________________ बंधण 1211 - अभिधानराजेन्द्रः - भाग 5 बंधण जघन्योऽनुभागः सर्वस्तोकः / ततः समयोमायामुत्कृष्टस्थितौ जघन्योsनुभागोऽनन्तगुणः / ततोऽपि द्विसमयोनायामुत्कृष्ट स्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवं तावद्वाच्यं जावत्पल्योपमाऽसंख्येयभागमात्राः स्थितयो गता भवन्ति, निवर्तनकण्डकमतिक्रान्तं भवतीत्यर्थः / तत उत्कृष्टायां स्थितादुत्कृष्टोऽनुभागोऽनन्तगुणः। ततो निवर्तनकण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः / ततः समयोनाया मुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः / ततो निवर्तनकण्डकादधो द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवं तावद्वाच्यं यावत्पराघानस्य जघन्यस्थितौ जघन्यानुभागोऽनन्तगुणः कण्डकमात्राणां च स्थितीना मुत्कृष्टोऽनुभागोऽद्याप्यनुक्तन्तिष्ठति। शेषः सर्वोऽप्युक्तः। ततोजघन्यस्थितेरारभ्योर्ध्व कण्डकमात्राः स्थितीरतिक्रम्य चरमायां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। ततोऽधस्तनस्थितावुत्कृष्टाऽनुभागोऽनन्तगुणः / एवं तावद्वाच्यं यावजघन्यस्थितादुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं शरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकाऽङ्गोपाङ्गायप्रशस्त वर्णगन्धरसस्पर्शागुरुलघुच्छवासाऽऽत पोद्योतनिर्माणतीर्थकराणामपि भावनीयम् / (परित्तमाणीण उ विसेसो) परावर्तमानप्रकृतीनां विशेषो द्रष्टव्यः / स चैवम् यावतीना तानि चाऽन्यानि चेत्येवमनुकृष्टिभिहिता, तावतीनां सर्वासामपि जघन्योऽनुभागस्तावन्मात्रा एव द्रष्टव्यः / तानि चान्यानि चेत्येवमनुकृष्टिविषयाभ्यस्तु परतो जघन्यो यथोत्तरमनन्त गुणस्तावद्रक्तव्यो यावत् कण्डकस्याऽसंख्येया भागा गता भवन्ति, एकोऽवशिष्यते // 66|| तथा चाऽऽह - ताणन्नाणि त्ति परं, असंखभागाहिं कंडगेक्काण। उक्कोसियरा नेया, जा तकंडकोवरि समत्ती / / 67 / / (ताणि त्ति)तानि चान्यानि चेत्येवमनुकृष्टः परं कण्डकस्याऽसंख्येयेभ्यो भागेभ्य ऊर्ध्व कण्डकमात्राणामेकैकस्याश्च स्थितेर्यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा अनन्तगुणा ज्ञेयाः / एतदुक्तं भवति-तानि चान्यानि चेत्येवमनुकृष्टः परं जघन्योऽनुभागो यथोत्तरमनन्तगुणस्तावद्वाठ्यः यावत् कण्डकमात्राणां स्थितीनामसंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते। ततो यतः स्थितेरारभ्य तानि चान्यानि चेत्येव मनुकृष्टिरारब्धा, तत्प्रभृतीनां स्थितीनां कण्डकमात्राणां यथोत्तरमनन्तगुणतयोत्कृष्टोऽनुभागो वक्तव्यः। ततो यतः स्थितिस्थानाजधन्यानुभागमुक्त्वा निवृत्तस्तत उपरितने स्थिति स्थाने जघन्योऽनुभागोऽनन्तगुणोवाच्यः / एवमेकैकं जघन्यानुभागमुत्कृष्टानुभागानां च कण्डकं कण्डक तावद्वदेत् यावजघन्या नुभागविषयाणां स्थितीनां तानि चान्यानि चेत्येवमनुकृष्टः परं कण्डकं परिपूर्ण भवति। उत्कृष्टाश्चानुभागाः सागरोपमशत पृथक्त्वतुल्या भवन्ति / तत उपरि जघन्योऽनुभागोऽनन्तगुणः / पश्चादेक उत्कृष्टोऽनुभागः। ततः पुनरप्येको जघन्योऽनुभागः, पुनरप्येक उत्कृष्टोऽनुभागः, एवं तावद्वाच्यं यावज्जघन्यानुभाग विषयाः स्थितयः सर्वा अपि परिसमाप्ता भवन्ति / उत्कृष्टानुभाग