________________ बंधण 1205 - अभिधानराजेन्द्रः - भाग 5 बंधण (थावरे त्ति) एकैकस्मिन् स्थावराणां बन्धं प्रति प्रायोग्येऽनुभाग बन्धस्थानेऽनन्ताः स्थावरजीवाबन्धकत्वेन प्राप्यन्ते। असप्रायोग्ये चैकैकस्मिन्ननुभागबन्धस्थाने जघन्येनैको द्वौ बोत्कर्षतोऽसंख्ययाः-भावलि- | काया असंख्येयभागमात्रामसजीवाः प्राप्यन्ते / / साम्प्रतमनन्तर स्थानप्ररुपणामाह - (लोगासिमेत्यादि) एषां त्रसजीवानामसंख्येया लोका असंख्येयलोकाऽऽकाश प्रदेशप्रमाणानि अनुभागबन्धस्थानानि अनन्तरम्। एतावन्ति बन्धं नाऽऽयान्तीत्यर्थः / इदमुक्तं भवति-त्रसप्रायोग्यानियानि स्थानानि त्रासजीवानां बन्धं नाऽऽयान्ति, तानिजघन्यपदे एक द्वे वा उत्कर्षतोऽसंख्येयलोकाऽऽकाश प्रदेशप्रमाणानि भवन्ति। अथ स्थावरे स्थावरप्रायोग्येषु स्थानेषु अन्तरं न विद्यते सर्वाण्यपि स्थावरप्रायोग्याणि स्थानानि सर्वदैव स्थावरजीवैर्वध्यमानानि प्राप्यन्त इत्यर्थः / कथमेवं गम्यत इति चेदुच्यते इह स्थावरजीवा अनन्ताः स्थावराणां बन्ध प्रति प्रायोग्यानिचस्थानानि पुनरसंख्येयानिततोऽन्तरं न प्राप्यन्ते॥४५॥ सम्प्रति निरन्तरस्थानप्ररुपणार्थमाहआवलिअसंखभागो, तसा निरंतर अहेगठाणम्मि। नाणाजीवा एवइ-कालं एगिंदिया निचं / / 45 / / (आवलि त्ति) अत्रा तृतीयार्थे प्रथमा / बन्धमाश्रित्य त्रसजीवैर्निरन्तराणि / किमुक्तं भवति?-त्रासजीवैर्निरन्तरं बध्यमानानि अनुभागबन्धस्थानानि जघन्येन द्वे त्रीणि वा प्राप्यन्ते, उत्कर्षते आवलिकाया असंख्येयभागमात्राणि / कथमेतदवसेयमिति चेदुच्यते-स्तोकासजीवाः स्थानानि पुनरसप्रायोग्याणि असंख्येयानि, ततो न सर्वाणि सजीवैः क्रमेण निरन्तर बध्यमानानि प्राप्यन्ते, किं तूत्कर्षतोऽपि यथोक्तप्रमाणान्येव / सम्प्रति नानाजीवकालप्ररुपणार्थमाह (अहेगठाणम्मीत्यादि) एकैकमनुभागबन्धस्थानं नानाजी वैर्बध्यमानं कियन्तं कालं यावदविरहित प्राप्यते? इति प्रश्ने सति, उत्तरं दीयते-ासप्रायोग्ये एकैकस्मिअनुभागबन्ध स्थाने नानारुपास्त्रसाजीवा जघन्येनैकं समयम्, उत्कर्षतः (एवइकालं ति) एतावन्तं कालं पूर्वोक्त स्वरुपमावलिकाया असंख्येयभागमात्रां कालं यावदित्यर्थः / निरन्तरंबन्धकत्वेन प्राप्यन्ते। परतोऽवश्यं तद्वन्धशून्यं भवतीत्यर्थः / इयमत्रा भावना-एकैकी असप्रायोग्यमनुभागबन्धस्थानमन्यैरन्यैश्च त्रासजीवैर्निरन्तरंबध्यमानंजघन्येनैकं समयं द्वौ वा समयौ यावत्प्राप्यते। उतकर्षत स्त्वावलिकाया असंख्येयभागमात्र कालम् / (एगिंदिया निचं त्ति) स्थावरप्रायोग्य एकैकस्मिन्ननुभाग बन्धस्थाने नानाविधा एकेन्द्रिया नित्यंसर्वकालमविरहितं बन्धकत्वेन प्राप्यन्ते, नकदाचनाऽपि तद्वन्धनशून्यं भवतीत्यर्थः / अत्रापीय भावना एकैकं स्थावरप्रायोग्य मनुभागबन्धस्थान मन्यैरन्यैश्च स्थावरजीबैनिरन्तरं बध्यमानं सर्वकालमवाप्यते, न तु कदाचनाऽपि बन्धरहितं भवतीति / / 45 / / तदेवं कृता नानाजीवानाश्रित्य