________________ बंधण 1201 - अभिधानराजेन्द्रः - भाग 5 बंधण (सटवे त्ति) आधासु तिसृषु वृद्धिष्वनन्ताऽसंख्येयसंख्येयानां भागो यथाकम सर्वजीवानामसंख्येयलोकाऽऽकाश प्रदेशानप्मुत्कृष्टस्य च संख्येयस्य द्रष्टव्यः / उत्तरासु च तिसृषु वृद्धिषु गुणनागुणकारोऽनन्ताऽसंख्येयसख्येयानां यथाक्रम मेतेषामेव सर्वजीवाऽऽदीनामवगन्तव्या। इदमुक्तं भवति-प्रथम स्याऽनुभागबन्धस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना भागे हृतेसति यल्लब्ध सोऽनन्तभाग इह ग्राह्यः / तेनाभ्यधिक द्वितीयमनुभागस्थानम्। तस्याऽपि सर्वजीवसंख्याप्रमाणेन राशिना भागे हते सति वल्लब्धतेनाभ्यधिकं तृतीयमनुभागबन्धस्थानम्। एवं यदयदनुभागबन्धस्थानमनन्तभागवृद्धमुपलभ्यते तत्तत्पाश्चात्यस्य पाश्चात्यस्याऽनुभाबन्धस्थानस्य सर्वजीवसंख्याप्रमाणेन राशिना भागे हते सति यल्लभ्यते तेन तेनाऽनन्ततमेन भागेनाऽभ्यधिकमवगन्तव्यम्।तथाऽसंख्येय-भागाधिकं नामपाश्चात्यस्याऽनुभागबन्धस्थानस्याऽसंख्येय लोकाऽऽकाशप्रदेशप्रामाणेन राशिना भागे हते सति यल्लभ्यते सोऽसंख्येयतमो भागः / तेनाऽसंख्येयतमेन भागेनाभ्यधिकम संख्येयभागाधिकं द्रष्टव्यम्।तथा संख्येयभागाधिकं नाम पाश्चात्यस्यानुभागबन्धस्थानस्य उत्कृष्टन संख्येयेन भागे हृते सति यल्लभ्यते स संख्येयतमो भागः। तेन संख्येयतमेन भागेनाभ्यधिकमवगन्तव्यम्। तथा संख्येयगुणवृद्ध नाम पाश्चात्यमनुभागबन्धस्थानमुत्कृष्टसंख्येयकप्रमाणेन राशिना गुण्यते / गुणिते च सति यावान् राशिर्भवति एतावत्प्रमाणमवगन्तव्यम्। तथाऽसंख्येयगुणवृद्ध नाम पाश्चात्यमनुभागबन्ध स्थानमसंख्येयलोकाऽऽकाशप्रदेशसंख्याप्रमाणेन राशिना गुण्यते / गुणिते च सति यावान् राशिर्भवति तावत्प्रमाणामवसेयम् / एवमनन्तगुणवृद्धमपि भावनीयम् / प्रथमस्य षट्स्थानकस्य परिसमाप्तौ सत्यामुपरि यदन्यदनुभागस्थानमु पजायतेऽनन्तभागवृद्धं तत् द्वितीयस्य षट्स्थानकस्य प्रथममवगन्तव्यम् / तदपि च द्वितीयं षट्स्थानकं पूर्वक्रमेण सकलमपि वक्तव्यम्। एवं शेषाण्यपिषट्स्थानकानि वक्तव्यानि। तानि च तावद्वत्कव्यानि यावदसंख्येयलोकाऽऽकाशप्रदेशराशिप्रमाणानि भवन्ति / तथा चाऽऽह-''छट्ठाणमसंखियालोगा।'' अा कश्चित्प्रश्नयति-ननु प्रथमानुभाग बन्धस्थानस्य सर्वजीवप्रमाणेन राशिना भागोऽपहियते किं रसाविभागापेक्षया,उतपरमाण्वपेक्षया, यद्वा स्पर्धका ऽपेक्षया? तत्रन तावदसाविभागापेक्षया, प्रथमस्थानात् द्वितीय स्थानेऽपि रसाऽविभागानां संख्येयाऽऽदिगुणनया प्राप्यमाणत्वात् / तथाहि- प्रथमे स्थाने प्रथमे स्पर्धक प्रथमवर्गणायामनन्ता अपि रसाऽविभागाः किलाऽसत्कल्पनया सप्त। ततो द्वितीयस्यां वर्गणायामष्टौ। तृतीयस्यां नव। चतुर्थ्यादश। इदमेकं स्पर्धकम्। इतऊध्यै त्वेकोत्तरवृद्धया रसाऽविभागान प्राप्यन्ते, किंतु सर्वजीवानन्तगुणाधिकाः ते च किलाऽसत्कल्पनया सप्तदश / एते / च द्वितीयस्य स्पर्धकस्य प्रथमवर्गणायाम्। ततो द्वितीयस्यां वर्गणायामष्टादश। तृतीयस्यामेकोनविंशतिः / चतुर्थ्यां विंशति। इदं द्वितीयं स्पर्धकम् / ततः पुनरप्यत ऊर्ध्वमेकोत्तरवृद्धया रसाऽविभागा न प्राप्यन्ते, किंतु सर्वजीवानन्तगुणाधिकाः। ते च किलाऽसत्कल्पनया सप्तविंशतिः।। एते च तृतीयरुप-स्पर्धकस्य