________________ बंधण 1200 - अभिधानराजेन्द्रः - भाग 5 बंधण कम् / ततः पुनरपि कण्डकमात्राणि स्थानानि यथोत्तरमनन्त भागवृद्धानि / ततो भूयोऽप्येकमसंख्येयभागाधिक स्थानम् / एवमनन्तमधिकै : कण्डकप्रमाणैः स्थानैर्व्यवहितान्यसंख्येय भागाधिकानि स्थानानि तावद्वत्कटयानि यावत्तान्यपि कण्डकमात्राणि भवन्ति / कण्डकंच समयपरिभाषायाऽङ्गलमात्रक्षेत्राऽसंख्येयभागगतप्रदेशराशि संख्याप्रमाणमभिधीयते / ततश्चरमादसंख्येयभागाधिकात् स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि स्थानानिवाच्यानि / ततः संख्येयभागा धिकमेकं स्थानं वक्तव्यम्। ततो मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्ति पुनरपि तथैवाभिधाय पुनरप्येक संख्येयभागाधिक स्थानं वक्तव्यम् / अमूनि चैव संख्येयभागाधिकानि स्थानानि तावद्वत्कच्यानि यावत्कण्डकमात्राणि भवन्ति। तत उक्तक्रमेण भूयोऽपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकमेकं स्थानवक्तव्यम् / ततः पुनरपि मूलादारभ्य यावन्त्यनुभागबन्ध स्थानानि प्रागतिक्रान्तानि तावन्ति तथैव वाच्यानि। ततः पुनरप्येक संख्येयगुणाऽधिक स्थानं वक्तव्यम् / ततो भूयोऽपि मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्त्यनुभाग बन्धस्थानानि तथैव वक्तव्यानि / ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं वक्तव्यम्। अमून्यप्येवं संख्येयगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति / पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गे ऽसंख्येयगुणाधिक स्थानं वक्तव्यम्। ततः पुनरपि मूलादारभ्य यावन्त्यनुभागबन्ध स्थानानि प्रागतिक्रान्तानि तावन्ति तथैव पुनरपि वाच्यानि / ततः पुनरप्येकमसंख्येयगुणाऽधिकं स्थानं वक्तव्यम् / ततो भूयोऽपि मूलादारभ्य तावन्त्यनुभागबन्धस्थानानि वक्तव्यानि। ततः पुनरप्येकमसंख्येयगुणाधिकं स्थान वक्तव्यम्। अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति। ततः पूर्वपरिपाट्या पुनरप्यसंख्येय गुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिकं स्थानं वक्तव्यम् / ततः पुनरपि मूलादारभ्य यावन्त्यनुभागबन्ध स्थानानि प्रागभिहितानि तावन्ति पुनरपि तथैव वाच्यानि / ततो भूयोऽप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम् / ततो भूयोऽपि मूलादारभ्य तावन्ति स्थानानि तथैव वक्तव्यानि / ततः पुनरप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम्। एवमनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावन्कण्डकमात्राणि भवन्ति इति // 32 // इदानीं सूत्रममुश्रियतेएगं असंखभागे - णणंतभागुत्तरं पुणो कंडं / एवं असंखभागु-त्तराणि जा पुव्वतुल्लाणि // 33 // (एग ति) ततः-प्रथमात् कण्डकादुपरि एकमनुभाग बन्ध-स्थानम्। | (असंखभागेण) असंख्येयेन भागेनाऽधिकं द्रष्टव्यं पूर्वस्थानगतस्पर्धकापेक्षयाऽसंख्येयभागाधिकैः स्पर्धकैरधिकं द्रष्टव्यमित्यर्थः ततः पुनरप्यनन्तभागोत्तरं कण्डयथोत्तर मनन्त भागवृद्धानां स्थानानां कण्डकम् / ततः पुनरप्येकमसंख्येयभागाधिकं स्थानम् / एवमनन्तभागवृद्धकण्ड कव्यवहितान्यसंख्येयभागाधित नि स्थानानि तावद्वक्तव्यानि याव त्पूर्वतुल्यानि भवन्ति, कण्डकमात्राणि भवन्तीत्यर्थः / ततः पुनरप्यनन्तभागवृद्धस्थानानां कण्डकमभिधाय ततः परमेक संख्येयभागोत्तरं सख्येयभागाधिकमेकं स्थानं द्रष्टव्यम्॥