________________ बंधण 1212- अभिधानराजेन्द्रः - भाग 5 बंधण तिस्थिःशुभसुभगसुस्वराऽऽदेययशःकीर्युचैर्गोत्राणामपि वक्तव्यम् / / संप्रत्वसातवेदनीय स्योच्यते-तत्रासातस्य जघन्यस्थिती जघन्योऽनुभागः सर्वस्तोकः। द्वितीयस्यां स्थितौ जघन्योऽनुभागस्तावन्मात्र एव / तृतीयस्यामपि स्थितौ जघन्योऽनुभागस्तावन्मात्र एव / एवं तावद्वाच्यं वावत्सागरोपमशतपृथक्त्वं भवति / तत उपरितनस्थितौ जघन्योऽनुभागोऽनन्तगुणः एवं तावद्वाच्यं यावत्कण्डकस्यासङ्ख्ये या भागा गता भवन्ति, एकोऽवतिष्ठते / ततोऽसाख्य जघन्यस्थितावुत्कृष्ट पदे उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोद्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोः। ततोऽपि तृतीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत् कण्डकमात्राः स्थितयो गता भवन्ति। ततो यतः स्थितिस्थानाजघन्यमनुभाग मुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योsनुभागोऽनन्तगुणः / ततः प्रागुक्तादुत्कृष्टानुभागविषयात्कण्डकादुपरि प्रथमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि द्वितीवस्यां स्थिती उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि तृतीयस्यां स्थितौ ढत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत्पुनरपि कण्डकमात्राः स्थितयो गता भवन्ति। ततः पुनरपि यतः स्थितिस्थानाजघन्यानुभाग मुक्त्वा निवृत्तस्तस्योपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततो भूयोऽपि प्रागुक्तकण्डकद्वयादुपरिकण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो यथोत्तरमनन्तगुणो वक्तव्यः / एवमेकैकस्याः स्थितेर्जघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुत्कऽष्टोऽनुभागोऽनन्तगुणतया तायद्वक्तव्यो यावज्जघन्यानुभागविषयाणामेकैकस्थितीनां तानि चान्यानि चेत्येवमनुकृष्टः परं कण्डक परिपूर्ण भवति। उत्कृष्टानुभागविषयाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः / तत उपरि एकस्याः स्थितेर्जधन्योऽनुभागोऽनन्तगुणो वाच्यः ततः सागरोपमशतपृथक्त्वादुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततःपुनरपि प्रागुक्तात् स्थितिस्थानादुपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततः सागरोपमशतपृथक्त्वादुपरि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः एवमेकैकं जघन्यमुत्कृष्ट चानुभागमनन्तगुणं वदन् तावत् व्रजेद्यावदसातवेदनीयस्य सर्वोत्कृष्टा स्थितिर्भवति / कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ता अवतिष्टन्ते शेषाः, सर्वेऽप्युक्ताः। ततस्तेऽपि यथोत्तरमनन्तगुणा वक्तव्या यावदुत्कृष्टा स्थितिः एवं नरकगतिनरकानुपूर्वीपञ्चेन्द्रियजातिवर्जजातिचतुष्टयप्रथमवर्जसंस्थानपञ्चकप्रथमवर्जसंहननपञ्चकाऽप्रशस्तबिहायोगतिस्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भवदुःस्वरानादेयायशःकीर्तीनामपि तीव्रमन्दताऽभिधातव्या // संप्रति तिर्यग्गतेस्तीव्रमन्दताऽभिधीयतेसप्तमपृथिव्यां वर्तमानस्य नैरयिकस्य सर्वजघन्ये स्थितिस्थाने जघन्यपदे जघन्याऽनुभागः। सर्वस्तोकः। ततो द्वितीयस्थितौ जघन्योऽनुभागोऽनन्त-गुणः। ततोऽपि तृतीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवं तावद्वाच्य यावन्निवर्तनकण्डकमतिक्रान्तं भवति / ततो जघन्यस्थितावुत्कृष्टपदे उत्कृष्टोऽनुभागोऽनन्तगुणः / ततो निवर्तनकण्डकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततो द्वितीयस्थितावुत्कृष्टोऽनुभानोऽनन्त गुणः। ततः कण्डकादुपरि द्वितीयस्थिनौ जघन्योऽनुभागोऽनन्तगुणः / ततस्तृतीयस्या स्थितादुरकृष्टोऽनुमानोऽनन्तगुणः। एवं तावद्वाव्यं यावदभव्यप्रायोन्यजघन्यानुभागबन्धस्याऽयश्वरमस्थितिः। अभव्यप्रायोग्यजघन्यानुभागबन्धस्याधः कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताः सन्ति, शेषास्तुक्ताः। ततोऽभव्यप्रायोग्य जाघन्यानुभागबन्धविषये प्रथमस्थितौ जघन्योऽनुभागोऽनन्त गुणः। द्वितीयस्यां स्थितौ जघन्योऽनुभागस्तावन्मात्र एव। तृतीयस्यामपि स्थितौ जघन्योऽनुभागस्तावन्मात्र एवा एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वभावाः स्थितयोऽतिक्रान्ता भवन्ति / एतासां च स्थितीनां पूर्वपुरुषः परावर्तमानजघन्यानुभागबन्धप्रायोग्या इति नाम कृतम्। एतासां चोपरि प्रथमस्थितौ जघन्यानुभावीऽनन्तगुणः। ततोऽपि द्वितीयस्यां स्थिती जघन्योनुभागोऽनन्तगुणः / ततोऽपितृतीवस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवंतावद्वाच्यं यावन्निवर्तनकण्डकस्य असंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते। ततो यतःस्थितिस्थानादुत्कृष्टमनुभागम् उक्त्वा निवृत्तस्तत उपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्युपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि तृतीये स्थितिस्थानं उत्कृष्टोऽनुभागोऽनन्तगुणः / एवं तावद्वाच्य यावदभव्यप्रायोग्य जघन्यानुभागबन्धस्याधश्वारमा स्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्ततः उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषये प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः / ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद् वाच्यं यावत् कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततोऽप्यभव्यप्रायोग्यजधन्यानुभागबन्धविषये कण्डकादुपरि पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो यथोत्तरमनन्तगुणो वक्तव्यः। एवमेकस्याः स्थितेर्जधन्यमनुभाग कण्डकमात्राणां च स्थितीनामुत्कृष्टमनुभागं वदता तावद्न्तव्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धीविषये चरमस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभाग मुक्त्वा निवृत्तस्तत उपरितने जघन्योऽनुभागोऽनन्तगुणः। ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धस्योपरि प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। तत उपरि प्रागुक्ताजघन्यानुभागबन्धादुपरि द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः प्रागुक्तादुत्कृष्टनुभागादुपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। एवमेकस्याः स्थितेर्जघन्यमेकस्याश्चोत्कृष्टमनुभागं वदता तावद्गन्तव्यं यावदुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताः सन्ति, शेषाश्च सर्वेऽप्युक्ताः ततस्ते यथोत्तरमनन्तगुणास्तावद्वक्तव्या यावदुत्कृष्टा स्थितिः / एवं तिर्यगानुपूर्व्या नीचैर्गोत्रय च तीव्रमन्दताऽभिधातव्या / / सम्यति त्रसनाम्नोऽभिधीयतेत्रसनाम्न उत्कृष्टस्थितौ जघन्यपदे जघन्योऽनुभागः सर्वस्तोकः। ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः / ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवमधोऽधोऽ