिः / सर्वत्राऽप्यन्तमुहूर्तमबाधा। अबाधाकालहीनश्च कर्मदलिकनिषेकः / अबाधाकालमप्रमाणप्रतिपादनार्थमाह-(भिन्नेत्यादि) सर्वासामपिप्रकृतीनामुक्तानां वक्ष्यमाणानां च सर्वस्मिन्नपि ह्रस्वेजघन्ये स्थितिबन्धे भिन्नमुहूर्तमबाधा द्रष्टव्या। तथैव च प्राक् प्रतिपादिता वक्ष्यते चेति // 77|| संप्रत्यायुषो जघन्यस्थितिप्रतिपादनार्थमाह - खुड्डागभवो आउसु, उववायाउसु समा दस सहस्सा। उक्कोसा संखेजा, गुणहीणाऽऽहारतित्थयरे।७८|| (खुड्डागभवो त्ति) तिर्यगायुषो मनुष्याऽऽयुषश्च जघन्यास्थितिः क्षुल्ल-कभवः / तस्य किं मानमिति चेदुष्यते-आवलिकानां द्वे शते षट् पञ्चाशदधिके / अपि चैक स्मिन्मुहूतें घटिकाद्वयप्रमाणे सप्तत्रिशच्छतानि त्रिसप्तत्यधिकानि प्राणापानानां हष्टा नवकल्पजन्तुसत्कानां भवन्ति / एकस्मिंश्च प्राणापाने साधिकाः सप्तदश क्षुल्लकभवाः / सकलेच मुहूर्ते पञ्चषष्टिसहस्राणि पञ्चशतानि षट्त्रिंशदधिकानि क्षुल्लकभवानां भवन्ति / अत्रापि 'सुव्वहिं हस्से'' इति