________________ बंधण 1204 - अभिधानराजेन्द्रः - भाग 5 बंधण नानि प्राप्यन्ते / तदनन्तरं त्वनन्तगुणवृद्धमेव स्थानं भवति, नत्यसंख्येयगुणवृद्धम्। प्रथमाचाऽनन्तगुणवृद्धात् स्थानादाक् असंख्येयगुणवृद्धस्थानाऽपेक्षया संख्येयगुण वृद्धानि स्थानानि चिन्त्यन्ते। नतत उर्ध्वमपि। तेनोपर्वकस्वेक्ष कण्डकल्याऽथिकस्य प्रक्षेपः / एवं संख्येयभागवृद्धाऽदीनामपि स्थाज्ञानामसंख्येयगुणत्वे गुणकारभावना द्रष्टव्या। तदेवं कृता ऽनन्तरोपनिधयाऽल्पबहुत्व प्ररूपणा।। संप्रति परम्परोधनिधया तां कुर्वन्नाह- (तव्विवरीयनयरओ त्ति) इतस्तः- इतरस्यां परम्परोपनिधायां तद्विपरीत येन कमेणोक्तननन्तरोपनिधायां तद्विपरीतं द्रष्टव्यम् / इहाऽऽदित आरभ्य वक्तव्यमित्यर्थः / तथाहि-सर्वस्तोकानि अनन्तभागवृद्धानि स्थानानि यस्मादाद्यानुभागबन्धस्थानादारभ्यानन्तभागवृद्धानि स्थानानि कण्डकमात्राण्येव प्राप्यन्ते, नाधिकानि। तेभ्योऽप्यसंख्येयभागवृद्धानि स्थानानि असंख्येयगुणानि / कथमिति चेद् उच्यते अनन्तभागवृद्धकण्ड-कादुपरितनं प्रथममसंख्येयभागवृद्धं स्थानं यदि पाश्चात्य-कण्डकसत्कचरमस्थानाऽपेक्षयाऽसंख्येयेन भागेनाऽधिकं, तत उपरितनमनन्तभागवृद्धं स्थानं तदपेक्षया सुतरामसंख्येयभागवृद्धं भवति / अनन्तभागवृद्ध हि तत्प्रथमाऽसंख्येयभागवृद्धस्थाना पेक्षया / अनन्तभागवृद्धकण्डकसत्कचरमस्थानापेक्षयात्वसंख्येयभागाधिकमेव। तत उपरितनानि स्थानानि विशेषतो विशेषतरतोऽसंख्येयभागाधिकानि तावद् द्रष्टव्यानि यावत्संख्येयभागाधिक स्थानं न भवति। तदेवं यतः प्रथमा-दसंख्येयभागवृद्धात्स्थानादारभ्य प्रथमात् संख्येयभागवृद्धात् स्थानादगपान्तराले यानि स्थानानि तानि सर्वाण्यप्य-संख्येयभागवृद्धानि प्राप्यन्ते। तस्मादनन्तभागवृद्धेभ्यः स्थानेभ्योऽसंख्येयभाग वृद्धानि स्थानाव्यसंख्येयगुणानि भवन्ति, तेभ्योऽपि संख्येयभागवृद्धानि स्थानानि संख्येयगुणानि / कुल एत वसीयत इति चेदुच्यते-प्रथमे संख्येयभागवृद्ध स्थाने पाश्चात्यमनन्तर स्थानमधिकृत्य संख्येयभागवृद्धिः प्राप्यते। यद्यपि प्रथमेऽपि संख्येयभागवृद्धे स्थाने संख्येयभागवृद्धिः प्राप्ता, तर्हि ततः प्रथमात्र स्थानादुत्तरेषामनन्तभागवृद्धाऽसंख्येयभागवृद्धानां स्थानानां सुतरां संख्येयभागवृद्धिर्भवति। यतोऽनन्तभागवृद्धिर संख्येयभागवृद्धिर्वापूर्वपूर्वा (न)न्तरस्थानापेक्षया। प्रथमसंख्येय भागवृद्धात्पुनः प्राक्तनमनन्तरं स्थानमधिकृत्य सर्वाण्यप्यनन्तभावृद्धानि। असंख्येयभागवृद्धानि च स्थानानि यथोत्तरं सविशेषविशेषतरं संख्येयभागवृद्धानि भवन्तिा सविशेषतरसंख्येयभागवृद्धिश्च तावद्वक्तव्या यावन्मौलं / द्वितीयं संख्येयभागाधिक स्थानं न भवति। द्वितीय मौलं संख्येयभागाधिकं स्थानं द्वाभ्या साऽतिरेकाभ्यां संख्येयभागाभ्यामधिकमवनन्तव्यम्। तृतीय त्रिभिः साऽतिरेकैः। चतुर्थ चतुर्भिः साऽतिरेकैः / एवंतावद्वाच्यं यावदुत्वृष्टसंख्येयतुल्याभ्यन्तराऽन्तराभावीनि मौखानि संख्येयभागवृद्धानि यथानानि भवन्ति। एतावन्ति चा ऽन्तराले यावन्ति स्थानानि तावन्ति सर्वाण्यपि संख्येयभागवृद्धानि स्थानानि, किं त्वेकेन सर्वान्तिमेन स्थानेन न्यूनानि द्रष्टव्यानि। यत उत्कृष्टसंख्यातमसंख्येयभागवृद्ध स्थानं संख्येयगुणंभवति। (द्विगुणत्वात्).