________________ बंधण 1202 - अभिधानराजेन्द्रः - भाग 5 बंधण ततो यद्यप्यनन्तगुणवृद्धात् स्थानादर्वाकृतनेषु स्थानेषु सर्वजीवप्रमाणेन राशिना स्पर्धकापेक्षया भागहारो न संभवति, तथाऽप्युत्तरेषु स्थानेष्वन्येष्वपि च द्वितीयाऽऽदिषु षट्स्थानेषु तथा सर्वेष्वपि संयमश्रेण्यादिगतेषु संभवतीति न कश्चिद् विरोधः, बाहुल्येन सर्वत्राऽपि संभवात्, "सर्वजीवप्रमाणेन राशिना भागो हियते'' इति वचनाच अनन्तगुणवृद्धात् स्थानादगिपि पूर्वस्थानेभ्य उत्तरोत्तरस्थानानां सर्वस्तोकाऽनन्तभागाऽधिकत्वमवसेयम् / यद्यपि च पूर्वपूर्वस्थानापेक्षयोत्तरोत्तरस्थानेषु किञ्चिद्धीनहीनतराः परमाणवः प्राप्यन्ते तथाऽपि स्तोकस्तोकतरैः परमाणुभिर्वर्गणाऽऽदीनां संभवादुक्तस्वरुपस्पर्धकबाहुल्यं न विवध्यते। तदेवमुक्ता षट्स्थानकप्ररुपणा / / साम्प्रतमधस्तन स्थानप्ररुपणा क्रियते-तका प्रथमादसंख्येयभागवृद्धात् स्थानादधः कियन्त्यनुभागबन्धस्थानान्यनन्तभागवृद्धानि? उच्यते-कण्डकमात्राणि / तथा प्रथमात्संख्येय-भागवृद्धात्स्थानात् अधः कियन्त्यसंख्येयभागवृद्धानि स्थानानि? उच्यते कण्डकमात्राणि / तथा प्रथमात्संख्येयगुणवृद्धात्स्थान्मदधः कियन्ति संख्येयभागवृद्धानि स्थानानि? उच्यते-कण्डकमात्राणि / तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि? उच्यते-कण्डकमात्राणि। तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्त्य संख्येयगुणवृद्धानि स्थानानि? उच्यते-कण्डकमात्राणि / इयमुत्तरोत्तरस्थानादधोऽधि आनन्तर्येण मार्गणा / इदानीमेकान्तरिता मार्गणा क्रियते तत्र प्रथमात्संख्येयभागवृद्धात् स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि? उच्यतेकण्डकवर्गः, कण्डकं च / तथा प्रथमात्संख्येयगुणवृद्धात् स्थानादधः कियन्त्यसंख्येयभाग वृद्धानि स्थानानि? उच्यते-कण्डकवर्गः, कण्डकंच / तथा प्रथमादसंख्येयगुणवृद्धात् स्थानादधः कियन्ति संख्येय-भागवृद्धानि स्थानानि? उच्यते-कण्डकवर्गः, कण्डकं च / तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः कियन्ति संख्येयगुणवृद्धानि स्थानानि? उच्यते-कण्डकवर्गः कण्डकं च। एवमुक्तप्रकारेण व्यन्तरिता त्र्यन्तरिता चतुरन्तरिता च मार्गणा स्वधिया परिभाषनीया / / 37 / / तदेवं कृताऽधस्तनस्थान प्ररुपणा। साम्प्रतं वृद्धिस्थानप्ररुपणा क्रियतेवुड्डी हाणी छक्कं, तम्हा दोण्हं पि अंतमिल्लाणं। अंतोमुत्तमावलि, असंखभागा उसेसाणं // 38 // (बुड्डि त्ति) इह जीवाः परिणतिविशेषतः कर्मपरमाणुष्वनु-भागस्य षद्धिधामुक्त स्वरुपां वृद्धि हानि वा कुर्वन्ति / तस्मात् कां वृद्धिं कियन्तं कालं यावत् कुर्वन्तीत्यवश्यं कालप्रमाणामभिधानीयम्। तत्र द्वयोवृद्धिहान्योरन्तिमयोरनन्तगुणवृद्धयनन्तगुणहानिरुपयोरन्तर्मुहूर्तमवगन्तव्यम्। किमुक्तं भवति? अन्तर्मुहूर्त कालं यावनिरन्तर जीवाः परिणामविशेषतः प्रतिसमयमनुभागान् पूर्वस्मात् पूर्वस्मादनन्त गुणवृद्धाननन्तगुणहीनान् वा बध्नन्तिा तथा शेषाणां पञ्चानामाद्यानं वृद्धीनां