________________ बंधण 1210- अभिधानराजेन्द्रः - भाग 5 बंधण माप्ता / तत उपरितने स्थितिबन्धे जघन्याऽनुभागबन्धविषयचर मस्थित्यनन्तरस्थितिसत्काऽनुभागबन्धाध्यवसायस्थानाना मनुकृष्टिः परिसमाप्ति याति। एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः। (एसा तिरियगति दुगे, नीयागोए य अणु कड्डी) एषा-अनन्तरोक्ताऽनुकृष्टिः तिर्यग्गतिद्विके तिर्यगा ति तिर्यगानुपूर्वी लक्षणे नीचैर्गोत्रे च द्रष्टव्या। तत्र यथा तिर्यग्गतौ भाविता तथा तिर्यगानुपूर्यो नीचैर्गोत्रेच स्वयमेव भावनीयेति॥६॥६३|| सम्प्रति ासाऽऽदिचतुष्कस्याऽनुकृष्टिमभिधातुकाम आह तसवायरपज्जत्तग-पत्तेयगाण परघायतुल्लाओ। जावट्ठारसकोडा-कोडी हेट्ठा य साएणं // 64|| (तस त्ति) असबादरपर्याप्तप्रत्येकनाम्नामनुकृष्टिः पराघा ततुल्या पराघातस्येव द्रष्टव्या / सा र्चापरितनात् स्थिति स्थानादारभ्याऽधोऽधोऽवतरणेन यावदधस्तादष्टादशकोटी कोट्यः सागरोपमाणां तिष्ठन्ति। ततोऽधस्तात् सातेन तुल्याऽनुकृष्टिरभिधातव्या / तत्र त्रसनाम्नो भाव्यते-ताठासनाम्न उत्कृष्टस्थितिबन्धाऽऽरम्भे यान्यनुभागबन्धाध्यवसा यस्थानानि तेषामसंख्येयं भाग मुक्त्वा शेषाणि सर्वाण्यपि समयोनोत्कृष्टस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति / समयोनोत्कृष्टस्थितिबन्धाऽऽरम्भेऽपि च यान्यनु भागबन्धाध्यवसायस्थानानि तेषामसंख्येयं भाग मुक्त्वा शेषाणि सर्वाण्यपि द्विसयोनोत्कृष्टस्थितिबन्धाऽऽरम्भेऽपि अनुवर्तन्ते, अन्यानि च भवन्ति। एवं तावदाच्य यावत्पल्योपमासंख्येयंभागमात्राः स्थितयो गता भवन्ति / अत्रोत्कृष्टस्थितिसत्काऽनुभागबन्धाध्यवसायस्थानाना मनुकृष्टिः परिसमाप्ता / ततोऽधस्तने स्थितिस्थाने समयोनोत्कृष्ट स्थितिसत्काऽनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति / ततोऽप्यधस्तने स्थितिस्थाने द्विसमयोनोत्कृष्टस्थितिसत्कानुभागबन्धाध्यवसायस्थानाना मनुकृष्टिः परिसमाप्तिमेति। एवमधोऽधोऽवतरणेन तावद्वाच्य यावद्ध-स्तादष्टादशसागरोपमकोटीकोट्यस्तिष्ठन्ति। ततोऽष्टादश सागरोपमकोटीकोटीचरमस्थितौ यान्यनुभाग बन्धाध्यवसायस्थानानि तान्यधस्तनस्थितिबन्धाऽऽरम्भे सर्वाण्यपि भवन्ति, अन्यानि च। यानि चाऽधस्तनस्थितिबन्धा ऽऽरम्भेऽनुभागबन्धाध्यवसायस्थानानि तानि ततोऽप्यधस्तन स्थितिबन्धाऽऽरम्भे सर्वाण्यपि भवन्ति, अन्यानि च। एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्याऽनुभागबन्धविषय स्थावरनामसत्कस्थितिप्रमाणाः स्थितयो गता भवन्ति / ततोऽनन्तरमधस्तने स्थितिस्थाने प्राक्तनानन्तरस्थितिस्थान सत्कानामनुभागबन्धाध्यवसायस्थानानामसंख्येयं भागं मुक्त्वा सर्वाण्यपि तान्यनुवर्तन्ते, अन्यानि च भवन्ति। ततोऽप्य धस्तनतरे स्थितिबन्धे प्राक्तनानन्तरस्थितिस्थान सत्कानामनु भागबन्धाऽध्यवसायस्थानामसंख्येयं भागं मुक्त्वा शेषाणि तानि सर्वाण्यप्यनुवर्तन्ते, अन्यानि च भवन्ति। एवं तावद्वाच्यं यावत् पल्योपमाऽसंख्येयभागमात्राः स्थितयो गता भवन्ति। अा जघन्यानुभागबन्धविषयस्थावरनामसत्कस्थितिप्रमाणतया निहितानां प्रथमस्थितर्यान्यनुभागबन्धाध्यवसायस्थानानि तेषामनुकृष्टि परिसमाप्ता। ततोऽधस्तने स्थितिस्थाने द्वितीयस्थितिस्थान सत्काऽनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठामेति। एवं तावद्वाच्य यावञ्जधन्या स्थितिः। एवं बादर पर्याप्तप्रत्येकनाम्नामपि भावना कार्या॥