________________ बंधण 1168 - अभिधानराजेन्द्रः - भाग 5 बंधण शाग्रम। ततो यश कीर्तिनाम्नः सङ्ख्येयगुणम्। शेषाणामात पोदद्योतप्रशस्ताऽप्रशस्तविहायोगति सुस्वरदुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् / निर्माणोच्छवासपराघातोपघाता ऽगुरुलधुतीर्थकराणात्वल्पबहुत्वं नास्ति, यत इदमल्प बहुत्वं सजातीयप्रकृत्यपेक्षया, यथा कृष्णाऽऽदिवर्णनाम्नः शेषवणपिक्षं, प्रतिपक्षप्रकृत्यपेक्षया वा यथा सुभगदुर्भगयोः / न चैताः परस्परं सजातीया अभिन्नैकमूलपिण्डप्रकृत्यभावात्। नाऽपि विरुद्धा युगपदपिबन्धसम्भवात्। तथा-ठोसर्वस्तोकमुत्कृष्टपदे प्रदेशागं नीचैर्गोत्रस्य / ततो विशेषाधिकमुचैर्गात्रास्य / तथाऽन्तराये स्वस्तोकं दानाऽन्तरायस्य / ततो लाभाऽन्तरायस्य विशेषाधिकम्। ततो भोगान्तरायस्य विशेषाधिकम्। तत उपभोगान्तरायस्य विशेषाधिकम् / ततो वीर्यान्तरायरायस्य विशेषाधिकम् / तदेव मुत्कमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाऽग्राऽल्पबहुत्वम्। सम्प्रति जघन्यपदे तदभिधीयते-तत्रा सर्वस्तोकं जघन्यपदे प्रदेशागं केवलज्ञानाऽऽवरणीयस्य। ततो मनःपर्यवज्ञानाऽऽवरणीयस्या ऽनन्तगुणम्। ततोऽवधिज्ञानाऽऽवरणीयस्य विशेषाधिकम् / ततः श्रुतज्ञानाऽऽवरणीयस्य विशेषाधिकम् / ततोऽपि मतिज्ञानाऽऽवरणीयस्य विशेषाधिकम्।तथा दर्शनाऽवरणीये सर्वस्तोक जघन्यपदे प्रदेशाग निद्रायाः। ततः प्रचलाया विशेषाधिकम् / ततो निद्रानिद्राया विशेषाधिकम्। ततः प्रचला प्रचला प्रचलाया विशेषाधिकम् / ततः स्त्यान विशेषाधिकम् / ततः केवलदर्शनाऽऽवरणस्य विशेषाधिकम् / ततोऽवधिदर्शनाऽऽ वरणरयानन्तगुणम् / ततोऽचक्षुर्दर्शनाऽऽवरणीयस्य विशेषाधिकम्। ततोऽपि चक्षुर्दशनाऽऽवरणीयस्य विशेषाधिकम् / तथा मोहनीये सर्वस्तोक जघन्यपदे प्रदेशाग्रमप्रत्याख्याना ऽऽवरणमानस्य / ततः अप्रत्याख्यानाऽऽवरणक्रोधस्य विशेषाधिकम् / ततोऽप्रत्याख्यानाऽऽवरणमायाया विशेषाधिकम् / ततोऽप्रत्याख्यानाऽऽवरणलोभस्य विशेषाधिकम् / तत एवमेव प्रत्याख्यानाऽऽवरणमानक्रोधमाया लोभाऽनन्तानुबन्धिमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकं वक्तव्यम्। ततो मिथ्यात्वस्य विशेषाधिकम् / ततो जुगुप्साया अनन्तगुणम् / ततो भयस्य विशेषाधिकम्। ततो हास्यशोकयोर्विशेषाधिकम्, स्वस्थाने तु तयोः परस्परं तुल्यम्। ततो रत्यरत्योर्विशेषाधिकम् / स्वस्थाने तु तयोरपि परस्परं तुल्यम्। ततोऽन्यतरवेदस्य विशेषाधिकम् / ततः संज्वलनमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम्। तथा ऽऽयुषि सर्वस्तोक जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्याऽऽयुषोः। ततो देवनारकाऽऽयुषोरसंख्येयगुणम्।तथा नाम्नि गतौ सर्वस्तोक जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः / ततो विशेषाधिक मनुजगतेः / ततो देवगतेरसंख्येयगुणम्। ततो निरयगतेरसंख्येय गुणम्। तथा जातौ सर्वस्तोकं चतुर्णा द्वीन्द्रियाऽऽदिजातिनाम्नाम्। तत एकेन्द्रियजातेर्विशेषाधिकम् / तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः। ततस्तेजसशरीरनाम्नो विशेषाधिकम्। ततः कार्मणशरीरनाम्नो विशेषाधिकम्। ततो वैक्रियशरीरनाम्नो ऽसंख्येयगुणम्। ततोऽप्याहारकशरीरानाम्नोऽसंख्येयगुणम्। एवं