ततस्तत्परित्यज्यते। तोह यावन्ति असंख्येय भागवृद्धानि स्थानान्यनन्तरमुक्तानि तावन्ति एकैकस्मिन्नन्तराऽन्तराभाविना संख्येयभागकृद्धाना स्थानानामन्तरे वाप्यन्ते / तानि चाऽन्तराऽन्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि प्रस्तुतचिन्तायामुत्कृष्टसंख्यातक तुल्यानि गृह्यन्ते। केवलं तदेवैकं सर्वान्तिम संख्येयभागवृद्धं परित्यजन्ते। ततोऽसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयभागवृतानि स्थानानि संख्येयगुणान्येव भवन्ति / तेभ्योऽपि संख्येयगुणवृद्धानि स्थानानि संख्येयगुणानि / कथमिति चेत? उच्यतेप्रथमात्संख्येयभागवृद्धात् स्थानात् प्राक्तनं यदनन्तरं स्थानं तदधिकृत्योत्तराणि अन्तराऽन्तराभावीनि मौलानि संख्येवभागवृद्धानि स्थानानि उत्कृष्टसंख्यातकतुल्यानि गत्वा चरमं स्थानं द्विगुणं सधिकमुपलब्धम्। ततः पुनरपि तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेक त्रिगुणम्, एवमेव चतुर्गुणम्। एवं तावद्वाचं यावदुत्कष्टसंख्येगुणं भवति। ततः पुनरप्यत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृद्ध भवति, तजघन्याऽसंख्येयगुणं भवति। तस्मात्संख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि संख्येयगुणान्येव भवन्ति। तथा चाऽऽह (संखज़क्खेसु संखगुण) संख्येयाऽऽख्येषु संख्येयभागवृद्धसंख्येयगुणरुपेषु स्थानेषु संख्येयगुणं सख्येयगुणता वक्तव्या। तेभ्योऽपि संख्येयगुणवृद्धेभ्यः स्थाने भ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि। कथमिति चेद्? उच्यते इह यतः प्रागुक्तादनन्तराद् जघन्याऽसंख्येयगुणात् स्थानात् पराणि सर्वाण्यप्यनन्तभागवृद्धाऽसंख्येभागवृद्धसंख्येयभागवृद्ध संख्येयगुणवृद्धाऽसंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि प्राप्यन्ते, ततः संख्येयगुणवृद्धेभ्यः स्थानेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि भवन्ति। तेभ्योऽप्यनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि / कथमिति चेद्उच्यते-इह प्रथमादनन्तगुणवृद्धात् स्थानादारभ्य यावत् षट्स्थानकपरिसमाप्तिस्तावत् सर्वाण्यपिस्थानानि अनन्तगुणवृद्धानि। तथाहि-यदि प्रथमभनन्तगुणवृद्ध स्थान पाश्चात्यमनन्तरस्थानमधिकृत्याऽनन्तगुणाधिकं जातम्। तत उत्तराणि अनन्तभागवृद्धाऽऽदीनि स्थानानि तदपेक्षया सुतरामनन्तगुणवृद्धानि भवन्ति। यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्ति एकैकस्मिन्ननन्तगुण वृद्धानामन्तराऽन्तराभाविनां स्थानानामन्तरे भवन्ति / कण्डकमात्राणि च तान्यन्तराणि / ततः प्रागुक्तेभ्योऽसंख्येयगुणवृद्धेभ्यः स्थानेभ्योऽनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि भवन्ति इति // 43 // तदेवं कृता-ऽल्पबहुत्वप्ररुपणा। तत्करणाचौक्तान्यनुभागवन्ध स्थानानि। साम्प्रतमेतेष्वनुभागबन्धस्थानेषु निष्पादकत्वेन यथा जीवा धर्तन्ते तथा प्ररुपणा कर्तव्या / तत्र चाऽष्टावनुत्योगद्वाराणि। तद्यथा-एकैकस्मिन् स्थाने जीवप्रमाणप्ररुपणा 1, अन्तरस्थानप्ररुपणा 2, निरन्तरस्थानप्ररुपणा 3 नानाजीवकालप्रमाणप्ररुपणा 4, वृद्धिप्ररुपणा 5, यवमध्यप्ररुपणा 6, स्पर्शनाप्ररुपणा७, अल्पबहुत्वप्ररुपणा 8 च। तत्रा प्रथमत एकैकस्मिन् स्थाने नानाजीवप्रमाण-प्ररुपणार्थमाह - थावरजीवाऽणंता, एक्कक्के तसजिया असंखेजा। लोगा सिमसंखेज्जा, अंतरमह थावरे नत्थि॥४४||