________________ बंधण 1163 - अभिधानराजेन्द्रः - भाग 5 बंधण था-अनन्तरे पनिधया, परम्परोपनिधया च। तत्र तावत्प्रथमतोऽनन्त- रोपत्तिधया प्ररुपणा क्रियते--प्रथमायां वर्गणायामक स्नेहाविभागयुक्तपुद्गलसमुदायरुपायां वावन्तः पुद्गलास्तदपेक्षया द्वितीयस्यां वर्गणायां स्नेहाविभागद्वययुक्तपुरलसमूहरुपाया पुद्रला असंख्येयभागहीना भवन्ति / ततोऽपितृतीयस्यां वर्गणायामसंख्येयभागहीनाः / एवं प्रतिवर्गणामसख्येयभाग हान्या पुद्रलास्तावद्वाच्या यावदनन्ता वर्गणा गता भवन्ति। ततोऽनन्तरायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया संख्येयभाहीना भवन्ति। ततोऽग्रेतन्यामपि वर्गणायां पुद्रलाः संख्येयभागहीनाः / एवं सङ्ख्येयभागहान्याऽपि वर्गणा अनन्ता वाच्याः / ततोऽनन्तरायां वर्गणायां पुद्गलाः प्राक्तनवर्गणागतपुद्गलापेक्षया पुदलाः संख्येयगुणहीनाः भवन्ति / एवं संख्येयगुणहान्याऽप्यनन्ता वर्गणा वाच्याः। ततोऽनन्तरायां वर्गणाया पुद्रलाः प्रात्कनवर्गणागत-पुद्गलापेक्षयाऽसंख्येय गुणहीना भवन्ति। ततोऽग्रेतन्यामपि वर्गणायां ततोऽग्रेतन्यामपि वर्गणायां पुद्गलाः संख्येयगुणहीनाः।पुद्गला असंख्येयगुणहीनाः। एवमसंख्येयगुणहान्याऽऽप्यनन्ता वर्गणा वक्तव्याः। ततोऽनन्तरायां वर्गणायां पुद्गलाः प्रात्कनवर्गणागत पुद्रलापेक्षयाऽनन्तगुणहीना भवन्ति / ततोऽग्रेतन्यामपि वर्गणायां पुरला अनन्तगुणहीनाः। एवमनन्तगुणहान्याऽप्यनन्ता वर्गणा वाच्याः यावत्सर्वोत्कृष्टा वर्गणाः। तदेव कृताऽनन्तरोपनिधया प्ररुपणा। संप्रति परम्परोपनिधया क्रियते--ता प्रथमवर्गणायाः परतोऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या पराअन्या वर्गणा तस्या पुद्रलाः प्रथमवर्गणागतपुद्रलापेक्षया द्विगुणहीना भवन्ति, अर्धा भवन्ति इत्यर्थः / ततः पुनरप्य संख्येयलोकाऽऽकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य या परा-अनन्तरा वर्गणा तस्यां पुद्रला अर्धा भवन्ति / एवं भूयो भूयस्तावदवगन्तव्यं यावदसङ्ख्येयभागहानिगता चरणा वर्गणा। ततः परं सख्येयभागहानिगता वर्गणाः सङ्घयेया अतिक्रम्यानन्तरायां वर्गणायां पुद्रला असङ्खयेय भागहानिगतचरमवर्गणापुद्रलाऽपेक्षयाऽर्धा भवन्ति / ततः पुनरपि संङ्खयेया वर्गणा अतिक्रम्यानन्तरायां वर्गणायां पुद्गला अर्धा भवन्ति। एवं भूयो भूयस्तावद्वक्तव्यं यावत्सलयेयभागहानावपि चरमा वर्गणा / उपरितनीषु चतसृषु हानिषु इयं परम्परोपनिधान सम्भवति। यतः प्रथमायामपि सङ्घयेयगुणहानिवर्गणायां पुद्गलाः सङ्खयेयभागहानिसत्कचरम वर्गणान्तर्गत पुद्गलाऽपेक्षया सङ्ख्ययगुणहीनाः प्राप्यन्ते / सङ्गयेयगुणहीनाश्च जघन्यतोऽपि त्रिगुणहीनाश्चतुर्गुणहीना या गृह्यन्ते, नतु द्विगुणहीनाः, यतः सङ्खयेयं प्रायः सर्वत्राप्यजघन्योत्कृष्ट त्रिप्रभृत्येव गृह्यते, न तु द्वौ, नापि सर्वोत्कृष्ट तदुक्तमनुयोगद्वारचूर्णी"सिद्धते य जत्थ जत्थ संखेज्जगगाहणं तत्थ तत्थ अजहण्णमणुकोसयं दट्ठव्वं ति।" तत इतऊर्ध्व द्विगुणहीनान प्राप्यन्ते, किंतु त्रिगुणचतुर्गुणाऽऽदिहीना इति नेयं द्विगुणहान्या परम्परोपनिधा संभवति। तस्मान्मूलत आरभ्यान्यथाऽत्रा परम्परोपनिधया प्ररुपणा