________________ बंधण 1213 - अभिधानराजेन्द्रः - भाग 5 बंधण ऽवतरणेन जघन्योऽनुभागोऽनुभागोऽनन्तगुणतया तावद्वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति। ततः उत्कृष्टायां स्थिती उत्कृष्टोऽनुभागोऽनन्तगुणः / ततः कण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः समयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः / ततः कण्डकादधस्तन्यां द्वितीयास्यां स्थितौ जघन्योऽनुभागोऽनन्त गुणः ततो द्विसमयोनायामुत्कृष्टस्थितो उत्कृष्टोऽनुभागोऽनन्त गुणः / एवं तावदाच्यं यावदष्टादशसागरोपमकोटीकोटीनामु परितनी स्थितिः अष्टादशकोटीकोटीनां चोपरि कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताःसन्ति / शेषं सर्वमुक्तम् / ततोऽष्टादशकोटीकोटीनां सत्कायामुत्कृष्टस्थितौ जघन्योऽनु भागोऽनन्तगुणः / ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुभाग स्तावन्मात्र एव। द्वि समयोनायामप्युत्कृष्ट स्थितौ जघन्योऽनुभाग स्तावन्मात्रा एव / एवमधोऽधोऽवतरणेन तावद्वाच्यं यावदभव्य प्रायोग्यो जघन्यस्थितिबन्धः। ततोऽधस्तन्यां प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः / ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवं तावद्वाच्यं यावत्कण्ड कस्यास ख्येया भागागता भवन्ति, एकोऽवतिष्ठते। ततोऽष्टादश सागरोपमकोटीकोटीनामुपरिष्टात् कण्डमात्राणां स्थितीनां चरमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः / ततो द्विचरमस्थिता वुत्कृष्टोऽनुभागोऽनन्तगुणः / ततस्त्रिचरमस्थितावुत्कृष्टोऽनु भागोऽनन्तगुणः / एवमधोऽधोऽवतरणेन तावद्वच्यं यावत्कण्डकमतिक्रान्तं भवति, अष्टादशकोटीकोटीनामुपरि अनन्तरा स्थितिरतिक्रान्ता भवतीत्यर्थः / ततोयतः स्थितिस्थाना जघन्यमनुभागमभिधायनिवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः / ततः पुनरप्यष्टादश सागरोपम कोटीकोटीन सत्कायाप्रच्चरम स्थितेरारभ्याऽधोऽधः कण्डकमा त्राणां स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः ततोयतः स्थितिस्थानाजघन्यानुभागमभिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः / ततः पुनरपि प्रागुक्तात्कण्डकादधः कण्डकमात्राणां स्थितीनामधोऽधः क्रमेणोत्कृष्टा अनुभागा अनन्तगुणा वक्तव्याः / एवमेकस्याः स्थितेर्जघन्य मनुभाग कण्डकमात्राणां रिधतीनामुत्कृष्टाननु भागान् वदतातावदन्तव्य यावदभव्यप्रायोग्यजघन्यानुभाग बन्धविषये जघन्या स्थितिः ततो यतः स्थिति स्थानाजघन्यानु भागमु क्त्वा निवृत्तस्त तोऽधस्तने स्थिति स्थाने जघन्योऽनुभागोऽनन्तगुणः / ततोऽभव्यप्रायोग्यजघन्यानुभाग बन्धविषयादधः प्रथमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः प्रागुक्ताजघन्यानुभागादधः स्थितौ जघन्योऽनुभागोऽनन्तगुणः / ततोऽप्यभव्य प्रायोग्यजघन्यानुभागबन्धविषयादधो द्वितीयस्थिता वुत्कृष्टोऽनुभागोऽनन्तगुणः / एवमेकस्याः स्थितेर्जघन्यमनुभागभेकस्याश्च स्थितेरुत्कृष्ट वदताऽधोऽधस्तावदवतरीतव्यं यावज्जघन्या स्थितिः। कण्डकमात्राणां च स्थितीनामुत्कृष्टा अनुगाः अद्याप्यनुक्ताः सन्ति, शेषाः सर्वेऽप्युक्त; / ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणास्तावद्वक्तव्या यावजघन्या स्थितिः / एवं बादरपर्याप्तप्रत्येकनाम्नामपि तीव्रमन्दताऽभिधातव्याः। (विशेषतस्त्वनुकृष्टिस्तीव्रमन्दताच पटस्थापनातोऽवसेया) साद्यनादिप्ररुपणा। स्वामित्वं घातिसंज्ञा स्थानसंज्ञा शुभाऽशुभप्ररुपणा (प्रत्ययप्रतपणा विपाकप्ररुपणा) च यथा 'शतके तथाऽवगन्तव्या इति॥