________________ बंधण 1162 - अभिधानराजेन्द्रः - भाग 5 बंधण साम्प्रतं यदुक्तं प्राक्-किं वा जानन् बन्धनं त्रोटयतीति अस्य निर्वचनमाहवित्तं सोयरिया चेव, सव्वमेयं न ताणइ। संखाए जीविअंचेवं, कम्मुणा उ तिउट्टइ।।५।। (वित्तमित्यादि) वित्तं-द्रव्यं, तच सचित्तमचित्तं वा। तथा सोदर्याभातृभगिन्यादयः, सर्वमपि चैतद्वित्ताऽऽदिकं संसारान्तर्गतस्याऽसुमतोऽतिकटुकाः शारीरमानसीवेदनास्स मनुभवतोनत्राणायरक्षणाय भवतीत्येतत्संख्यायज्ञात्वा / तथा जीवितं च प्राणिना स्वल्पमपि तत्संख्याय ज्ञपरिज्ञया। प्रत्याख्यानपरिज्ञया तु सचित्ताऽचित्तपरिग्रहप्राण्युपघातस्वजन स्नेहाऽऽदीनि बन्धनस्थानानि प्रत्याख्याय कर्मणः सकाशात्रुटयति अपगच्छत्यसौ, तुरवधारणे, त्रुटोदेवेति। यदिवा-कर्मणा-क्रियया संयमानुष्ठानरुपया बन्धनात् त्रुट्यति, कर्मणः पृथग्भवतीत्यर्थः / / 5 / / अध्ययनार्थाधिकाराभिहितत्वात् स्वसमयप्रतिपादनानन्तरं ___ परसमयप्रतिपादनाभिधित्सयाऽऽह - एए गंथे विउक्कम्म, एगे समणमाहणा। अयाणंता विउस्सित्ता, सत्ता कामेहिँ माणवा।।६।। (एए गंथे विउक्कम्मेत्यादि) एतान्-अन्तरोत्कान ग्रन्थान व्युत्क्रम्य- | परित्यज्य स्वरुचिविरचितार्थेषु ग्रन्थेषु सक्ताः सिताः-बद्धाः, एके न सर्वेइति सम्बन्ध H / ग्रन्थातिक्रमश्चैतेषां तुदक्तार्थानभ्युपगमात्, अनन्तग्रन्थेषु चायमर्थोऽभिहि तस्तद्यथा-जीवास्तित्वे सति ज्ञानाऽवरणीयाऽदिकर्मबन्धनं, तस्य हेतवो मिथ्यात्वाऽविरतिप्रमादाऽऽदयः परिग्रहाऽऽम्भाऽऽदयश्चा तत्त्रोटनं च सम्यक् दर्शनाऽऽद्युपायेन, मोक्षसद्भावश्चेत्येव-मादिकः, तदेवमेके श्रमणाः-शाक्याऽऽदयो बार्हस्पत्यमतानुसारिणश्चमाहणाः(न) एतानहदुत्कान ग्रन्थानतिक्रम्य परमार्थमजानाना विविधम् अनेकप्रकारमुत्प्रावल्येन सिताबद्धाः स्वसमयेष्वभिनिविष्टाः / तथा च शाक्या एवं प्रतिपादयन्ति तथा- 'सुखदुःखेच्छाद्वेष ज्ञानाऽ5धारभूतोनास्त्यात्मा कश्चित्, किं तु विज्ञानमेवैकं विवर्त्तत' इति / 'क्षणिकाः सर्वसंस्कारा' इत्यादि। सूत्र०१ श्रु०१ अ०१ उ०ा करण्डकाऽऽदिबन्धनरुपे कौतुककर्मणि बृ०१ उ०२ प्रक०। इह योगैस्तदनुरुपपुगलस्कन्धान् गृहीत्वा शरीराऽऽदि रुपतया परिणमयतीत्युक्तं, तत्र तान् पुद्गलान् किं जीवो देशेन गृह्यति, उत सर्वात्मनेत्येव प्रश्नावकाशमाशड्क्योत्तरं वितितीर्घराह - एगमवि गहणदव्वं, सव्वप्पणयाएँ जीवदेसम्मि। सव्वप्पणया सव्व-त्थ वाऽवि सव्वे गहणखंधे // 21|| इह जीवः स्वप्रदेशावगाढमेव दलिकं गृह्यन्ति, नत्वनन्तर परम्परप्रदेशाऽवगाढं तत्रौकस्मिन् जीवप्रदेशे यदवगाढंग्रहणद्रव्यंग्रहणप्रायोग्यं दलिक तदेकमपि गृह्यन्ति (सव्वप्पणयाए त्ति) सर्वाऽऽत्मना गृह्यन्ति सर्वरेवाऽऽत्मप्रदेशैह्य तीत्यर्थः। जीवप्रदेशानां सर्वेषामपि शृखलाऽवयवानामिव परस्परं सम्बन्धविशेषभावात्। तथाहि-एकस्मिन् जीवप्रदेशे स्वक्षेत्रा- | ऽवगाळग्रहणप्रायोग्यद्रव्यग्रहणाय व्याप्रियमाणं सर्वेऽप्यात्माप्रदेशा अनन्तरपरम्परतया तदद्रव्यग्रहणाय व्याप्रियन्ते। यथा