३३॥ तथा चाऽऽहएग संखेजुत्तर मेत्तो तीयाण तिच्छिया बीयं / तागा वि पढमसमाई, संखेज्जगुणोत्तरं एक्वं / / 34 / / (एगं त्ति) (एतो त्ति) इत:-संख्येयभागाधिकात् स्थानात् परतोमूलादारभ्य यावन्त्यनुभागबन्धस्थानानि प्रागतिक्रान्तानि तावन्त्यतिक्रम्यगत्वा द्वितीय संख्येयभागाधिकं स्थानं वक्तव्यम् / तान्यपि संख्येयभागाधिकानि स्थानान्युपदर्शितप्रकारेण तावद्वाच्यानि यावत्प्रथमसमानि भवन्ति प्रथमकण्डकतुल्यानि भवन्तीत्यर्थः। ततः पूर्वपरिपाट्या। संख्येयभागाधिकस्थानप्रसङ्ग संख्येय गुणोत्तरसंख्येयगुणाधिकं स्थानमेकं वक्तव्यम्॥३४॥ एत्तो तीयाणि अइ-च्छियाणि बिइयमवि ताणि पढमस्स। तुल्लाणऽसंखगुणियं, एक तीयाण एकस्स // 35 / / (एत्तो त्ति) इतः-संख्येयगुणोत्तरादनुभागबन्धस्थानात् यावन्ति मूलत आरभ्य प्रागतीतानि-अतिक्रान्तान्यनुभाग बन्धस्थानानि तावन्त्यतिक्रम्य-द्वितीयं संख्येयगुणाधिकं स्थानं वक्तव्यम्। तान्यप्येवं तावद्वक्तव्यानि यावत्प्रथमस्याऽनन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति। ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गे असंख्येयगुणाधिकं स्थानमेकं वक्तव्यम्। ततो मूलत आरभ्य यावन्त्यतीतानितावन्ति भूयोऽप्यतिक्रम्यगत्वा द्वितीयकम संख्येयगुणाधिकं स्थानं वक्तव्यम। बिइयं ताणि समाइं, पढमस्साणंतगुणियमेगं तो। तीयाणइच्छियाणं-ताण वि पढमस्स तुल्लाई॥३६ / / (बिइय ति) तान्यप्यसंख्येयगुणाधिकानि स्थानानि प्रथमस्थ मूलभूतस्थानन्तभागवृद्धकण्डकस्य समानितुल्यानि भवन्ति / ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिक स्थानप्रसङ्गेऽनन्तगुणितम्-अनन्तगुणाधिकं स्थानमेकं वक्तव्यम्। ततो मूलत आरभ्य यानि अनुभागबन्धस्थानानि अतीतानि तानि भूयोऽप्यतिक्रम्यगत्वा द्वितीयमनन्तगुणाऽधिकं स्थान वक्तव्यम्। एवं तान्यप्यनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्प्रथम स्यानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति / ततः पूर्वपरिपाट्या पञ्चकवृद्धयनन्तरं पुनरप्यनन्तगुणाधिक स्थानमुत्पद्यते, किं वा नेति चेदुच्यते-नोत्पद्यते, षट्थानकस्य परिसमाप्तत्वात्। एतरप्रशमं षट्स्थानकम्॥३६॥ अरिमंञ्च षट्स्थानकेऽनन्तभागवृद्धिः, असंख्येयभागवृद्धिः, संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धिः, अनन्तगुणवृद्धिश्चोक्ता / तत्रा कियन्मात्रेणा नन्ताऽसंख्येयसंख्येयतमेन भागेन कियन्मात्रोण वाऽनन्ताऽ संख्येयसंख्येयगुणकारेण वृद्धिर्भवतीति तत्परिज्ञानार्थमाहसव्वजियाणमसंखे- अलोग संखेज्जगस्स जेट्ठस्स। भागो तिसु गुणणा तिसु,छट्ठाणमसंखिया लोगा।॥३७॥