प्रथमवर्गणायाम्। ततो द्वितीयस्यां वर्गणायानष्टाविंशतिः। तृतीयस्यामेकोनत्रिंशत्। चतुर्थ्या शित्। इदंतु तृतीय स्पर्धकम् / ततः पुनरप्यज्ञऊर्ध्वमेकोत्तरबृद्धया रसाऽविभागान प्राप्यन्ते, किं तु सर्वजीवानन्तगुणाभ्यधिकाः / ते च किलाऽसत्कल्पनया सप्तत्रिशत् / एते चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायाम् / ततो द्वितीयस्यां वर्गणायामष्टात्रिंशत्। तृतीयस्यामेकोनचत्वारिंशत्। चतु• चत्वारिशत् / इदं चतुर्थ स्पर्धकम् / एतानि च किलाऽसत्कल्पनया। प्रथममनुभागबन्ध स्थानम्। अाच रसाऽविभागः सर्वसंख्यया षट्सप्तत्यधिकानि त्रीणि शतानि / इत ऊर्ध्व त्वेकोत्तरवृद्धया रसाऽविभागा न प्राप्यन्ते, किंतु सर्वजीवानन्तगुणाभ्यधिकाः। ते च किलाऽसत्कल्पनया सप्तचत्वारिंशत्। एतेच द्वितीयस्य स्थानस्य प्रथमस्पर्धकस्य प्रथमवर्गणायाम् / ततो द्वितीयस्यां वर्गणायामष्टचत्वारिंशत्। तृतीय स्यामेकोनपश्चाशत्। चतुर्यो पञ्चाशत् / इदं द्वितीय स्थाने प्रथमं स्पर्धकम् / इत ऊर्ध्व त्वेकोत्तरवृद्धया रसाऽविभागान प्राप्यन्ते, किंतु सर्वजीवा-नन्तगुणाधिकाः ते च किलाऽसत्कल्पनया सप्तपञ्चाशत् / एते च द्वितीयस्थाने द्वितीयस्पर्धकस्य प्रथमवर्गणायाम् / ततो द्वितीयस्यां वर्गणायामष्टपञ्चाशत् / तृतीयस्या मेकोनषष्टिः चतुर्थ्या षष्टिः / इदं द्वितीयस्थाने द्वितीयं स्पर्धकम् / इत ऊर्ध्वमकोत्तरवृद्धया एसाविभागा न प्राप्यन्ते, किं तु सर्वजीवानन्तगुणाधिकाः / ते च किलाऽसत्कल्पनया सप्तषष्टिः / एते च द्वितीय स्थाने तृतीयस्य स्पर्धकस्य प्रथमवर्गणायाम् / ततो द्वितीयस्यां वर्गणायामष्टषष्टिः / तृतीयस्यामेकोनसप्ततिः / चतुर्थ्यां सप्ततिः / इदं द्वितीय स्थानेतृतीयं स्पर्धकम् / तत इतऊर्ध्वं पुनरप्येकोत्तरवृद्धया रसाऽविभागान प्राप्यन्ते, किं तु सर्वजीवाऽनन्तगुणाधिकाः / ते च किलाऽसत्कल्पनया सप्तसप्ततिः। (एते च द्वितीय स्थाने चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायाम) ततो द्वितीयस्यां वर्गणायामष्टसप्ततिः तृतीयस्यामेकोनाऽशीतिः / चतुर्थ्यामशीतिः इदं च द्वितीयस्थाने चतुर्थ स्पर्धकम् / एतानि च किलाऽसत्कल्पनया द्वितीयं स्थानम् / अत्रा च रसाऽविभागाः सर्वसख्यया षोडशाऽधिकं सहस्त्रम्। तदेवं प्रथमस्थानगतरसाऽविभागपेक्षया द्वितीयस्थाने रसाऽविभागाः संख्येयगुणाः प्राप्यन्ते / उत्तरस्मिन्नुत्तरस्मिंस्तु स्थाने पूर्वपूर्वस्थानाऽपेक्षया प्रभूताः प्रभूततमा इति न क्वापि रसाविभागाऽपेक्षया पूर्वस्थानादुत्तरस्य स्थानस्याऽनन्तभागाधिकत्वं प्राप्यते। नाऽपि परमाण्वपेक्षयाऽनन्त भागाधिकत्वसम्भवः, यतो यथा यथाऽनुभागोवर्धते तथा तथा पुद्गलाः स्तोकाः स्तोकतराः प्राप्यन्ते। ततः प्रथमस्थान-गतपरमाण्वपेक्षया द्वितीय स्थाने परमाणवः किञ्चिदूना एव भवन्ति नानन्तभागाधिकाः / एवमुत्तरेष्यपि स्थानेषु पूर्वपूर्वस्थानाऽपेक्षया हीनहीनतरपरमाणुत्यं द्रष्टव्यम् / नाऽपि स्पर्धकाऽपेक्षया प्रथमस्थानाऽऽदीना सर्वजीवप्रमाणेन राशिना भागाऽपहारः संभवति, प्रथमस्थानाऽऽदिगतस्पर्धकानामभव्याऽनन्तगुण सिद्धाऽनन्तभागकल्पत्तयऽतीव स्तोकत्वादिति / अत्रोच्यते- इयं हि षट्स्थानकप्ररुपणा सयम श्रेण्यादिगतसकलषटस्थानकव्यापकलक्षणतया प्ररुप्यते