________________ बंधण 1206 - अभिधानराजेन्द्रः - भाग 5 बंधण संख्येयभागमात्राासु स्थितिष्वतिक्रान्तासु सर्वाऽऽत्मना परिसमाप्तिर्भवतीति। ततोऽसातजघन्यबन्धतुल्यस्थिति स्थानादधस्तनस्थितिस्थानसत्कानामनुभागबन्धाध्यवसाय स्थानानामनुकृष्टिः पल्योपभाऽसंख्येयभागमात्रादधः स्थितौ निष्ठामेति। एवं तावद्वाच्यं यावत्सातस्य जघन्या स्थितिः। (एवं परित्तमाणीण उसुभाण) यथा सातवेदनीयस्तोक्तं , तथा सर्वासा परावर्त्तमानप्रकृतीनां शुभानां मनुजद्विकदेचद्विकपञ्चेन्द्रि यजातिसमचतुररत्रसंस्थानयजर्षभनाराचसंहननप्रशस्त विहायोगति स्थिरशुभसुभगसुस्वराऽऽदेययशः कीर्युच्चै र्गोत्ररुपाणां पञ्चदशसंख्यानां नामग्राहमनुकृष्टिरभिधातव्या इति // 56 // 60 / / इदानीमसातस्योच्यतेजाणि असायजहन्ने, उदहिपुहुत्तं ति ताणि अण्णाणि। आवरणसमुप्पेवं, परित्तमाण्णीणमसुभाणं / / 61 // (जाणि त्ति) असातस्य जघन्यस्थितिबन्धाऽऽरम्भे यान्यनुभागबन्धाध्यवसायस्थितिस्थानानि तानि समयाधिक जघन्यस्थितिबन्धाऽऽरम्भेऽपि भवन्ति, अन्यानि च। यानि समयाधिकजघन्यस्थितिबन्धारम्भेऽनुभागबन्धाध्यवसाय स्थानानि तानि द्विसमयाधिकजधन्यस्थितिबन्धाऽऽरम्भेऽपि भवन्ति, अन्यानि च। एवं तावद्वाच्यं यावत्सागरोपमशत पृथक्त्वं भवति / यावन्मात्रासु सातवेदनीयस्य स्थितिषु तानि चाऽन्यानि चेत्येवं क्रमोऽनुकृष्टर भिहितस्तावत्प्रमाणास्वेवाऽसातवेदनीय स्थितिष्वपिजघन्यस्थितेरारभ्य तानि चाऽन्यानिचेत्येवम, नुकृष्टिरभिधातव्या। एता एव च स्थितयः सर्वजघन्या ऽनुभागबन्धप्रायोग्याः / यत एतावत्यः स्थितयः सातात्परावृत्य परावृत्य बध्यन्ते। परावर्तमानश्च प्रायो मन्दपरिणामो भवति। तत एतासु जघन्यानुभागबन्धसंभवः / इत ऊर्ध्वत्वसातमेव केवलं बध्नाति। तदपिच तीव्रतरेण परिणामेन।ततो. न तत्रा जघन्याऽनुभागबन्धसंभव इति / (आवरणसमं उप्पिं ति) तत उपरितनीनां स्थितीनां यथा ज्ञानाऽऽवरणीयाऽऽदेरुक्तं तदेकदेशोऽन्यानि चेति तथैवाभिधातव्यम्, तद्यथा-असातस्य जघन्याऽनुभागबन्धप्रायोग्यानां स्थितीनां या चरमा स्थितिस्तद्वन्धाऽऽरम्भे यान्यनुभागबन्धाऽध्यवसाय स्थानानि, तेषामेकदेशस्त दुपरितनस्थितिबन्धाऽऽरम्भेऽनुवर्तते, अन्यानि च भवन्ति / ततोऽप्युपरितनस्थितिबन्धाऽरम्भे प्राक्तन स्थितिस्थानसत्काऽनुभागबन्धाऽध्यवसायस्थानानामे कदेशोऽनुवर्तते, अन्यानि च भवन्ति / एवं तावद्वाच्यं यावत्पल्योप माऽसंख्येय भागमात्राः स्थितयो गता भवन्ति / अत्र जघन्यानुभाग वन्धप्रायोग्यचरमस्थितिसत्काऽनुभागबन्धाऽध्यवसायस्था नानामनुत्कृष्टिः परिसमाप्तिमेति / ततोऽप्युपरितन स्थितिबन्धे जघन्यानुभागबन्धप्रायोग्यस्थित्यनन्तरस्थिति सत्कारऽनु भागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति / एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थितिर्भवति। (एवं परित्तमाणीणमसुभाणं) यथाऽसातवेदनीयस्योक्तम्, एवं शेषाणामपि परावर्त्तमानप्रकृतीनामशुभानां नरकद्विक पञ्चेन्द्रियजाति वर्जशेषजातिचतुष्टयप्रथमवर्ज संस्थानप्रथम वर्जसंहननाऽप्रशस्तविहायोगतिस्थावरसूक्ष्मसाधारणाऽपर्याप्ताऽस्थिराऽशुभदुर्भगदुःस्वराऽ- नादेयाऽयशः कीर्तिरुपाणां सप्तविंशतिसंख्यानां प्रत्येकं नामग्राहमनुकृ. ष्टिरभि धातव्या इति॥