हस्तागेण कस्मिंश्चिद्वाह्ये घटाऽऽदिके ग्रह्यमाणे मणिबन्धकूपरांसाऽऽदयोऽपि तद्ग्रहणाय अनन्तर परम्परतया व्याप्रियन्ते, तथा (सव्वत्थ वा वित्ति) सर्व्वापिसर्वेष्वपि जीवप्रदेशेषु येऽवगाढाग्रहणप्रायोग्याः स्कन्धास्तानपि ग्रहणप्रायोग्यान स्कन्धान सर्वान् गृह्यन्ति जीवः सर्वाऽऽत्मना, सर्वरवाऽऽत्मप्रदेशः एकैकस्कन्धग्रहणं प्रति सर्वजीवप्रदेशानामनन्तरपरम्परतया व्याप्रियमाणत्वादिति // 21 // इह पुद्रलद्रव्याणां परस्पर संबन्धः स्नेहतो भवति। ततोऽवश्यं स्नेहप्ररुपणा कर्तव्या / सा च त्रिधा तद्यथा-स्नेहप्रत्ययस्पर्धकप्ररुपणा, नामप्रत्ययस्पर्धकप्ररुणा, प्रयोग प्रत्ययस्पर्धकप्ररुपणा च। तत्र स्नेहप्रत्ययरूपस्नेहनिमित्तस्य स्पर्धकस्य प्ररुपणा स्नेहप्रत्ययस्पर्धकप्ररुपणा। तथा शरीरबन्धननामकर्मोदयतः परस्परं बद्धानां शरीरपुरलाना स्नेहमधिकृत्य स्पर्धकप्ररुपणा नामप्रत्ययस्पर्धक प्ररुपणा / शब्दार्थश्चायाम्-नामप्रत्ययस्य बन्धननामनिमित्तस्य शरीरप्रदेशस्पर्धकस्य प्ररुपणा नामप्रत्ययस्पर्धकप्ररुपणा। तथा प्रकृष्टो योगः प्रयोगः, तेन प्रत्ययभूतेनकारणभूतेन ये गृहीताः पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररुपणा प्रयोगप्रत्ययस्पर्ध कप्ररुपणा तका प्रथमतः स्नेहप्रत्ययस्पर्धकप्ररुपणार्थमाह - नेहप्पचयफडग-मेगं अविभामवग्गणा जंता। हस्सेण बहू बद्धा, असंखलोगे दुगुणहीणा / / 22 / / (नेह त्ति) स्नेहप्रत्यय-स्नेहनिमित्तम् एकैकस्नेहाऽविभाग वृद्धानां पुगलवर्गणानां समुदायरुपं स्पर्धकं स्नेहप्रत्यय स्पर्धकम्, तचैकमेव भवति। तस्मिँश्च स्पर्धकेऽविभागवर्गणा एकैकरनेहाविभागाऽधिकपरमाणुसमुदायरुपा वर्गणा अनन्ता द्रष्टव्याः। तत्र इस्वेन-अल्पेन स्नेहेन ये बद्धा-युक्ताः पुद्गलास्ते बहवः, अर्थाच्च प्रभूतेन स्नेहेन बद्धाः स्तोकाः। तथा असंखलोगे दुगुणहीण त्ति' आदिवर्गणायाः परतोऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणा वर्गणा अतिक्रम्य याऽनन्तरा वर्गणा तस्यां पुद्रलाः प्रथमवर्गणागतपुरलाऽपेक्षया द्विगुणहीना भवन्ति। पुनरपि ततोऽसंख्येयलोकाऽऽकाशप्रदेश प्रमाणा वर्गणा अतिक्रम्याऽनन्तरायां वर्गणाया पुद्रला द्विगुणहीना भवन्ति / एवं तावद्वाच्यं यावद्भक्ष्यमाणा संख्येयभाग हानिगता चरमा वर्गणा / इयमत्र भावना-इहयः सर्वोत्कृष्टः स्नेहः स केवलिप्रज्ञाच्छेदनकेन छिद्यते, छित्वा छित्वा च निर्विभागा भागाः पृथक पृथक् व्यवस्थाप्यन्ते। तत्र जगति ये केचित् परमाणव एकेन स्नेहस्य निर्वि भागेन भागेन युक्ताः सन्ति, तेषां समुदायः प्रथमा वर्गणा / ये पुनभ्यां स्नेहाऽविभागाभ्यां युक्ताः परमाणवः सन्ति, तेषां समुदायो द्वितीया वर्गणा / एवं त्रिभिः स्नेहा विभागैर्युक्तानां समुदायस्तृतीया वर्गणा / एवं संख्येयैः स्नेहाऽविभागैर्युक्तानां संख्येया वर्गणा वाच्याः। असंख्येयैः स्नेहाऽविभागैर्युक्तानां पुनरसंख्येया वर्गणाः / अनन्तैः स्नेहाऽविभागैर्युक्तानां त्वनन्ता वर्गणाः। द्विधा चात्र प्ररुपणा, तद्य