________________ बंधण 1208 - अमिधानराजेन्द्रः - भाग 5 बंधण तोऽपि द्विसमयाधिकायामसंख्येयगुणानि, एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः, इति // 56 // साम्प्रतमनुभागबन्धस्थानानां तीव्रमन्दतापरिज्ञानार्थमनु भागबन्धाऽध्यवसायस्थानानामनुकृष्टिमभिधातुकाम आह - घाईणमसुभवण्णर-सगंधफासे जहन्नठिइबंधे। जाणज्झवसाणाई, तदेगदेसो य अन्नाणि / / 57 // पल्लाऽसंखिय भागो, जावं बिइयस्स होइ बिइयम्मि। आ उकस्सा एवं, उवघाए वा वि अणुकड्डि।।५८३|| (घाईणमिति) इह प्रायो ग्रन्थिदेशे वर्तमानस्याऽभव्य जीवस्य यो जघन्यस्थितिबन्धस्तस्मात् स्थितिवृद्धौ अनुकृष्टिरभिधीयमानाऽनुसतट्या सातवेदनीय मनुजद्विकदेव द्विकतिर्यग्द्विकपञ्चेन्द्रियजातित्रासबादरपर्याप्तप्रत्येक समचतुरस्रसंस्थानवर्षभनाराचसंहननप्रशस्तविहायोगति स्थिरशुभसुभगसुस्वराऽऽदेययशःकीयुचैर्गोत्रानीचैर्गोत्राणाम भव्यप्रायोग्यजघन्यबन्धाऽऽदयोरपि अनुसर्तव्याः / तत्रा धातिना पञ्चविधज्ञानाऽऽवरणनवविधदर्शनाऽऽवरणमिथ्यात्वषोडश कषायनयनोकषायपञ्चविधाऽन्तरायलक्षणानां कर्मणा मशुभगन्धवर्णरसस्पर्श च। अषष्ठ्यर्थे सप्तमी। अशुभानां वर्णगन्धरसस्पर्शानां च कृष्णनीलदुरभिगन्धतिक्तकटुकगुरु कर्कशरुक्षशीतरुपाणां जघन्यस्थितिबन्धे यान्यनुभागबन्धा ऽध्यवसायस्थानानि तेषामेकदशो द्वितीय स्थितियन्धेऽनुवर्तते- अन्यानि च भवन्ति / इदमुक्तं भवति-जघन्यस्थिति बन्धाऽऽरम्भे यान्यनुभागबन्धाऽध्यवसायस्थानानि, तेषामसंख्येयतम भागं मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिबन्धाऽऽरम्भे प्राप्यन्ते अन्यानि च भवन्ति / द्वितीयस्थितिबन्धाऽऽरम्भे च यान्यनुभगबन्धाऽध्यवसायस्थानानि, तेषामसंख्येयतमं भाग मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिबन्धाऽऽरम्भेप्राप्यन्ते, अन्यानि च भवन्ति, तृतीयस्थितिबन्धा ऽऽरम्भे च यान्यनुभागबन्धाऽध्यवसायस्थानानि, तेषामसंख्येयतम भाग मुक्त्या शेषाणि सर्वाण्यपि चतुर्थस्थितिबन्धाऽऽरम्भे प्राप्यन्ते, अन्यानि च भवन्ति / एवं तावद्वाच्यं यावत्पल्योपभा ऽसंख्येयभागमात्राः स्थितयो गता भवन्ति / अत्रा जघन्यस्थितिबन्धाऽऽरम्भे भाविनामनुभागबन्धाऽध्य वसायस्था नानामनुकृष्टिः परिसमाप्ता। ततोऽनन्तरमुपरितने स्थितिबन्धे द्वितीयस्थितिबन्धाऽऽरम्भभाविनामनुभागबन्धा ध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति। तथा चाऽऽह (विइयस्स होइ बिइयम्मि) द्वितीयस्य स्थितिबन्धस्य संबन्धि नामनुभाग बन्धाऽध्यवसायस्थानानामनुकृष्टिद्धितीये यत्रा जघन्यस्थिति बन्धाऽऽरम्भाविनामनुभागबन्धाऽध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता। ततोऽनन्तरे परिनिष्ठां याति तृतीयस्थितिबन्धाऽऽरम्भभाविनां चाऽनुभागबन्धाऽध्यवसा यस्थानानामनुकृष्टिः ततोऽप्यनन्तरे परिसमाप्तिं याति / एवं तावद्वाळ यावदुक्त प्रकृतीनामात्मीयाऽऽत्मीयोत्कृष्टा स्थितिर्भवति। तथा चाऽऽह-(आ उक्कस्सा एवं) एवम्-अमुना प्रकारेण आउत्कर्षादवनन्तव्यम् / तथोपघातेऽप्येवमेवाऽनुकृष्टि रभिघातव्या, यथा घाति प्रकृतीनामभिहिता अनुकृष्टिरिति, अनुकर्षणम्-अनुकृष्टि रनुवर्तनमित्यर्थः // 57|| // 58|| परघाउज्जोउस्सा-माऽऽयवधुवनामतणुउवंगाणं। पडिलोमं सायस्स उ, उक्कोसे जाणि समऊणे // 56 / / ताणि य अन्नाणेवं, ठिइबंधो जा जहन्नगमसाए। हेदुजोयसमेवं, परत्तमाणीण उसुभाणं // 60 // (परघाउ त्ति) पराघातोद्योतोच्छ्वासाऽऽतपानां शुभवर्णा ऽऽधकादशयागुरुलघुनिर्माणरुपाणां ध्रुवनाम्नां (तणुउवंगाणंति) इह तनुग्रहणेन शरीरसंघातबन्धनानिगृह्यन्ते। ततश्च शरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकाङ्गो पाङ्गत्रयाणां चानुकृष्टिः प्रतिलोममभिधातव्या। तद्यथाएतासा प्रकृतीना मुत्कृष्टस्थितिबन्धाऽऽरम्भेयान्यनुभागबन्धाध्यवसाय स्थानानि, तेषामसंख्येय भाग मुक्त्वा शेषाणि सर्वाण्यपिएक समयोनोत्कृष्टस्थितिबन्धाऽऽरम्भे प्राप्यन्ते, अन्यानि च भवन्ति, एकसमयोनोत्कृष्टस्थितिबन्धाऽऽरम्भे च यान्यनुभाग बन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोत्कृष्टस्थितिबन्धाऽऽरम्भे प्राप्यन्ते, अन्यानि च भवन्ति / एवं तावद्वाच्यं यावत्पल्योपमा संख्येयभागमात्राः स्थितयोऽधोऽधोऽतिक्रान्ता भवन्ति / अत्रोत्कृष्टस्थितिबन्धाऽऽरम्भभाविनामनुभागबन्धाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयासंख्येय भागमोचनेनानुकृष्टिः परिसमाप्ता / ततोऽनन्तरमधस्तने स्थिति स्थानं एकसमयोनोत्कृष्टस्थितिबन्धाऽऽरम्भभाविनामनुभाग बन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठां याति / ततोऽप्यधस्तनतरे द्विरसमयोनोत्कृष्टास्थितिबन्धाऽऽरम्भ भाविनामनुभागबन्धाध्य-वसायस्थानानामनुकृष्टिः परिसमाप्ति मियति। एवं तावद्वाच्यं यावदुक्तप्रकृतीनां सर्वासामपि आत्मीया जघन्या स्थितिर्भवति / (सायस्सेत्यादि) सा तस्योत्कृष्टा स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि समयोनो त्कृष्टास्थतिबन्धाऽऽराम्भेऽपि तानि भवन्ति अन्यानि च यानि समयोनोत्कृष्टस्थिति बन्धाऽऽरम्भे भवन्ति द्विसमयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च। एवं तावद्वाच्यं यावदसातेऽसातस्य जघन्यः स्थितिबन्धः। किमुक्तं भवति?-यावत्प्रमाणाः स्थितयोऽसातस्यजघन्यानुभागबन्धप्रायोग्याः सातेन च सह परावर्त्य परावर्त्य बध्यन्ते तावत्प्रमाणासु सा तस्य स्थितिषु तानि चान्यानि चेत्येवं क्रमोऽनुसरणीयः। (हेटुजोयसमं ति) अधस्तादुदद्योतसभंवक्तव्यं यथा प्रागुद्द्योतस्याभिहितं तथाऽत्रापि वक्तव्यमित्यर्थः / तद्यथा-असातस्य जघन्यस्थितिबन्धाद्धस्तने स्थितिस्थाने यान्यनुभागबन्धाध्यवसायस्थानानि तानि कानिचिदुपरितन स्थितिस्थानसत्कानि कानिचिदन्यानि / तस्मादप्यधस्तने स्थितिस्थाने यानि अनुभागबन्धाध्यवसायस्थानानि तानि कानिचित्प्राक्तनस्थितिस्थानसत्कानि, कानिचिदन्यानि। अनेन च क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति / तत्र चासातजघन्यस्थितिबन्ध तुल्यस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानाना मनुकृष्टिः परिसमाप्तियाति। एतदुक्तं भवति-असातजघन्य स्थितिबन्धतुल्यस्थिति स्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामधोऽध एकैकस्मिन् स्थितिस्थानेऽसंख्येये भागे व्यवच्छिद्यमानेपल्योपमा