________________ बंधण 1203 - अभिधानराजेन्द्रः - भाग 5 बंधण च प्राप्यन्ते। अष्टसामयिकानि चोपलक्षणं, तेनाऽऽद्यानि चतुः सामयिकानि सर्वान्तिमानि च द्विसामयिकानि वर्जयित्वा शेषाणि सर्वाण्यपि पञ्च सामयिकाऽऽदीनि प्रत्येकमुक्तप्रकारेणा ऽनन्तगुणवृद्धावनन्तगुणहानौ च वेदितव्यानि। आद्यानि पुनः चतुः सामयिकान्यनन्तगुणहानावेव / तथाहि-पञ्चसामयिकमाद्यमनु भागबन्धस्थानं चतुःसामयिकचरमाऽनुभागबन्धस्थाना पेक्षयाऽनन्तगुणवृद्धम्। ततस्तदपेक्षया पाश्चात्यानि चतुः सामयिकानि रार्वाण्यप्यनुभागबन्धस्थानान्यनन्तगुण हानावेव प्राप्यन्ते, द्विसामयिकानित्वनन्त गुणवृद्धावेव। तथाहि-त्रिसामयिकानां चरमादनुभागबन्धस्थानादाद्यं। द्विसामयिकमनु भागबन्धस्थानमनन्तगुणवृद्ध, ततस्तदपेक्षया सर्वाण्यप्यनन्त गुणवृद्धान्येव / कृता यवमध्यप्ररूपणा / साम्प्रतं चतुःसामयिका ऽऽदीनां स्थानानामल्प बहुत्वमाह - (थोवाणीत्यादि) सर्वस्तोकानि यवमध्यभूतानि अष्टसामयिकानि स्थानानि / अतिचिरबन्धकालयोग्यानि हिस्थानानि स्तोकान्येव प्राप्यन्ते इति कृत्वा तेभ्योऽसंख्येयगुणानि पूर्वोत्तरलक्षणोभयपार्श्ववर्तीनि सप्तसामयिकानि अल्पतरबन्धकालविषयत्वात्। स्वस्थाने तुद्रयान्यपि परस्परंतुल्यानि। तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनिषट्सामयिकानि स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि ! तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि पञ्चसामयिकानि / स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि। तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववतीनि चतुःसामयिकानि / स्वस्थाने तु द्वयान्यपि परस्परं तुल्यानि तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि। तेभ्योऽप्यसंख्येयगुणानि द्विसामयिकानि। (दोसु पासेसु त्ति) अष्टसामयिकेभ्योऽनन्तरं द्वयोः पार्श्वयोः क्रमशःक्रमेण समयोनानि समयोनानि सप्त सामयिकाऽऽदीनि स्थानानि असंख्येयगुणानि तायद्वक्तव्यानि यावच्चतुःसामयिकानि। तेभ्य उपरि च त्रिसामयिकानि द्विसामयिकानि च क्रमशोऽसंख्येयगुणानि वक्तव्यानीति गाथाऽर्थः / / 4 / / संप्रति सर्वेषामेवाऽनुभागबन्धस्थानानां समुदायमधिकृत्य विशेषसंख्यानिरुपणार्थमाहसुहुमगणिपवेसणया, अगणिकाया य तेसि कायठिई। कमसो असंखगुणिया-ण (अ) ज्झवसाणाणि चऽणुणभागे 41 (सुहुम ति) सूक्ष्माऽनौ-सूक्ष्माग्निकाये प्रवेशनमुत्पादो येषां ते सूक्ष्माग्निप्रवेशनकाः। तथाऽग्निकाया-अग्निकायत्वे नाऽवस्थिताः। तथा तेषामनिकायानां कायस्थितिः कायस्थितिकालः। एते क्रमशः-क्रमेणाऽसंख्येयगुणिताः / तथा ऽनुभागे-अनुभागविषयेऽध्यवसानानि, कार्य कारणोपचारादध्यवसायनिवानियान्यनुभागबन्धस्थानानि, तान्यसंख्येयगुणानि / उक्तं च - "सुहुमगणिं पविसंता, चिट्टता तेसि कायठिइकालो। कमसो असंखगुणिओं, तत्तो अणुभागठाणाई।।