________________ बंधण 1196 - अमिधानराजेन्द्रः - भाग 5 बंधण तत्रा शुभेनाऽशुभेन वा एकेन केनचिदध्यवसायेन स्वप्रत्ययत इति स्वस्य आत्मनः संबन्धिनानुभागबन्धं प्रति प्रत्ययेन प्रत्ययभूतेनकारणभूतेन जीवो ग्रहणसमये योग्यपुद्गलाऽऽदानसमयं सर्वेषु कर्मप्रदेशेषु एकैकस्मिन् कर्मपरमाणावित्यर्थः / गुणान्-रसस्य निर्विभागान-भागान् उक्तस्वरुपान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति। इयमत्रा भावला-इह पूर्व कर्मप्रायोग्यवर्गणाऽन्तः पातिनः सन्तः कर्मपरमाणवोन तथा विधविशिष्टरसोपेता आसीरन्, किं तु प्रायो नीरसा एकस्वरुपाश्च / यदा तु जीवेन गृह्यन्ते, तदानीं ग्रहणसमये एव तेषां काषायिकेणाऽध्यवसायेन सर्वजीवेभ्योऽप्यनन्तगुणा रसाऽविभागा आपद्यन्ते, ज्ञानाऽऽवरणकत्वाऽऽदिविचित्रास्य भावता च। आचिन्त्यस्त्वात् जीवानां पुदलानां च शक्तेः / न चैतदनुपपन्न, तथादर्शनात् / तथाहि-शुष्कतृणाऽऽदिपरमाणा ऽत्यनन्तनीरसा अपि गवादिभिर्गृहीत्वा विशिष्टक्षीराऽऽदिर सरुपतया सप्तधातुरुपतया च परिणम्यन्ते इति // 26 // अाऽऽह-ननु तान् रसस्याऽविभागान किं सर्वेष्वपि कर्मपरमाणुषु तुल्याचुत्पादयति, आहोश्विद्विषमान्? / उच्यते-विषमान्। तथाहिकेषुचित्परमाणुषु स्तोकान्। तांश्च जघन्यतोऽपि सर्वजीवाऽनन्तगुणान्। केषुचित्तेभ्योऽपि प्रभूतान्। केषुचिश्च प्रभूततमान् / तत्र न ज्ञायते केषु कियन्त इति तन्निरुपणार्थ वर्गणाऽऽदिप्ररुपणामाहसव्वऽप्पगुणा ते पढ-मवग्गणा सेसिया विसेसूणा। अविभागुत्तरियाओ, सिद्धाणमणंतभागसमा // 30 // (सव्व त्ति) येषां परमाणूनां समस्तान्यपरमाणवपेक्षया अल्पे गुण्णाःस्तोकारसाऽविभागास्ते सर्वाऽल्पगुणाः परमाणवः समुदिताः प्रथमा वर्गणा / तस्यां च कर्मपरमाणवो ऽतिशयेन प्रभूताः / शेषाश्च वर्गणा विशेषहीनाः कर्मपरमाणवपेक्षया / तथाहि-प्रथमवर्गणाऽपेक्षया द्वितीयवर्गणायां कर्मपरमाणवो विशेषहीनाः। ततोऽपितृतीयस्यां वर्गणायां विशेषहीनाः। एवं तावद्वाच्यं यावत्सर्वोत्कृष्टा वर्गणा / एताश्च कथंभूता इत्याह -- (अविभागुत्तारियाउ त्ति ) अविभोगात्तरा एकैकस्नेहाऽविभा गाधिका इत्यर्थः / तथाहि प्रथमवर्गणापरमाणवपेक्षया ये परमाणव एकेन रसाऽविभागेनाऽभ्यधिकास्तेषां समुदायो द्वितीया वर्गणा। तेभ्योऽप्येकेन रसाऽविभागेनाऽधिकानां समुदायस्तृतीया वर्गणा / एवमेकैकाऽविभागवृद्धया वर्गणास्तावद्वक्तव्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति इति॥३०॥ कृता वर्गणाप्ररुपणा। सम्प्रति स्पर्धकप्ररुपणामाहफडुगमणंतगुणियं, सव्वजिएहिं पि अंतरं एवं / सेसाणि वग्गणाणं, समाणि ठाणं पढममित्तो॥३१॥ (फडग त्ति) अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा अनन्ता | वर्गणा एक स्पर्धकम् / एषां स्पर्धकप्ररुपणा / / संप्रत्यन्तरप्ररुपणा क्रियतेइत ऊर्ध्यमकेन रसाऽविभागेनाऽभ्यधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्त्रौः, किं त्वनन्ताऽनन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरभ्यधिकाः प्राप्यन्ते। ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा। तत एकेन रसाऽविभागेनाऽधिकानां परमाणूनां समुदायो द्वितीया वर्गणा / द्वाभ्यां रसाऽविभागाभ्यामधिकानां परमणूना समुदायस्तृतीया वर्गणा / एवमेकैकरसाऽविभागवृद्धया वर्गणास्ताववाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्त भागकल्पा भवन्ति। ततस्तासां समुदायो द्वितीयं स्पर्धकम्। ततः पुनरप्यत ऊर्ध्वमकेन रसाऽविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्या नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किं त्वनन्ताऽनन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः। ततस्तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा वर्गणा। ततः पुनरप्यत ऊर्ध्वं यथोत्तरमेकैकरसाऽविभागवृद्धया द्वितीयाऽऽदिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पाभवन्तिा ततस्तासां समुदायस्तृतीय स्पर्धकम् / एवं स्पर्धकानि तावद्वाच्यानि यावदभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति / तेषां समुदाय एकमनुभागबन्धस्थानम् / तथा चाऽऽह-"अणंतगुणियं सव्वजिएहि पि" इत्यादि। प्रथमस्पर्धकचरम वर्गणाया द्वितीयस्पर्धकप्रथमवर्गणायाश्चानन्तरमपि सर्वजीवेभ्योऽनन्तगुणितं द्रष्टव्यम। एषाऽन्तरप्ररुपणा / एवं शेषाण्यपि स्पर्धकान्यन्तराणि च यथोक्तप्रमाणान्यवगन्त व्यानि / तानि च स्पर्धकानि एकानि - एकस्पर्धकसत्कवर्गणानां समानि अभव्येभ्योऽनन्तगुणानि सिद्धानामनन्त भागकल्पानीत्यर्थः। एकं प्रथम सर्वजघन्यमनुभागबन्धस्थानं भवति / अनुभागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूना रसस्पर्धकसमुदाय परिमाणम् // 31 // कृता स्थानप्ररुपणा। कण्डकप्ररुपणार्थमाहएत्तो अंतरतुल्लं, अंतरमणंतभागुत्तरं बिइयमेवं / अंगुलअसंखभागो, अणंतभागुत्तरं कम्मं // 32 // (एतो त्ति) इतः-प्रथमस्थानादारभ्य द्वितीयस्थानादाक् अन्तरमन्तरतुल्यं प्रागुक्तप्रमाणान्तरतुल्यं द्रष्टव्यम् / इदमुक्तं भवति-यथा प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकाऽऽदि वर्गणायाश्चान्तर सर्वजीवेभ्योऽनन्तगुणं समुद्दिष्टम् एवमिहाऽरि प्रथमस्थानान्तिमस्पर्धकचरमवर्गणाया द्वितीयस्थानाऽऽद्य स्पर्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवेभ्योऽनन्तगुणमव गन्तव्यम् / तच द्वितीय स्थानं स्पर्धकापेक्षयाऽनन्तभागोत्तर मनन्तभागवृद्धम्।यावन्ति प्रथमे स्थाने स्पर्धकानि तावद्भ्योऽनन्तभागाधिकानि द्वितीय स्थाने स्पर्धकान्यवसेयानीत्यर्थः / एवं यथोत्तरमनन्तभागवृतान्युप दर्शितप्रकारेण स्थानानि तावद्वाच्यानि यावदडलाऽसंख्येय भागगताकाशप्रदेशराशिप्रमाणानि भवन्ति। एतेषां च समुदाय एक कण्डकम् (अणतभागुत्तरं त्ति) अनन्तभागोत्तरमनन्तभगोत्तरस्थान समुदायरुपत्वात्कण्डक मप्यनन्तभागोत्तरमुक्तम् / एषां कण्डकप्ररुपणा॥ सम्प्रतिषट्थानप्ररुपणा क्रियते-तस्मात्-प्रथमात्कण्डकात् परं यदन्यदनुभागबन्धस्थानं भवति तत्स्पर्धकाऽपेक्षयाऽसंख्येयभागाधिकम् / तस्मात्पराणितु कण्डकमात्राणि स्थानानि यथोत्तरमनन्तभागवृद्धानि। ततः परंपुनरप्येकमन्यदनुभागबन्धस्थानमसंख्येयभागाऽधि