________________ बंधण 1194 - अभिधानराजेन्द्रः - भाग 5 बंधण स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणा / एवमेकैकाविभागवृद्धया निरन्तरं तावद्वर्गणा वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति / एतासां च समुदाय एक स्पर्धकम् / तत इत | ऊर्ध्वमेकेन स्नेहाविभागेनाधिकः परभाणवो न प्राप्यन्ते, नापि द्वाभ्यां, नापि त्रिभिः, नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः, कि त्वनन्तानन्तरैव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते / ततस्तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा / तस्यां कियन्तः स्नेहाविभागा:? इति चेदुच्यते-यावन्तः प्रथमस्पर्धकमप्रथमवर्गणायां रनेहाविभागास्तावन्तो द्विगुणाः / तत एकेन स्नेहाविभागेनाधिकानां परमाणूना समुदायो द्वितीया वर्गणाः। द्वाभ्यां स्नेहाविभागाभ्यामधिकानां समुदायस्तृतीया वर्गणाः / एवमैककस्नेहाविभागवृद्धया निरन्तर वर्गणास्ताव - द्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति / ततस्तासां समुदायो द्वितीयं स्पर्धकम् / ततः पुनरप्यत ऊर्ध्वमेकेन / स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां, नापित्रिभिः यावन्नापि संख्येयैः, नाप्यसंख्येयैः, नाप्यनन्तैः किं त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः / ततस्तेषां परमाणूना समुदायस्तृतीय स्पर्धकरय प्रथमा वर्गणा / तस्यां कियन्तः स्नेहाऽविभागा इति चेदुच्यते-यावन्तः प्रथमस्पर्धक-सत्कप्रथमवर्गाणायां तावन्तस्त्रिगुणाः / तत एकेन स्नेहाविभागेनाधिकानां परमाणूनां समुदायो द्वितीया वर्गणा। द्वाभ्यां स्नेहाविभागभ्यामधिकानां समुदायस्तृतीया वर्गणा / एवमेकैकस्नेहाविभागवृद्धया निरन्तर वगणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्त भागकल्पा भवन्ति / ततस्तासां समुदायस्तृतीय स्पर्धकम् / ततः पुनरप्यत ऊर्ध्वमेकेन स्नेहाविभागेनाधिकाः परमाणवो न प्राप्यन्ते, नापि द्वाभ्यां नापि त्रिभिः,यावन्नापि संख्येयः, नाप्यनन्तैः किं त्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरधिकाः प्राप्यन्ते। ततस्तेषां समुदायश्चतुर्थस्य स्पर्धकस्य प्रथमावर्गणा। तस्यां कियन्तः स्नेहाविभागाः? इति चेदुच्यते-प्रथमस्पर्धकसत्कप्रथमवर्गणायां यावन्तः स्नेहाविभागास्तावन्तश्चतुर्गुणाः / एवं यतिसंख्यं यतिसंख्य स्पर्धकं चिन्तयितुमारभ्यते, तद्यथा पञ्चमं दशमं विंशतितमं सहस्रतमं लक्षतमं तावत्संख्यागुणिताः प्रथमस्पर्धक सत्कप्रथम वर्गणागताः स्नेहाविभागास्ततिसंख्यस्य ततिसख्यस्य स्पर्धकस्याऽऽदि वर्गणायां द्रष्टव्याः / तानि च स्पर्धकानि कियन्ति भवन्तीति चेदुच्यते-अभव्येभ्योऽनन्त गुणानि सिद्धानामनन्तभागकल्पानि / अनन्तराणि कियन्ति भवन्तीति चेदुच्यते-रुपो न स्पर्धकतुल्यानि। तथाहि-चतुर्णामन्तराणि त्रीएयेष भवन्ति, (नो) नाधिकानि। एवमत्रीपि भावनीयम् / वर्गणास्त्वानन्तर्येण द्वे वृद्धी भवतः / तदथा-एकैकाविभागवृद्धिः, अनन्तानन्तविभागवृद्धिश्च। तत्रौकैकाविभागवृद्धिः स्पर्धकगतानां वर्गणानां यथोत्तरमनन्तधिभागवृद्धिः पाश्चात्यस्पर्धकगतचरमवर्गणपेक्षयोत्तर स्पर्धकस्याऽदिवर्गणायाः पारम्पर्येण पुनः प्रथमस्पर्धकसत्कम प्रथमवर्गणापेक्षया षडपि वृद्धयोऽवगन्तव्याः / तद्यथा-अनन्तभागवृद्धिः असंख्येयभागवृद्धिः संख्येयभागवृद्धिः, संख्येयगुणवृद्धिः, असंख्येयगुणवृद्धि, अनन्तगुणवृद्धिश्चेति। तदेवं कृता वर्गणाप्ररुपाणां स्पर्धकप्ररुपणा अनन्तरप्ररुपणा च / / सांप्रतं वर्गणागतपुद्रलस्नेहाविभागसमुदायप्ररुपणा क्रियते-तत्रा प्रथमस्य शरीरस्थानस्य प्रथमायां वर्गणायां स्नेहाविभागाः स्तोकाः / ततो द्वितीयस्य शरीरस्थानस्य प्रथमवर्गणायाः मनन्तगुणाः। तेभ्योऽपि तृतीयशरीरस्थानस्य प्रथमवर्गणायाम नन्तगुणाः / एवमनन्तगुणया श्रेण्या सर्वाण्यपि स्थानाति नेतव्यानि। शरीरस्थानानि च वक्ष्यमाणस्पर्धकसङ्ख या प्रमाणानि / संप्रति शरीरपरमाणूनामेव तत्तद्वन्धनयोग्या नामल्पबहुत्वमभिधीयते तत्रौदारिकौदारिकबन्धनयोव्याः पुद्गलाः सर्वस्तोकाः / तेभ्य औदारिकतैजलबन्धनयोग्याः अनन्तगुणाः। तेभ्योऽप्यौदारिककार्मणबन्धनयोग्या अनन्तगुणाः। तथा वैक्रिय-वैक्रियेबन्धनयोग्याः पुद्गलाः सर्वस्तोकाः / तेभ्योऽपि वैक्रियतैजसबन्धनयोग्याः अनन्तगुणाः / तेभ्योऽपि वैक्रियकार्मणबन्धनयोग्याः अनन्तगुणाः / तेभ्योऽपि वैक्रियतैजसकार्मणबन्धवयोग्या अनन्तगुणाः। तथा आहारकाऽऽहारकबन्धनयोग्याः पुद्रलाः सर्वस्तोकाः। तेभ्योऽप्याहारकतैजसबन्धनयोग्या अनन्तगुणाः / तेभ्योऽप्याहारकर्मणाबन्धन योग्या अनन्तगुणाः / तेभ्योऽप्याहारकतेजसकार्मणबन्धनयोग्या अनन्तगुणाः। तेभ्योऽपि तैजसतैजसबन्धनयोग्या अनन्तगुणाः। तेभ्योऽपि तैजसकार्मणबन्धनयोग्या अनन्तगुणाः। तेभ्योऽपि कार्मणकार्मणबन्धनयोग्या अनन्तगुणा इति।। सांप्रतं स्थानप्ररुपणावसरः / तत्रा प्रथमं स्पर्धकमादौ कृत्वाऽभव्येभ्यो ऽनन्तगुणैः सिद्धानन्तकल्पै गैरनन्तैः स्पर्धकैरेकं प्रथम शरीरप्रायोग्य स्थानं भवति / ततस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धद्वितीयं शरीरस्थानं भवति / पुनस्ततिभिरेव स्पर्धकैरनन्तभागवृद्धस्तृतीयं शरीरस्थानम् / एवं निरन्तरं पूर्वस्मात् पूर्वस्मादुत्तरोत्तराणि अनन्तभागवृद्धानि शरीरस्थानान्यड्डलमात्रक्षेत्रासङ्घयेयभागगत प्रदेशराशि प्रमाणानि बाध्यानि / एतानि च समुदितानि एक कण्डकमभिधीयते / तस्माष्व काण्डकादुपरि यदन्यच्छरीरस्थान तत्कण्ठकगतचरमशरीरस्थानापेक्षया असमयेयभागवृद्धम् / तस्मात्यराणि पुनर्याग्यान्यानि शरीरस्थानानि अङ्गुलमात्राक्षेत्रासङ्ग येभागगतप्रदेशराशिप्रमाणानि तानि सर्वाण्यपि यथोत्तरमनन्तभागवृतान्यवसेयानि। एतानि च समुदितानि द्वितीय कण्डकम्। तस्मान्न द्वितीयात्कण्डकादुपरि यदन्यच्छरीरस्थान तत्पुनरपि द्वितीयकण्डकगतचरमशरीर स्थानापेक्षयाऽसंख्येयभागवृद्धम् / ततः पराणि पुनरप्यन्यानि यानि शरीरस्थानानि अङ्गुलमात्रक्षेत्रा सवयेयभागगतप्रदेश राशिप्रमाणानि तानि सर्वाण्यपि यथोत्तरमनन्तभागवृद्धान्यवसे यानि / एतानि च समुदितानि तृतीयं कण्डकम्। ततः पुनरप्येकम सङ्घ येयभागवृद्धम् / ततः पुनरपि कण्डकमात्राणि शरीरस्थानानि यथोत्तरमनन्तभागवृद्धान्यवसेयानि / एवमसनये - यभागान्तरितानि अनन्तभागवृद्धकण्डकानि तावद्वाष्यानि यावदस येयभागवृद्धानामपि स्थानानामनन्तरान्तराभाविनां कण्डकं भवति / कण्डक नाम समयपरिभाषया अङ्गलमाठाक्षेत्रासङ्खये यभागग