१।।" इयमत्र भावना-ये एकस्मिन् समये सूक्ष्माऽग्रिकायेषु मध्ये प्रविशन्तिउत्पद्यन्ते ते स्तोकाः, ते चाऽसंख्येयलोकाऽऽकाश प्रदेशप्रमाणाः / तेभ्योऽपि येऽग्निकायत्वेनावतिष्ठन्ते तेऽसंख्येयगुणाः तेभ्योऽप्यग्नि कायस्थितिकालोऽसंख्येयगुणः। ततोऽप्यनुभागबन्ध स्थानान्यसंख्येयगुणानि / / 41 / / संप्रत्योजोयुग्मप्ररुपणाऽवसरः-तत्र ओजः-विषम, सम युग्मं तत्प्ररुपणा चैवम्-इह कश्चिद्विव क्षितो राशिः स्थाप्यते, तस्य कलिद्वापरस्रोताकृतयुग संज्ञैश्चतुर्भिर्भागो हियते। भागे च हते पति यद्येकः शेषो भवति तर्हि स राशिः पूर्वपुरुषपरिभाषया कल्योज उच्यते, यथा त्रयोदश / अथ द्वौ शेषौ तर्हि द्वापरयुग्मः, यथा चतुर्दश / अथ त्रयः शेषारततरबेतौजो, यथा पञ्चदश / यदा तु न किञ्चिदवतिष्ठते, कि तु सर्वाऽऽत्मना निर्लेप एव भवति, तदा स कृतयुगो, एथा षोडश। उक्तंच"चउदसदावग्जुम्मा, तेरस कलिओजतहयकङजुम्मा। सोलसतेओजो खलु, पन्नरसेव खु विन्नेया॥१॥" ||41 // तत्राऽविभागाऽऽदयो यादृगराशिरुपा वर्तन्ते तादृगराशिरुपमाहकडजुम्मा अविभागा, ठाणाणि य कंडगाणि अणुभागे। पज्जवसाणमणंतगु-णाओ उप्पिं न (अ) णं तगुणं / / 42 // (कडजुम्मे त्ति) अनुभागे-अनुभागविषयेऽविभाग स्थानानि कण्डकानि च कृतयुग्मानि कृतयुग्मराशिरुपाणि द्रष्टव्यानि। कृतौजोयुग्मप्ररुपणा।। सम्प्रति पर्यवसानद्वारमाह - ‘पजवसाणेत्यादि / ' अनन्तगुणाद्अनन्तगुणवृद्धि कण्डकादुपरि पञ्च-वृद्धयात्मकानि सर्वाणि स्थानानि गत्वा पुनरनन्तगुणवृद्धं स्थानं न प्राप्यते, षट् स्थानकस्य परिसमाप्तत्वात् / ततस्तदेवं सर्वाऽन्तिमं स्थानं षट्स्थानकस्य पर्यवसानमिति // 42 // सम्प्रत्यल्पबहुत्वप्ररुपणार्थमाह -- अप्पबहुमणंतरओ, असंखगुणियाणऽणंतगुणमाई। तविवरीयमियरओ, संखेज्जक्खेसु संखगुणं // 43 // (अप्पत्ति) इह द्विधाऽल्पबहुत्वप्ररुपणा-अनन्तरोपनिधया, परम्परोपनिधया चा तौकस्मिन्षट्स्थानकेऽन्ति मस्थानादारभ्य पश्चानुपूर्व्याऽनन्तरोपनिधया प्ररुपणा क्रियते-अनन्त-गुणान्यनन्तगुणवृद्धानि स्थानान्यादौ कृत्वा शेषाण्यसंख्येय-गुणितानि वक्तव्यानि। तद्यथासर्वस्तोकान्यनन्त गुणवृद्धानि स्थानानि, कण्डकमात्रात्यात्तेषाम् / तेभ्योऽसंख्येय गुणवृद्धानि / स्थानान्यसंख्येयगुणानि कोगुणकारः? भण्यते-कण्डकम्, एककण्डकप्रक्षेपश्च / कुत एतदवसीयत इति चेद्? उच्यते-इह यस्मादेकैकस्याऽनन्तगुणवृद्धस्य स्थानस्याऽधस्तादसंख्येयगुण वृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते / तेन कण्डकं गुणकारः / अनन्तगुणवृद्धस्थान कण्डकाचोपरि कण्डकमात्राण्यसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते, न त्वनन्तगुणवृद्धं स्थानं, तेनोपरितनकण्डकस्याधिकस्य तत्रा प्रक्षेपः। तेभ्योऽप्यसंख्येय गुणवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि / तेभ्योऽपि संख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि / तेभ्योऽप्यसंख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि। तेभ्योप्यसंख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि। तेभ्योऽप्यनन्तभागवृद्धानि स्थानान्यसंख्येयगुणानि। गुणकारश्च सर्वत्रापि कण्डकम् उपरिचैककण्डक प्रक्षेपः / तथाहिएकैकस्याऽसंख्येयगुणवृद्धस्य स्थानस्याऽधस्तात् संख्येयगुण वृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते। तेन कण्डकंगुणकारः। असंख्येयगुणवृद्धकण्डकाचोपरि कण्डकमात्राणि संख्येयगुणवृद्धानि स्था --