________________ बंधण 1161 - अभिधानराजेन्द्रः - भाग 5 बंधण हेति बन्धकः / बन्धकर्तृजीवेषु, जीवस्थानभेदभिन्नेषु, पं० सं०१ द्वार। ('जीवडाण' शब्दे चतुर्थभागे त दा दर्शिताः) बंधट्ठाण न० (बन्धस्थान)बन्धरूपे स्थानभेदे, आचा०१ श्रु०२ अ०१ उ01 ('ठाण' शब्दे चतुर्थभागे 1666 पृष्ठे वस्तरः) (बन्धनस्थानेषु बन्धोदयसत्तासंबंधमाश्रित्य भङ्गाः 'कम्म' शब्दे तृतीयभागे 261 पृष्ठे दर्शिताः। बंधण न० (बंधन) बध्यन्त इति बन्धनानि। "भुजि वत्यादिभ्यः कर्मापादाने"।५।३।१२८।। इति कर्मण्यनट। कर्म०२ कर्म०। बध्यतेजीवप्रदेशैरन्योन्यानुबेधरूपतया व्यवस्थाप्यत इति बन्धनम्। सूत्रा०१ शु०१७०१ उकासन्धाने, प्रश्न०१आश्र०द्वार। बन्धाऽऽदिविरचितैमयूरबन्धाऽऽदिभिः (उत्त 1 अ०) संयमे, प्रश्न०१ आश्र० द्वार। रज्जयादिना यन्त्रणे, औ०। सूत्र०। रज्जुनिगडाऽऽदिभिः संयमने, आव० 4 अ० किं बन्धनं किं वा तत्त्रोटनम् - बुज्झिज ति तिउट्टिज्जा, बंधणं परिजाणिया। किमाह बंधणं वीरो; किं वा जाणं तिउट्टई ?||1|| (बुध्येतेत्यादि) सूत्रामिदंसूत्रकृताङ्गाऽऽदौ वर्तते। अस्य चाऽऽचाराङ्गण सहाऽयं संबन्धः। तद्यथा--आचाराङ्गेऽभिहितम्-"जीवो छक्कायपरूवणा य तेसिं वडेण बधो ति" इत्यादि तत्सर्व बुध्येतेत्यादि, यदि वेह केषांचिद्वादिना ज्ञानादेव मुक्त्यवासिरन्येषां क्रियामात्रात्, जैनानां तूभाभ्यां निःश्रेयसाधिगम इत्वेतदनेन श्लोकेन प्रतिपाद्यते। तत्राऽपि ज्ञानपूर्विका क्रिया फलवती भवतीत्यादौ बुध्येत इत्यनेन ज्ञानमुक्तं , "त्रोटयेत्' इत्यनेन च क्रियोक्ता / तत्रायमर्थो-बुध्येत-अवगच्छेद्बोधं विदध्यादित्युपदेशः। किं पुनस्तबुध्येत सदाह बन्धनं बध्यतेजीवप्रदेशेरन्योन्यानुवेधरुपतया व्यवस्थाप्यत इति बन्धनंज्ञानाऽऽवरणाऽऽद्यष्टप्रकार कर्म तद्धेतवो वा मिथ्यात्वाