________________ बंधण 1207 - अभिधानराजेन्द्रः - भाग 5 बंधण तीये कषायोदये विशेषाधिकानि / ततोऽपि तृतीये विशेषाधिकानि। ततोऽपि चतुर्थे विशेषाधिकानि। एवं तावद्वाच्यं यावदुत्कृष्ट कषायोदयरुपं स्थितिबन्धाऽध्यवसाय स्थानमिति / / 53 / / कृताऽनन्तरोपनिधया वृद्धिमार्गणा। सम्प्रति परम्परोपनिधया तामभिधित्सुराह ... गंतूणमसंखेज्जे, लोगे दुगुणाणि जाव उक्कोसं। आवलिअसंखभागो, नाणागुणवुड्डिठाणाणि / / 54 / / (गंतूणं ति) जघन्यात् कषायोदयादारभ्याऽसंख्येयलोकाका ऽऽशप्रदेशप्रमाणानि कषायोदयस्थानानि गत्वाअतिक्रम्य परं यद्भवति स्थितिबन्धाध्यवसायस्थानं तस्मिन्ननुभाग बन्धाध्यवसायस्थानानि जघन्यकषायोदयस्थानसत्कानुभाग बन्धाध्यवसायस्थानाऽपेक्षया द्विगुणानि भवन्ति। पुनरपि तावन्ति। कषायोदयस्थानानि गत्वा यदपरं स्थितिबन्धाध्यवसायस्थानं तस्मिन् द्विगुणानि भवन्ति / एवं भूयो भूयस्ता वद्वाच्यं यावदुत्कृष्ट कषायोदयस्थानम्।यानि चाऽन्तराऽन्तरा नानारुपाणि द्विगुणवृद्धिस्थानानि भवन्ति तानि कियन्ति? इति चेदुच्यते-आवलिकाया असंख्येयभागः-आयलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्तीत्यर्थः / / 54|| सव्वाऽसुभपगईणं, सुभपगईणं विवज्जयं जाण / ठिइबंधट्ठाणेमु वि, आउगवजाण पगडीणं / / 55 / / (सव्व त्ति) सर्वासामशुभप्रकृतीनां ज्ञानाऽऽवरणपञ्चकनव दर्शना5ऽवरणाऽसातवेदनीयमिथ्यात्वषोडशकषायनवनो कषायणरकायु:पञ्चेन्द्रियजातिवर्जजातिचतुष्टयसमचतुर स्रवर्जसंस्थानपञ्चकवज्रर्षभनाराचवर्जसंहननपञ्चक कृष्णनीलवर्ण दुरभिगन्धतिक्तकटुरसकर्कशगुरुरुक्षशीत स्पर्शरूपाऽशुभकुवर्णाऽऽदिनवकनरकगतिनरकाऽऽनुपूर्वी तिर्यग्गति तिर्यगानुपूर्व्यप्रशस्तविहायोगत्युपघातस्थावरसूक्ष्माऽपर्याप्त साधारणाऽस्थिराऽशुभदुर्भगदुःस्वराऽनादेयाऽयशः कीर्तिनीचे र्गोत्राऽन्तरायपञ्चकलक्षणाना सप्ताऽशीतिसंख्यानामेषा मनन्तरोक्ताऽनुभागवन्धाध्यवसायस्थानानां वृद्धिमार्गणा द्रष्टव्या। (सुभपगईणमित्यादि) शुभानां प्रकृतीनांसातवेदनीयतिर्यगायुर्मनुष्याऽऽयुर्देवाऽ5युर्देवगतिमनुष्यगतिपञ्चे न्द्रियजातिशरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकसमचतुर स्वास्थानाऽङ्गोपाङ्गत्रयवज्रर्षभनाराचसंहननशुभवर्णाोकादश कदेवानुपूर्वीमनुष्यानुपूर्वीपराघातगुरुलघूच्छवासातपोद् द्योतप्रशस्तविहायोगतित्रासबादरपर्याप्तप्रत्येकस्थिरशुभसुभग सुखराऽऽदेययशः कीर्तिनिर्माणतीर्थकरोचैर्गोत्रलक्षणानामेकोन सप्ततिसख्यानां विपर्ययं जानीहि, तद्यथा-उत्कृष्ट कषायोदयेऽनुभागबन्धाध्यवसायस्थानानि सर्वस्तोकानि। द्विचरमे कषायोदये विशेषाधिकानि। त्रिचरमे कषायोदये विशेषाधिकानि / चतुश्चरमे कषायोदये विशेषाधिकानि / एवं तावद्वाच्यं यावत्सर्वजघन्यं कषायोदयस्थानम्। इयभवन्तरोप निधया वृद्धिमार्गणा। परम्परोनिधया तुवृद्धिमार्गणेयम-उत्कृष्टकषायोदयस्थानादारभ्याऽसंख्येयलोकाऽऽकाशात् प्रदेशराशिप्रमाणानि कषायोदयस्थानानि अधोभागेनाऽतिक्रम्य यदपरमधः कषायोदयस्थानं तस्मिन्ननु आमबन्धाऽ व्यवसायस्थानानि उत्कृष्टकषायोदयसत्काऽनुभा गबन्धाऽध्य वसायस्थानाऽपेक्षया द्विगुणानि