________________ बंधण 1206 - अभिधानराजेन्द्रः - भाग 5 बंधण मेकस्मिन् द्वयोद्विगुणहान्योर्वाऽपान्तराले यानि स्थानानि तेभ्योऽसंख्येयगुणानि स्थावरकायिकानां द्विगुणवृद्धिद्विगुण हान्यन्तराणि / इह त्रसजीवेषु द्विगुणवृद्धिंद्विगुणहान्यन्तराणि स्तोकानि एकस्मिन् द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वा ऽपान्तराले यानि स्थानानि तान्यसंख्येयगुणानि; एवं त्रसानाम्। स्थावराणा पुनर्रयोगुिणवृद्धयोर्द्धिगुणहान्योर्वा एकस्मिन्नपान्तराले यानि स्थानानि तानि स्तोकानि, द्विगुण वृद्धिगुणहान्यन्तराणि पुनरसंख्येयगुणानि॥४८॥ कृता वृद्धिप्ररुपणा / / सम्प्रति यवमध्यप्ररुपणा क्रियते यवमध्य स्थानानि अष्टसामयिकानि शेषस्थानापेक्षयाऽसंख्येयभाग मात्राणि। तथा यवमध्यस्याऽधस्तनानि स्थानानि स्तोकानि / ततो यवमध्यस्योपरितनानि असंख्येयगुणानि। उक्तं च "जवमज्झ ठाणाई, असंखभागो उसेसठाणाण / हेडम्मिहों दि थोवा, उवरिम्मि असंखगुणियाणि // 1 // " कृता यवमध्यप्ररुणा। सम्प्रति स्पर्शनाप्ररुपणामाहफासणकालो तीए, थोवो उक्कोसगे जहन्ने उ। होइ असंखेज्जगुणो, य उ कंडगे तत्तिओ चेव // 46 / / जवमज्झकंडगोवरि, हेट्ठो जवमज्झओ असंखगुणो। कमसो जवमज्झुवरिं, कंडगहेट्ठा य तावइओ // 50 // जवमज्झुवरि विसेसो, कंडगहेट्ठाय सव्वहिं चेव। जीवप्पाबहुमेवं, अज्झवसाणेसु जाणेज्जा / / 51 / / (फासणे ति) अतीते काले एकस्य जीवस्योत्कृष्ट द्वे सामयिके इत्यर्थः / अनुभागबन्धस्थाने स्पर्शनाकालः स्तोकः / अतीते काले परिभ्रमता जन्तुना द्विसामयिकान्यनुभागबन्ध स्थानानि स्तोकमेव कालं स्पृष्टानीत्यर्थः / जघन्ये पुनरनुभागबन्धस्थाने प्राथमिकेषुचतुःसामयिकेष्वित्यर्थः अतीते काले स्पर्शनाकालोऽसंख्येयगुणः। (कंडगे तत्तिओ चेव) कण्डकमुपरितनानि चतुःसामयिकानि स्थानानि तेषु तावन्मात्राः स्पर्शनाकालो यावन्मात्रा आद्येषु चतुःसामयिकेषु / ततो यवमध्येषु स्थानेषु अष्टसामयिकेष्वित्यर्थः। स्पर्शनाकालोऽसंख्येयलगुणः / ततः कण्ड-कस्योपरिवर्तिचतुः सामयिकस्थान- संघातरुपस्योपरितनेषु त्रिसामयिकेष्वित्यर्थः / स्पर्शनाकालोऽसंख्येयगुणः। ततो यवमध्यस्याऽधस्तात् पचषट्सप्तसामयिकेष्वसंख्येयगुणः स्वस्थाने तु परस्परं तुल्यः / ततः क्रमशः क्रमेण यवमध्यादुपरितनेषु कण्डकाचतुःसामयिकस्थानसंघातरुपाद धस्तनेषु पञ्चषट्सप्तसामयिकेषु स्थानेषु तावन्मात्र एव स्पर्शनाकालोयावन्मात्राः पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु, ततो यवमध्यस्योपरितनेषु सामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकालः स विशेषाधिकः। ततोऽपि कण्डकस्य यवमध्यस्योपरिवर्तिचतुः सामयिकस्थानसंघातरूपस्याऽ धस्तात् सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकालः समुदितो विशेषाऽधिकः। ततोऽपि ससर्वेष्वपि स्थानेषु स्पर्शनकालो विशेषाधिकः / कृता स्पर्शनाप्ररुपणा।। सम्प्रत्यल्पबहुत्वप्ररूपणामाह-जीवप्पाबहु