________________ बंधण 1214 - अभिधानराजेन्द्रः - भाग 5 बंधण स्याऽसङ्ख्येयगुणानि / एवं पर्याप्तद्वीन्द्रियपर्याप्ताऽपर्याप्त त्रीन्द्रियचतुरिन्द्रियाऽसज्ञिसंज्ञिपञ्चेन्द्रियाणां यथोत्तरम सङ्ख्येयगुणानि वक्तव्यानि / कथमेवं गम्यते सर्वत्राप्यसंख्येयगुणानि संक्लेशस्थानानीति चेद् उच्यते-इह सूक्ष्मस्यापर्याप्तस्य जघन्यस्थितिबन्धाऽऽरम्भे यानि संक्लेशस्थानानितेभ्यः समयाधिकजघन्यस्थिति बन्धाऽऽरम्भे संक्लेशस्थानानि विशेषाधिकानि। तेभ्योऽपि द्विसमयाधिकजघन्यस्थितिबन्धाऽऽरम्भेऽपि विशेषाधिकानि / एवं तावद्वाच्यं यावत्तस्यैवोत्कृष्टा स्थितिस्तदुत्कृष्टस्थितिबन्धाऽऽरम्भे च संक्लेशस्थानानि जघन्यस्थितिसत्कसंक्लेशस्थाना पेक्षयाऽसंख्येयगुणानि लभ्यन्ते। यदैतदेव तदा सुतरामपर्याप्त बादरस्य संक्लेशस्थानानि अपर्याप्यसूक्ष्मसत्कसंक्लेशस्थाना पेक्षया असंख्येयगुणानि भवन्तिा तथाहि-अपर्याप्तसूक्ष्मसत्क स्थिति स्थानापेक्षया बादरापर्याप्तस्य स्थितिस्थानान्यसंख्येयगुणानि। स्थितिस्थानवृद्धौ च संक्लेशस्थानवृद्धिः / ततो यदा सूक्ष्मापर्याप्तस्यापि स्थितिस्थानेष्वतिस्तोकेषु जघन्यस्थितिरथान सत्कसंक्लेशस्थानापेक्षया उत्कृष्ट स्थितिस्थाने संक्लेशस्थानान्यसंख्येयगुणानि भवन्ति, तदा बादरापर्याप्तस्थितिस्थानेषु सूक्ष्मापर्याप्तस्थितिस्थानापेक्षया ऽसंख्येयगुणेषु सुतरां भवन्ति / एवमुत्तरत्रापि असंख्येयगुणत्वं भावनीयमिति // 68||66 // एमेव विसोहीओ, विग्घाऽऽवरणेसु कोडिकोडीओ। उदही तीसमसाते, अद्धं थीमणुयदुगसाए।।७०।। एमेव त्ति-(एमेव विसोहीओ ति) तथा संक्लेशस्थानान्य संख्येयगुणतया प्रागुक्तानि एवमेवअसंख्येयगुणतयैवेत्यर्थः / विशोधयोऽपिविशोधिस्थानान्यपि वक्तव्यानि / यतो यान्येव संक्लिश्यमानस्य संक्लेशस्यानानि तान्येव विशुध्यमानस्य सतो विशुद्धिस्थानानि भवन्ति / एतच प्रागेव सप्रपञ्चं भावित, नेह भूयो भाव्यते। ततो विशोधिस्थानान्यपि संक्लेशस्थानवत् क्रमेण सर्वत्राप्यसंख्येयगुणानि वक्तव्यानि। साम्प्रतनुत्कृष्टत्तरस्थितिप्रतिपादनार्थमाह--(विग्धत्ति) अनन्तरायमावरणं ज्ञानाऽऽवरणं दर्शनाऽऽवरणं च / तत्रा पञ्चानामनन्तरायप्रकृतीनां पञ्चानां ज्ञानाऽऽवरणप्रकतीनां नवानां च दर्शनाऽऽवरणप्रकृतीनामसातवेदनीयस्य चोत्कृष्टा स्थितिस्त्रिंशत्सागरोपमाणां कोटीकोट्यः / इहद्विधा स्थितिः-कर्मरुपतावस्थानलक्षणां, अनुभवयोग्या च / ता कर्मरुपतावस्थानलक्षणामेव स्थितिमधिकृत्य जघन्योत्कृष्ट प्रमाणाभिधानमिदमवगन्तव्यम्। अनुभवप्रायोग्या पुनरबाधाकालहीना। येषां च कर्मणां यावत्यः सागरोपम कोटीकोट्यस्तषां तावन्ति वर्षशतानि अबाधाकालः / तथाहि मतिज्ञानाऽऽवरणस्य त्रिशत्सागरोपमकोटीकोट्य उत्कृष्टा स्थितिरतस्तस्याऽवाधाकालोऽप्युतकृष्टस्त्रिंशद्वर्षशतान्यवगन्तव्यः। यतस्तन्मतिज्ञानाऽऽवरणमुत्कृष्टस्थितिकं बद्ध सत्रिंशद्वर्षशतानि यावन्न काश्चिदपि स्वोदयतो जीवस्य बाधामुत्पादयति / अबाधाकालहीनश्च कर्मदलिकनिषेकः एवं श्रुतज्ञानाऽऽवरणाऽऽदीनामप्युक्तप्रकृतीनामबाधाकालोऽबाधा कालहीनश्च कर्मदलिकनिषेको भावनीयः। तथा स्त्रीवेदेमनुष्याद्रिके मनुष्यगतिमनुष्यानुपूर्वीरुपेसात वेदनीये च पूर्वोक्तस्य स्थितिप्रमाणस्यार्धमुत्कृष्टस्थितितया द्रष्टव्यं पञ्च दशसागरोपमकोटीकोट्यः स्त्रीवेदाऽऽदीनामुत्कृष्टा स्थितिरव गन्तव्येत्यर्थः / पञ्चदशवर्षशतान्यबाधाकालोऽबाधाकाल हीनश्च कर्मदलिकनिषेकः / / 7 / / तिविहे मोहे सत्तरि, चत्तालीसा य वीसई य कमा। दस पुरिसे हासरई, देवदुगे खगइचेट्ठाए॥