६१ // इदानी तिर्यद्विकनीचैर्गोत्राणामनुत्कृष्टिमभिधातुकाम आहसे काले सम्मत्तं, पडिवजंतस्स सत्तमखिईए। जो ठिइबंधो हस्सो, इत्तो आवरणतुल्लो य॥६२|| जा अभवियपाउग्गा, उप्पिमसायसमया उ आ (जा) जेट्ठा। एसा तिरियगतिदुगे, नीयागोए य अणुकड्डी // 63 / / (सेति) सप्तमपृथिव्यां वर्तमानस्य नारकस्य (से काले) अनन्तरसमये सम्यक्त्वं प्रतिपत्तुकामस्य यो ह्रस्वोजघन्यः स्थितिबन्ध इत ऊर्ध्व स्थितिबन्धोऽनुकृष्टिमधिकृत्याऽऽवरण तुल्यो ज्ञातव्यः। सच तावद्यावदभव्यप्रायोग्या जघन्या स्थितिः / तत्र तिर्यम्गतिमधिकृत्य भावना क्रियते सप्तमपृथिव्यां वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपत्तुकामस्य तिर्यगतेजघन्यां स्थिति बनतो थान्यनुभागबन्धाध्यवसाय स्थानानि, तेषामसंख्येयतम भागं मुक्त्वाऽन्यानि सर्वाण्यपि द्वितीयस्थितिबन्धा ऽऽरम्भेऽनुवर्तन्ते, अन्यानिच भवन्ति। द्वितीयां च स्थिति बनतो यानि अनुभागबन्धाध्यवसायस्थानानि, तेषामसंख्येयतमं भांग मुक्त्वाऽन्यानि सर्वाण्यपि तृतीयस्थितिबन्धाऽऽरम्भेऽनुवर्त्तन्ते, अन्यानि च भवन्ति। एवं तावद्वाच्यं यावत्पल्योपमाऽसंख्येय भागमात्राः स्थितयो गता भवन्ति / अत्रा जघन्यस्थितिसत्कानुभाग बन्धाऽध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति। तत उपरितनस्थितिबन्धाऽऽरम्भे द्वितीयस्थितिस्थानसत्काऽनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ति याति। ततोऽप्युपरितनस्थितिबन्धाऽऽरम्भे तृतीयस्थितिसत्का ऽनुभागबन्धाध्यवसायस्थाना नामनुकृष्टिः परिसमाप्तिमेति। एवं तावद्वाच्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः / (उप्पिं असायसमया उ आ जेट्ठा) तत उपरिष्टात्-अभव्यप्रायोग्यजघन्यस्थितिबन्धादारभ्येत्यर्थः / असातेन समतातुल्यता ज्ञातव्या। (आजेट्टत्ति) यावज्जेष्ठोत्कृष्टा स्थितिः। एतदुक्तं भवति-अभव्यप्रायोग्यां जघन्या स्थिति बनतो यानि अनुभागबन्धाऽध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च। तस्यामपि यानि अनुभागबन्धाऽध्यवसायस्थानानि तानि उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च। एवं तावद्वाच्य यावत्सागरोपमशत पृथक्त्वम्। एताश्च प्रायोऽभव्यप्रायोग्य जघन्याऽनुभागबन्ध विषयाः स्थितयः / एता हि मनुष्यगति रुपया प्रतिपक्षप्रकृत्या सह परावृत्य परावृत्य बध्यन्ते। परावृत्य बन्धे च प्रायः परिणामो मन्द उपजायते। तत एता जघन्याऽनुभागबन्धविषयाः। एतासां चरमस्थिती यान्यनुभाग बन्धाऽध्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते अन्यानि च भवन्ति / तत्रापि यानि अनुभागबन्धाध्यवसायस्थाननि, तेषामसंख्येयं भाग मुक्त्वा शेषाणि सर्वाण्यपि तत उपरितन स्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति / एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति / अत्र जघन्याऽनुभागबन्धविषयचरमस्थिति सत्कानुभागबन्धाऽध्यवसायस्थानानामनुकृष्टिः परिस