हानीनांवा आवलिकाया असंख्येयभागमात्रः कालो वेदितव्यः / इदमुक्तं भवति-अनुभागानामाद्याः पञ्च वृद्धीहानी, आवलियकाया असंख्येयभागमात्रां कालं यावन्निरन्तरं जीवाः परिणामविशेषतः कुर्वन्ति / एषा च हानिवृद्धिकालप्ररुपणोत्कर्षतोऽवगन्तव्या। जघन्यतस्तु म अपि वृद्धयो हानयो वा एक द्वौ वा समयौ यावदवगन्तव्याः // 38|| इदानीमेतेष्वुभागस्थानेषु बन्धमाश्रित्याऽवस्थाने कालमानमाह - चउराई जावट्ठग- मेत्तो जावं दुगं तिसमयाणं / ठाणाणं उक्कोसो, जहण्णओ सव्वहिं समओ // 36 / / (चउराइति) चत्वार आदिर्यस्याः सा चतुरादिः-वृद्धिः / सा च समयानामवस्थितकालनियामकानां तावद् द्रष्टव्या यावदष्टौ समयाः / इत ऊर्ध्व पुनः समयाना हानिर्वक्तव्या। सा च तावद्वक्तव्या यावत् द्विकम्। सा च वृद्धि निर्वा चतुशदिका स्थानानामनुभागबन्धस्थानानामुत्कर्षतो द्रष्टव्या। जघन्यतस्तु सर्वेषामपि समयः / इयमत्रा भावनायानि अनुभागबन्धस्थानानि जीवाः पुनः पुनस्तान्येव चतुरः समयान् यावद् बध्नन्ति तानि चतुः सामयिकानि। तानि च मूलादारभ्याऽसंख्येयलोकाऽऽकाशप्रदेशराशिप्रमाणानि भवन्ति / तेभ्य उपरितनानि स्थानानि पञ्चसामयिकानि तान्यप्यसंख्येयलोकाऽऽकाशप्रदेशराशि प्रमाणानि। तेभ्य उपरितनानि स्थानानि षट् सामयिकानि, तान्यप्यसंख्येयलोकाऽऽकाश प्रदेशराशिप्रमाणानि। तेभ्य उपरितनानि स्थानानि सप्तसामयिकानि, तान्यप्यसंख्येयलोकाऽऽकाशप्रदेशराशिप्रमाणानि। तेभ्य उपरितनान्यष्टसामयिकानि, तान्यप्यसंख्येयलोकाऽऽकाशप्रदेशराशिप्रमाणानि। तेभ्य उपरितनानि पुनः स्थानानि सप्त सामयिकानि, तान्यप्यसंख्येयलोकाऽऽकाशप्रदेशराशि प्रमाणानि / तेभ्य उपरितनानि षट् सामयिकानि, तान्यप्यसंख्येयलोकाऽऽकाशप्रदेशराशि प्रमाणानि, एवं तावद्वाच्यं यावद् द्विसामयिकानि॥३६॥ तदेवं कृता समयप्ररुपणा। इदानी यान्यनुभागबन्धस्थानानि अष्टसामयिकानि तानि यस्यां वृद्धौ हानौ वा प्राप्यन्ते तामाहदुसु जवमझं थोवा-णि अट्ठसमयाणि दोसु पासेसु / समऊणियाणि कमसो, असंखगुणियाणि उप्पिं च // 40 // (दुसुत्ति) द्वयोर्विकल्पयोरनन्त गुणवृद्धयनन्तगुणहानि-रुपयोर्यवमध्यं वति।यवस्य मध्यमिवयवमध्यमष्टसामयिका न्यनुभागबन्धस्थानानीत्यर्थः / यथा यवस्य मध्यं पृथुलमुभयतः पार्श्वे चहीने हीनतरे, तथाऽत्रापि कालतः पृथुलानि अष्टसामयिकानि अनुभागबन्धस्थानानि, उभयपार्श्ववर्तीनि च सप्तसामयिकाऽऽदीनि कालतो हीनानि हीनतराणि। ततोऽष्टसामायिकानि यक्स्य मध्यमिव यवमध्यम्, तानि च प्रथमादष्टसामयिकात् स्थानादारभ्य सर्वाण्यप्यसंख्येयलोकाऽकाशप्रदेशराशिप्रमाणानि अनन्तगुणवृद्धौ प्राप्यन्ते। सप्तसामयिकानां हि चरमादनुभागबन्धस्थानात् प्रथममष्ट सामयिक स्थानमनन्तगुणवृद्धम् / ततः शेषाण्यपि तदपेक्षयाऽ नन्तगुणवृद्धान्येव भवन्ति। तथाऽष्टसामयिकानां चरमादनुभाग बन्धस्थानादुपरितनं सप्तसामयिकं स्थानमनन्तगुणवृद्धम् / ततस्तदपेक्षया पाश्चात्यान्यष्टसामयिकान्यनुभागबन्धस्थानानि सर्वाण्यप्यनन्तगुणहीनान्येव भवन्ति / तदेवमष्टसामयिका न्यनन्तगुणवृद्धौ अनन्तगुणहानी