७१ // (तिविहे त्ति) त्रिविधे त्रिप्रकारे मोहे-मोहनीये मिथ्यात्व लक्षणे दर्शनमोहनीये, षोडशकषायलक्षणे कषायमोहनीये, नपुंसकवेदारतिशोकभयजुगुप्सारुपे च नोकषायमोहनीये, यथासंख्यमुत्कृष्टा स्थितिः सागरोपमकोटी कोट्यः सप्ततिः चत्वारिंशत् विंशतिश्चा यथासङ्ख्यमेव च सप्तचत्वारि द्वे च वर्षसहस्त्रे अबाधाकालः अबाधाकालहीनश्य कर्मदलिकनिषेकः / इह पुरुषवेदहाम्यरतीनां विशेषतो वक्ष्यमाणत्वात् स्त्रीवेदस्य चोक्तत्वान्नोकषायमोहनीयग्रहणेन नपुंसकवेदारतिशोकभयजुगुप्सानामेव ग्रहणमवगन्तव्यम् / (दस पुरिसेत्यादि) पुरुष-पुरुषवेदे हास्ये रतौ देवद्विकेदेवगति देवानुपूर्वीरुपेस्रगतौ चेष्टायां प्रशस्त विहायोगतौ दशसागरोपमकोटीकोट्य उत्कृष्टाः स्थितिः दशवर्षशतानि चाऽबाधाकालः / अबाधाकालहीनश्च कर्म दलिकनिषेकः // 71|| थिरसुभपंचगउच्चे, चेवं संठाणसंघयणमूले। तव्वीयाई विवुड्डी, अट्ठारस सुहुमंविगलतिगे // 72 / / (थिर त्ति) स्थिरे, शुभपञ्चके शुभसुभगसुस्वराऽऽदेययशः कीर्तिरुपे, उचैर्गोत्रे च / तथा (संठाणसंघयणमूलेत्ति) मूले-प्रथमे संस्थाने समचतुरसलक्षणे, प्रथमे च संहनने वज्रर्षभनाराचसंज्ञे। एवं पूर्वोक्तप्रकारेणोत्कृष्टा स्थितिर वगन्तव्या, दशसागरोपमकोटोकोट्य उत्कृष्टा स्थितिर वगन्तव्येत्यर्थः / दशवर्षशतानि चाबाधा। अबाधाकालहीनश्च कर्मदलिकनिषेकः (तव्वीयाइ विवुड्डी) तेषां संस्थानानां संहनानां च मध्ये द्वितीयाऽऽदिषु द्वितीयतृतीयाऽऽदिषु संस्थानेषु संहननेषु च द्विवृद्धिः-द्विकवृद्धिः क्रमेणावसेया। तद्यथा-द्वितीययोः-संस्थानसंहननयोदशसागरोपमकोटी कोट्य उत्कृष्टा स्थितिर्द्वादशवर्षशतानिचाबाधाकालः / अबाधाकालहीनश्च कर्मदलिकनिषेकः / तृतीययोः संस्थानसंहननयोश्चतुर्दशसारोपमकोटीकोट्य उत्कृष्टा स्थितिः, चतुर्दशवर्षशताति चाबाधाकालः, अबाधा कालहीनश्च कर्मदलिकनिषेकः / चतुथयोः संस्थानसंहननयोः षोडशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, षोडशवर्षशतान्यबाधाकाल अबाधाकालहीनश्च कर्मदलिकनिषेकः / पञ्चभयोः संस्थानसंहननयोरष्टादशसागरो पमकोटीकोट्य उत्कृष्टा स्थितिः, अष्टादशवर्षशतानि चाबाधाकालः, आबाधाकालहीनश्च कर्मदलिकनिषेकः / षष्ठयोः संस्थानसंहनयोर्विशतिसागरो पमकोटीकोट्य उत्कृष्टा स्थितिः, द्वे वर्षसहस्वे अबाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः। (अट्ठारससुहुमविगलतिगे) सूक्ष्मत्रिके-सूक्ष्मापर्यातसाधारणरुपे, विकलत्रिकेद्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियजातिलक्षणे, अष्टादशसागरोपमकोटीकोट्य उत्कृष्टा स्थितिः, अष्टादशवर्षशतान्यवाधाकालः, अबाधाकालहीनश्च कर्मदलिकनिषेकः // 72 //