६४॥ तणुतुल्ला तित्थयरे, अणुकड्डी तिवमंदया एत्तो। सव्वपगईण नेया, जहन्नयाई अणंतगुणा // 65|| (तणुतुल्ल त्ति) तीर्थकरनाम्नि अनुकृय॑िथा शरीरनाम्नि प्रागभिहिता यथा द्रष्टव्या। इत ऊर्ध्वमनुभागानां तीव्रमन्दता द्रष्टव्या। तत्र सर्वासां प्रकृतीनामात्मीयाऽऽत्मीयजघन्याऽनुभाग बन्धादारभ्य यावदुत्कृष्टोऽनुभागबन्धस्तावत् स्थितिबन्धेस्थितिबन्धेऽनन्तगुणा तीव्रमन्दता वक्तव्या यथोत्तरमनन्तगुणोऽनुभागवक्तव्य इत्यर्थः। तत्राप्यशुभ प्रकृतीनां जघन्यास्थितेरारभ्योर्ध्वमुखं क्रमेणानन्तगुणो वक्तव्यः। शुभप्रकृतीनां तूत्कृष्टस्थितेरारभ्याधोमुखं याव जघन्या स्थितिः। तदियं सामान्यतस्तीव्रमन्दताऽभिहिता। सम्प्रति विशेषत उच्यते तत्रघातिकर्मणामप्रशस्तवर्णगन्धरसस्पर्शानामुपघातस्य च जघन्यायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः। ततो द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽपि तृतीयस्यां स्थितौ जघन्याऽनुभागोऽनन्तगुणः। एवं तावद्वाच्य यावन्निवर्तनकण्डकं भवति / निवर्तनकण्डकं नाम-यत्रा जघन्यस्थितिबन्धाऽऽरम्भ भाविनामनुभागबन्धाध्यवसायम्थानानामनुकृष्टिः परिसमाप्ता। तत्पर्यन्ता मूलत आरभ्य स्थितयः पल्योपमाडसंख्येयभागा मात्राप्रमाणा उच्यन्ते / इति / / 6 / / निव्वत्तणा उ एकि-कस्स हेट्ठोवरिं तु जेट्ठियरे। चरमठिईणुकोसो, परित्तमाणीण उ विसेसो॥६६|| (निव्वत्तणं त्ति) ततो निवर्तनकण्डकस्य चरमस्थितौ जघन्याऽनुभागाजघन्यस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादुपरि प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततो द्वितीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादुपरि स्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽधस्तना तृतीयस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽधस्तनादुपरितृतीयस्थिता उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादुपरितृतीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवमेकैकोऽधस्तादुपरि च यथाक्रम ज्येष्ठ उत्कृष्ट इतरश्च जघन्योऽनुभागोऽनन्तगुणतया तावद्वाच्यो यावदुत्कृष्टायां स्थितौ जघन्योऽनुभागोऽनन्तगुणः। कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति। शेषः सर्वोऽप्युक्तः। तत सर्वोत्कृष्टायाः स्थितिर्जघन्यानुभागात् कण्डकमात्राणां स्थितीनां प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। ततोऽप्यनन्तरायामुपरितनस्थितावुकृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्यनन्तरायामुपरितनस्थितावुकृष्टोऽ नुभागोऽनन्तगुणः। एवं निरन्तरमुक्तृष्टोऽनुभागोऽनन्तगुणतया तावद्वक्तव्यो यावत्कृदुष्टा स्थितिः। तथा चाऽऽह-(चरमठिईsणुकोसो) चरमस्थितीनां कण्डकमात्राणां पल्योपमाऽसंख्येयभागमात्राणामित्यर्थः। उत्कृष्टोऽनुभागो निरन्तरमनन्तगुणतया नेतव्यः। इदानीं शुभ प्रकृतीनां तीव्रमन्दताऽभिधानावसरः-तत्रा पराधातप्रकृति मधिकृत्योच्यतेपराघातस्योत्कृष्टायां स्थितौ जघन्यपदे