संघातननाम्नोऽपि वाच्यम्। अङ्गोपाङ्गनाम्नि सर्वस्तोकं जघन्यपदे प्रदेशाग्रमौदरिकाङ्गोपाङ्ग नाम्नः / ततो वैक्रियाङ्गोपाङ्गनाम्नोऽसंख्येयगुणम्। ततोऽप्याहाकाऽङ्गोपाङ नाम्नोऽसंख्येयगुणम् / तथा सर्वस्तोकं जघन्यपदेनरक गतिदेवगत्यानुपूर्योः प्रदेशागम्। ततो मनुजगत्यानुपूर्व्या विशेषाधिकम्। ततोऽपि तिर्यग्गत्यानुपूर्व्या विशेषाधिकम् / तथा सर्वस्तोकं ासनाम्नः ततो विशेषाधिक स्थावरनाम्नः / एवं बादरसूक्ष्मयोः पर्याप्ताऽपर्याप्तयोः प्रत्येकसाधारणयोश्च। शेषाणांतुनामप्रकृतीनामल्प बहुत्वं न विद्यते।तथा साताऽसातवेदनीयोरुचैर्गोत्रनीचर्गोत्रायोरपि। अन्तराये पुनर्यथोत्कृष्टपदे तथैवाऽवगन्तव्यम् / इह यदा जन्तुरुत्कृष्ट योगस्थाने वर्तते, यदाच मूलप्रकृती, नामुत्तरप्रकृतीनां च स्तोकतराणां बन्धकः, तथा यदा संक्रमकाले प्रकृत्यन्तदलिकानामुत्कृष्टः प्रदेशसंक्रमो भवति तदोत्कृष्टप्रदेशाऽग्रसंभवः / तथाहि-उत्कृष्ट योगे वर्तमानो जीव उत्कृष्ट प्रदेशग्रहणं करोति। तथा स्तोकतराणा मूलप्रकृतीनामुत्तरप्रकृतीनां च यदा बन्धकस्तदा शेषाबध्यमानप्रकृतिलभ्योऽपि भागस्तासां बध्यमानानामाझजति। तथा प्रकृत्यन्तरदलिकानामुत्कृष्टप्रदेश संक्रमकाले विवक्षितासु प्रकृतिषु बध्यमानासु प्रभूताः कर्मपुद्गलाः प्रविशन्ति / तत एतेषु कारणेषु सत्सूत्कृष्टप्रदेशाग्रसंभवो भवति / विपर्यासे तु जघन्यप्रदेशाग्रसंभवः // 28 // तदेवमुत्कौ प्रकृतिप्रदेशबन्धौ / सम्प्रति स्थित्यनुभागबन्धप्ररुपणाऽवसरः / तत्रा बहु वक्तव्यत्वात् प्रथमतोऽनुभागवन्धस्यैव प्रतपणा क्रियते। तत्र चतुर्दशाऽनुयोगद्वारणि / तद्यथा-अविभागाप्ररुपणा 1. वर्गणाप्ररुपणा 2, स्पर्धकप्ररुपणा 3, अन्तरप्ररुपणा 4, स्थानप्ररुपणा 5, कण्डकप्ररुपणा 6, षटस्थानप्ररूपणा 7, अधस्तनस्थानप्ररूपणा 8, वृद्धिप्ररुपणा 6, समयप्ररुपणा 10, यवमध्यप्ररुपणा 11, ओजोयुग्मप्ररूपणा 12, पर्यवसानप्ररुपणा 13, अल्पबहुत्वप्ररुपणा 14 / तत्राऽविभागप्ररुपणार्थमाह - गहणसमयम्मि जीवो, उप्पाएई गुणे सपञ्चयओ। सव्वजियाणंतगुणे, कम्मपएसेसु सव्वेसुं॥२६॥ (गहण ति) इहाऽनुभागस्य कारणं काषायिका अध्यवसायाः, "ठिइअणुभाग कसायओकुणइ” इति वचनात्। ते च द्विधा-शुभा, अशुभाश्च / तका शुभैः क्षीरखण्डरसो पममाहादजननमनुभागं कर्मपुद्रलानामावत्ते, निम्बधोषातकीरसोपमं चाऽशुभैः / ते च शुभा अशुभा वा काषायिका अध्यवसायाः प्रत्येकम् असङ्ख्येयलोकाऽऽकाश प्रमाणाः / केवलं शुभा विशेषाधिका द्रष्टव्याः। तथाहि-यानेवानुभागबन्धाऽध्यवसायान् क्रमशः स्थापितान संक्लिश्यमानः क्रमेणऽधोऽध आस्कन्दति, तानेव विशुद्धमानः क्रमेणोवोर्ध्व मारोहति / ततो यथा प्रासादादवतरतो यावन्ति सोपानस्थानानि भवन्ति तावन्त्येवाऽरोहतोऽपि, तथाऽत्रापि यावन्त एव संक्लिश्यमानस्याऽशुभाऽध्यवसायास्तावन्त एव विशुध्यमानस्याऽपि शुभाऽध्यवसायाः। उक्तं च- "क्रमशः स्थितासु काषायिकीषु जीवस्य भावपरिणतिषु / अवपतनोत्पतनाऽद्धे, संक्लेशाऽद्धाविशोध्यद्धे // 1 // " केवलं क्षपकोयेष्वध्यवसायेषु वर्तमानः क्षपकश्रेणिमारोहति, तेभ्यः पुनर्न निवर्तते, तस्य प्रतिपाताऽभावात्, अतस्तेऽधिका इति तदपेक्षया विशेषाऽधिकाः शुभाऽवसायाः