कालप्ररुपणा। संप्रति वृद्धिप्ररुपणाऽवसरः। तत्रा च द्वे अनुयोगद्वारे। तद्यथा-अनन्तरोपनिधा, परम्परोपनिधा च। तत्राऽनन्तरोपनिधामाह - भाव, जहन्नठाणे, जा जवमझं विसेसओ अहिया। एत्तो हीणा उको-सगं त्ति जीवा अणंतरओ // 46 // (थोव त्ति) जघन्येऽनुभागबन्धस्थाने बन्धकत्वेन वर्तमाना जीवाः सर्वस्तोकाः। ततो द्वितीयेऽनुभागबन्धस्थाने विशेषाधिकाः / ततोऽपि तृतीयेऽनुभागबन्धस्थाने विशेषाधिकाः। एवं तावद्वाच्य यावद यवमध्य सर्वमध्यं, सर्वमध्यान्यष्टसामयिकानीत्यर्थः / इत ऊर्ध्व पुनर्जीवा अनन्तरतः-आनन्तर्येण, क्रमेणेत्यर्थः / विशेषतो हीना विशेषहीना वक्तव्याः / ते च तावद् यावदुत्कृष्ट द्विसामयिक स्थानमिति / / / 46 // गताऽनन्तरोपनिधा। परम्परोपनिधामाह - गंतूणमसंखेने, लोगे दुगुणाणि जाव जवमज्झं। एत्तो य दुगुणहीणा, एवं उक्कोसगं जाव।।४६।। (गतूणमिति) जघन्याऽनुभागबन्धस्थानबन्धकेभ्यो जीवेभ्योजघन्यानुभागबन्धस्थानादारभ्याऽसंख्येयलोका ऽऽकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुभागबन्धस्थानंतद्वन्धका जीवा द्विगुणा वद्धा भवन्ति / ततः पुनरपि तावन्ति स्थानान्यतिक्रम्याऽपरस्यानुभाग बन्ध स्थान स्य बन्धका द्विगुणवृद्धा भवन्ति / एवं द्विगुणवृद्धिस्तावद्वक्तव्या यावावमध्यम्। ततोऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्याऽपरस्यानुभागबन्धस्थानस्य ये बन्धका जीवास्तेऽनन्तरमुक्तेभ्यो जीवेभ्यः सकाशात् द्विगुणहीना भवन्ति ततः पुनरपि तावन्ति स्थानान्यतिक्रम्याऽपरस्यऽनु भागबन्धस्थानस्य बन्धका द्विगुणहीना भवन्ति। एवं द्विगुणहानिस्तावद्वक्तव्या यावत्स्वस्वप्रायोग्यं सर्वोत्कृष्टमनु भागबन्धस्थानमिति // 47 // नाणंतराणि आवलि-य(अ) संखभागो तसेसु इयरेसुं। एगंतरा असंखिय-गुणाइँ ठाणंतराइं तु // 48 // (नाणंतराणीति) नानाऽन्तराणिनानाप्रकाराणि द्विगुण वृद्धिद्विगुणहान्यपान्तरालरुपाणि यानि तानि सेषुत्रसकायेषु आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति / ननु आवलिकाया असंख्येय भागमात्राण्येवानुभागबन्धस्थानानि त्रासजीवैर्निरन्तरं बध्यमानानि प्राप्यन्ते, एतच प्रागेवोक्तम् / तत्कथं ासेषु द्विगुणवृद्धिद्धिगुणहान्यन्तराणि यथोक्तप्रमाणानि भवन्ति। एवं ह्येकाऽपि द्विगुणवृद्धिर्द्विगुणहानिर्वा न प्रापोतीति भावः / नैष दोषः, यतः प्रागावलिकाऽसंख्येयभागमात्राणि त्रसजीवैर्निरन्तरं बध्यमानतया प्राप्यमाणान्युक्तानि / इह तु यद्यप्यावलिकाया असंख्येयभागमात्रेभ्यः स्थानेभ्यः पराणि स्थानानिबध्यमानानि सम्प्रति न प्राप्यन्ते, तथाऽपि कदाचित्प्राप्यन्ते। तेषु च जीवा उत्कृष्टपदे क्रमेण विशेषाधिका लभ्यन्ते। ततो यथोक्तप्रमाणानि द्विगुणवृद्धिद्विगुणहानि स्थानानि न विरुध्यन्ते। तथा इतरेषु स्थावरेषु एकस्मादन्तरात्त्रासकायसत्कादसंख्येयगुणानि नानारुपाण्यन्तराणि भवन्ति। किमुक्तं भवति? त्रासकायिकाना