विषयाश्च कण्डकमात्राः स्थितयो ऽद्याप्यनुक्ता स्तिष्ठन्ति। शेषाः सर्वा अप्युक्ताः। ततस्तासांयथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः। तथा चाऽऽह-(जातक्कडकोवरि समत्ती) यावत्तेषां जघन्याऽनुभागानां कण्डकस्य चोपरितनस्य परिसमाप्तिः / इदमुक्तं भवति-अनन्तगुणतयाऽभिहितानां जघन्यानुभाग विषयाणां स्थितीनां कण्डकादुपरि एकैकोत्कृष्टानुभागान्तरिता जघन्यानुभागास्तावद्वक्तव्या यावत्तेषां सर्वेषामपि परिसमाप्तिरुपज्जायते / ततो ये कण्डकमात्रा उत्कृष्टानुभागाः केवलास्तिष्ठन्ति, तेऽपि यथोत्तरमनन्तगुणास्तावद्वाच्या यावत्सर्वसमाप्तिर्भवतीति गाथार्थः / / ता साताऽसाते अधिकृत्य भावना विधीयते-सातस्योत्कृष्टायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः / ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव / द्विसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव / एवमधोऽधोऽवतीर्य तावद्वक्तव्यो यावत्सागरोपमशतपृथक्त्वमतिक्रान्तं भवति / ततोऽधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः / ततोऽप्यधरतनस्थितौ जघन्योऽनुभागोऽनन्तगुणः / एवं तावद्वाच्यं यावत् कण्डकस्याऽसंख्ययभागा गता भवन्ति, एकोऽवशिष्यते / एताश्च स्थितयः संख्येयभागहीनकण्डक मात्राः साकारोपयोगसंज्ञा इति व्यवन्हियन्ते, साकारोपयोगेनैवैतासांबध्यमानत्वात्। तत उत्कृष्टस्थिती उत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। ततः समयोनायामुत्कृष्ट स्थितावुत्कुष्टोऽनुभागोऽनन्तगुणः। ततोऽपि द्विसमयोनाया मुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः / एवमधोऽधोऽवतरणेनोत्कृष्टोऽनुभागोऽनन्तगुणस्तावद् वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तात् स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तानामुत्कृष्टानुभागविषयाणां स्थितीनामधस्तात् कण्डकमात्रासु उत्कृष्टोऽनुभागः क्रमेणानन्तगुणो वाच्यः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणो वक्तव्यः। ततः पुनरपि कण्डकमात्राणां स्थितीनामुक्कृष्टोऽनुभागोऽनन्तगुणः / एवमेकस्याः स्थितेर्जघन्योऽनुभागः कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावज्जघन्यानुभागविष-याणामेकैकस्थितीनां त्रानि चान्यानि चेत्येवमनुकृष्टः परं कण्डक परिपूर्ण भवति। उत्कृष्टानुभागविषायाश्च स्थितयः सागरोपमशतपृथक्त्वमात्राः / तत एकस्याः स्थितेर्जघन्यानुभागोऽनन्तगुणः। ततः सागरापमशतपृथक्त्वादधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुनरपि प्रागुक्तस्थितिस्थानादधस्तनस्थितौ जघन्योऽनुभागो ऽनन्तगुणः / ततः सागरोपमशतपृथक्त्वादधस्तनद्वितीयस्थिती उत्कृष्टोऽनुभागोऽनन्तएगुणः / एवमेकैकं जघन्यमुत्कृष्ट चानुभागमनन्तगुणतया वदन् तावद्व्रजेद्द्यावत्सर्वजघन्यन्या स्थितिः। कण्डकमात्राणं च स्थितीनामुत्कृष्टानुभागा-अद्याऽप्यनु क्तास्तिष्ठन्ति, शेषाः सर्वेऽप्युक्ताः / ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणा वक्तव्यायावत्सर्वजघन्या स्थितिः / एवं मनुष्यगतिमनुष्यानुपूर्वी देवगतिदेवानुपूर्वीपञ्चेन्द्रियजातिसम चतुर स्रसंस्थानवज्रर्षभनाराचसंहननप्रशस्तविहायोग