क्रियते-असङ्खयेयभागहानी प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणाऽपेक्षया काश्चिद्वर्गणा असत येयभागहीनाः काश्चित्सङ्गयेयभागहीनाः काश्चिन्सङ्ख्येयगुणहीनाः काश्चिदसख्येयगुणहीनाः काश्चिदनन्तगुणहीनाः / एवम-समयेयभागहानी प्रथमवर्गणापेक्षया पञ्चापि हानयः संभवन्ति / संख्येयभागहानी तु पुनरसङ्गयेयभागहानिवर्जाः शेषाश्चतस्त्रोऽपि हानयः सम्भवन्ति / तद्यथा-संख्येयभागहानिप्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणाऽपेक्षया काश्चिदर्गणाः संख्येयभागहीनाः काश्चित्सवयेयगुणहीनाः / काश्चिदसंख्येयगुणहीनाः, काश्चिदनन्तगुणहीनाः / संख्येयगुणहानी पुनरसंख्येयभागहानि संख्येयभागहानिवर्जाः शेषास्तिस्यो हानयः संभवन्ति। तद्यथा-संख्येयगुणहानौ प्रथमान्तिवर्गणयोरपान्तराले प्रथमवर्गणापेक्षया काश्चिद्वर्गणाः संख्येयगुणहीनाः काश्चिदसवयेयगुणहीनाः, काश्चिदनन्तगुणहीनाः / असङ्खयेयगुणहानौ पुन॰ एव हानी, तथाहिअसङ्गयेयगुणहानी प्रथमान्तिमवर्गणयोरपान्तराले प्रथमवर्गणा पेक्षया काश्चिद्वर्गणाः असङ्घयेयगुणाहीनाः काश्चिदनन्तगुणहीनाः / अनन्तगुणहानी त्वनन्तगुणहानिरेवैका, तदेवं कृता परम्परोपनिधया प्ररुपणा / साम्प्रतमल्पबहुल्वमुच्यते-तत्राऽसंख्येयभागहानौ वर्गणाः स्तोकाः / ताभ्यः संख्येयभागहानौ वर्गणा अनन्तगुणाः। ताभ्योऽपि संख्येयगुणहानौ वर्गणा अनन्तगुणाः ताभ्योऽप्यसंख्येयगुण हानौ वर्गणा अनन्तगुणाः / ताभ्योऽप्यसंख्येयगुणाहानौ वर्गणा अनन्तगुणाः / ताभ्योऽप्यनन्तगुणहानी वर्गणा अनन्तगुणाः / तथाऽनन्तगुणहानी पुगलाः सर्वस्तोकाः / तेभ्योऽसङ्खयेयगुणहानौ पुगला अनन्तगुणाः / वेभ्योऽपि समयेयगुणहानी पुद्गला अनन्तगुणाः। तेभ्योऽपि सजयेयभागहानौ पुद्गला अनन्तगुणाः / तेभ्योऽप्यसङ्ख्येयभागहानी पुद्गला अनन्तगुणाः // 22 // तदेवमुक्तं सप्रपञ्च स्नेहप्रत्ययं स्पर्धकम्। इदानीं नामप्रत्ययस्पर्धकप्रयोगप्रत्ययस्पर्धकप्ररुपणां चिकीर्षु रिदमाहनामप्पओगपच्चय-गेसु वि नेया अनंतगुणणाए। धणिया देसगुणा सिं, जहन्नजेट्टे सगे कट्ट।।२३।। (नाम त्ति) इह नामप्रत्ययस्पर्धकप्ररुपणायां षडनुयोगद्वाराणि / तद्यथाअविभागप्रपरुपणा 1, वर्गणाप्ररुपणा 2, स्पर्धकप्ररुपणा 3, अनन्तरप्रसपणा 4, वर्गणापुद्गलस्नेहाऽविभागसकलसमुदायप्ररुपणा 5, स्थानप्ररुपणा 6 चेति। तत्रा प्रथमतोऽविभागप्ररुपणा क्रियते-औदारि-काऽऽदिशरीरपञ्चकवायोग्यानां परमाणूनायो रसः,सकेचलि प्रज्ञाछेदनकेन छिद्यते, छित्वा धनिर्विभागाभागाः क्रियन्तेतेचनिर्विभागा भागा गुणपरमाणवोवा भावपरमाणवो वा प्रोच्यन्ते। एषाऽविभागप्ररुपणा / तोकेन स्नेहाविभागेन युक्ताः शरीरयोग्याः पुदला न भवन्ति / किमुक्तं भवति?-औदारिकौदारिकबन्धनाऽऽदीनां पञ्चदशाना बन्धनानामन्यतमस्यापि बन्धनस्य विषया न भवन्तीत्यर्थः / नापि द्वाभ्यां स्नेहाविभागाभ्या युक्ता / नापि त्रिभिर्नापि समयेयै प्यसङ्गयेयाप्यनन्तैः, कित्वनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैः, ततस्तेषां पुद्गलानां समुदायः प्रथमा वर्गणा, सा च जघन्या। तत एकेन स्नेहाविभाषेनाधिकानां पुद्रलानां समुदायो द्वितीया वर्गणा / द्वाभ्यां