६७।। तदेवमुक्तोऽमुभागबन्धः / सम्प्रति स्थितिबन्धाभिधानावसरः / तत्रा च चत्वार्यनुयोगद्वाराणि। तद्यथा-स्थितिस्थानप्ररुपणा 1, निषेकप्ररुपणा 2, अबाधाकण्डकप्ररुपणा 3, अल्पबहुत्वप्ररुपणा 4, च। तत्र स्थितिस्थानप्ररुपणार्थमाहठिइबंधट्ठाणाई, सुहुमअपज्जत्तगस्स थोवाइं। बायरसुहुमेयर बिति-चउरिंदियअमणसन्नीणं // 68|| संखेजगुणाणि कमा, असमत्तियरे य बिंदियाइम्मि। नवरमसंखेज्जगुणा-ई संकिलेसाई (य) सव्वत्थ / / 66 / / (टिइत्ति) इह जघन्यस्थितेरारभ्योत्कृष्टां स्थितिं यावत् यावन्तः समयास्तावत्प्रमाणानि स्थितिस्थानानि / तथाहि- जघन्यायाः स्थितेरेकं स्थितिस्थानम् / सैव समयाधिका द्वितीय स्थितिस्थानम्। द्विसमयाधिका तृतीयं स्थिति स्थानम् / एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। तानि च स्थितिस्थानानि सूक्ष्मस्यापर्याप्तस्य सर्वस्तोकानि। तेभ्योऽपर्याप्तबादरस्य संख्येयगुणानि / तेभ्योऽपि सूक्ष्मपर्याप्तकस्य संख्येयगुणानि / तेभ्योऽपि पर्याप्तबादरस्य संख्येयगुणानि / एतानि च पल्योपमासंख्येयभागगतसमयप्रमाणानि द्रष्टव्यानि। ततोऽपर्याप्तद्वीन्द्रियस्याऽसंख्येयगुणानि। कथमेवं गम्यते? इति चेदुच्यते-द्वीन्द्रियाणामपप्तिानां स्थिति स्थानानि पल्योपमासंख्येयभागगतसमयप्रमाणानि, पाश्चात्यानिच पल्योपमासंख्येयभागगतसमयप्रमाणानि। ततः पाश्चात्येभ्योऽमून्यसंख्येयगुणान्येवोपपद्यन्ते। तेभ्योऽपि द्वीन्द्रियस्य पर्याप्तस्य स्थितिस्थानि / संख्येयगुणानि / तेभ्योऽपि त्रीन्द्रियस्यापर्याप्तकस्य संख्येयगुणानि। तेभ्योऽपि तस्यैव पर्याप्तस्य संख्येयगुणानि। तेभ्योऽपि चतुरिन्द्रियस्यापर्याप्तस्य सङ्खयेयगुणानि / तेभ्योऽपि चतुरिन्द्रियस्यपर्याप्तस्य सङ्घ येयगुणानि / तेभ्योऽप्यसंज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य सङ्खयेयगुणानि / तेभ्योऽप्यसज्ज्ञिपञ्चेन्द्रियस्य पर्याप्तस्य सङ्ख्येयगुणानि। तेभ्योऽपि संज्ञिपञ्चेन्द्रियस्यापर्याप्तस्य सङ्खयेयगुणानि। तेभ्योऽपि संज्ञिपञ्चेन्द्रिस्य पर्याप्तस्य सङ्ख्येयगुणानि। (असमत्तियरे य त्ति) असमाप्तानामपर्याप्तानामि तरेषां च पर्याप्तानां बादराऽऽदीनां स्थितिस्थानानि क्रमेण सङ्खयेयगुणानि वक्तव्यानीति / नवरमेकेन्द्रियाणां स्थितिस्थानान्यभिधायाऽनन्तरं द्वीन्द्रियस्य प्रथमे भेदेऽपर्याप्तरुपे स्थितिबन्धस्थानान्यसङ्खयेयगुणानि वक्तव्यानि / तथैव च युक्तिपूर्व प्रागुक्तानि (संकिलेसाइँ (य) सव्वत्थ) संक्लेशाश्च सर्वत्र-सर्वेषु स्थानेष्वसंख्येयगुणा वक्तव्याः, आस्तां द्वीन्द्रियस्य, प्रथमभेदेऽपयप्तिलक्षणे स्थितिस्थानान्यसङ्खये यगुणानीति च शब्दार्थः / तद्यथासुक्ष्मस्यापर्याप्तस्य संक्लेशस्थानानि सर्वस्तोकानि / तेभ्योऽपर्याप्तबादरस्थासङ्ख्येयगुणानि / तेभ्योऽपि पर्याप्तसूक्ष्मस्यासङ्ख्येयगुणानि / तेभ्योऽपि पर्याप्तबादरस्यासख्येयगुणानि। तेभ्योऽपि द्वीन्द्रियस्याऽपर्याप्त