इत्यादि। यथा स्पर्शनाकालस्थाऽल्पबहुत्वमुक्तम्, एवं जीवानामपि अध्यवसानेषु अनुभागबन्धस्थाननिमित्तभूतेषु वर्तमानानामल्पबहुत्वं जानीयात् / तद्यथा उत्कृष्टदध्यवसानेषु द्विसामयिकानुभागनिबन्धनभूतेषु वर्तमाना जीवाः स्तोकाः। ततो जघन्येषु चतुः सामयिकानुभागबन्धनिबन्धनभूतेष्व संख्येयगुणाः / एतावन्त एव चोपरिवर्तिचतुःसामयिकाऽनुभाग बन्धस्थाननिबन्धनेष्वध्यवसानेषु / ततोऽपि यत्रमध्यकल्पाऽनुभागबन्धस्थाननिबन्धनेष्वसंख्येयगुणाः। ततोऽपि त्रिसामयिकानुभागबन्धस्थाननिमित्तेष्वसंख्येयगुणाः / ततोऽप्याद्यपञ्चषट्सप्तसामयिकानुभागबन्धस्थानहेतुष्वध्यवसानेषु, असंख्येयगुणाः। एतावन्त एवोपरितनपञ्चषट्सप्तसामयिकानुभागबन्धस्थानानिबन्धनेष्वध्यवसानेषु ततो यवमध्योपरिवर्तिनिः शेषानुभागबन्धस्थाननिबन्धनभूतेष्वध्यवसानेषु वर्तमाना जीवा विशेषाधिकाः / ततोऽपि सर्वेऽपि अनुभागबन्धस्थाननिबन्धनेषु विशेषाधिकाः / इति / / / 46 // 50 // 51 / / तदेवमनुभागबन्धस्थानेषु तन्निबन्धनेषु चाध्यवसानेषु यथा जीवा वर्तन्ते, तथा प्ररुपणा कृता। सम्प्रत्येककस्मिन् स्थितिस्थानाध्यवसाये नानाजीवाऽपेक्षया कियन्तोऽनुभागबन्धाऽध्यवसायाः प्राप्यन्ते इति तन्निरुपणार्थमाहएक्के कम्मि कसायो-दयम्मि लोगा असंखिया होति। ठिइबन्धट्ठाणेसु वि, अज्झवसाणाण ठाणाणि // 52 // (एकेकम्मि त्ति) एकैकस्मिन् कषायोदये स्थितिस्थाननिबन्धनभूते नानाजीवापेक्षयाऽनुभागबन्धाऽध्यवसाय स्थानानि 'कृष्णाऽऽदिलेश्यापरिणामविशेषरुपाणि सकाषायोदया हि कृष्णाऽऽदिलेश्यापरिणामविशेषा अनुभागबन्धहेतवः" इति वचनात् असंख्येया लोका भवन्ति, असंख्येयलोकाऽऽकाश प्रदेशाप्रमाणानि भवन्तीत्यर्थः / तथा जघन्यस्थितेरारभ्योत्कृष्टां स्थितिं यावद्यावन्तः समयास्तावन्ति स्थितिस्थानानि / तथाहि-जघन्या स्थितिरेकं स्थितिस्थानम् / सैव समयोत्तरा द्वितीयं स्थितिस्थानम्। द्विसमयोत्तरा तृतीयं स्थितिस्थानम् / एवं समयवृद्धया तावद्वाच्यं यावदुत्कृष्टा स्थितिः। एवं चाऽसंख्येयानि स्थितिस्थानानि भवन्ति। तेषु चाऽसंख्येयेषु स्थितिबन्धस्थानेषु प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि तीव्रतीव्रतरमन्दमन्द तराऽऽदिकषायोदयविशेषरुपाणि असंख्येयलोकाऽऽकाशप्रदेश प्रमाणानि भवन्ति / 52|| सम्प्रत्यनुभागबन्धाऽध्यवसायस्थानानां वृद्धिमार्गणा क्रियते। सा द्विधा-अनन्तरोपनिधया परम्परोपनिधया च। तत्राऽनन्त रोपनिधया तावद् वृद्धिमार्गणां चिकीर्षुराहथोवाणि कसाउदये, अज्झवसाणाणि सव्वडहरम्मि। विइयाइ विसेसहिया-णि जाव उक्कोसगं ठाणं // 53 // (थोवाणि त्ति) (सव्वडहरम्भि त्ति) सर्वजघन्ये कषायोदये स्थितिबन्धहेतावनुभागबन्धाऽध्यवसायस्थानानि कृष्णाऽऽदि लेश्यापरिणामविशेषरुपाणि स्तोकानि। ततो द्वितीयाऽऽदौ यथोत्तरं विशेषाधिकानि तावद्वाच्यानि यावदुत्कृष्ट स्थितिबन्धाऽध्यवसायस्थानम्। एतदुक्तं भवति-द्वि