भवन्ति / पुनरपि तावन्ति कषायोदयस्थानानि ततः प्रभृत्यधोभागेनाऽतिक्रम्य यदपरमधःकषायोदयस्थानं तस्मिन् द्विगुणानि भवन्ति / एवं भूयो भूयस्तावद्वाच्य यावजघन्यकषायोदयस्थानम् / यानि चाऽन्तराऽन्तरा नानारुपाणि द्विगुणवृद्धिस्थानानि तान्यावलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति। असूनि चाऽवलिकाया असंख्येयभागमात्राणि शुभप्रकृतीनामशुभप्रकृतीनां च प्रत्येक द्विगुणवृद्धिस्थानानि स्तोकानि / एकस्मिन्नपि द्विगुणवृद्धयपान्तराले कषायो दयस्थानानि असंख्येयगुणानि / तदेयं स्थितिबन्ध हेतुष्वध्यवसायेषु अनुभागबन्धहेतूनामध्यवसायानां प्ररुपणा कृता। संप्रति स्थितिबन्धस्थानेष्वनुभागबन्धप्ररुपणां चिकीर्षुराह- (ठिइबंधेत्यादि) स्थितिबन्धस्थानेष्वपि आयुर्वजानां सर्वासां प्रकृतीनां कषायोदयेष्वनुभागवन्धा ऽध्यवसायस्थानवदनुभाग बन्धस्थानानि वक्तव्यानि।तद्यथा-तत्रा पूर्वोक्तानामायुर्वर्जानाभशुभप्रकृतीनां जघन्यस्थिताव नुभागबन्धस्थानाव्यसंख्येयलोकाऽऽकाशप्रदेशप्रमाणानितानि च स्तोकानि। ततो द्वितीयस्थितौ विशेषाधिकानि / ततोऽपि तृतीयस्थितौ विशेषाऽधिकानि। एवं तावद्वाव्यं यावदुत्कृष्टा स्थितिः / तथा पूर्वोक्तानामायुर्व नामशुभप्रकृतीनामुत्कृष्ट स्थितावनुभागबन्धस्थानान्यसंख्येयलोकाऽऽकाशप्रदेशप्रमा णानि तानि च स्तोकानि / तेभ्यः समयोनायामुत्कृष्टस्थितॊ विशेषाधिकानि / एवं तावद्वाच्यं यावजघन्या स्थितिः, इति // 55 / / तदेवं कृताऽनन्तरोपनिधया वृद्धिमार्गणा। सम्प्रति परम्परोपनिधया तां चिकीर्षुराह - पल्लाऽसंखियभाग, गंतुं दुगुणाणि आउगाणं तु / थोवाणि पढमबंधे, ठिइयाइ असंखगुणियाणि // 56 // (पल्लत्ति) पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्य-स्थितेरारभ्य पल्योपमाऽसंख्येयभागमात्राणि स्थितिस्थानान्य तिक्रम्य यदपरं स्थितिस्थानं तस्मिन् अनुभागबन्धस्थानानि जघन्यस्थितिसत्कानुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति। ततः पुनरपि तावन्ति स्थितिस्थानान्यतिक्रम्य यदपरं स्थितिस्थानं तस्मिन् द्विगुणान्यनुभागबन्धस्थानानि भवन्ति। एवं भूयो भूयस्तावद्वाच्यं यावदुत्कृष्टा स्थितिः। तथा पूर्वोक्तानामायुर्वजनिां शुभ प्रकृतीनामुत्कृष्टस्थितेरारभ्य पल्यो पमाऽसंख्येयभागमात्राणि स्थितिस्थानान्यतिक्रम्य यदपरमधः स्थितिस्थानं तस्मिन्ननुभागबन्धस्थानान्युत्कृष्टस्थितिस्थान सत्काऽनुभागबन्धस्थानेभ्यो द्विगुणानि भवन्ति / ततः पुनरपि तावन्ति स्थिति रथानान्यधोऽवतीर्याऽधस्तनं यदपरं स्थितिस्थानं तस्मिन् द्विगुणानि भवन्ति / एवं तावद्वाच्यं यावजघन्या स्थितिः। एतानि चशुभप्रकृतीनां च प्रत्येकद्विगुण वृद्धिस्थानानि आवलिकाया असंख्येयभागे यावन्तः समथास्ता वत्प्रमाणानि भवन्ति। तथा द्विगुणवृद्धिस्थानानि स्तोकानि, आवलिकाया असंख्येयभागत्वात्। एकस्मिन् द्विगुणवृद्ध्योर पान्तराले स्थितिस्थानानि असंख्येयगुणानि, पल्योपमाऽ संख्येयभागगुणत्वात्। तथा चतुर्णामप्यायुषां जघन्यायां स्थितौ सर्वस्तोकान्यनुभागबन्धस्थानानि ततः समयाधिकायांजघन्यस्थितौ असंख्येयगुणानि। त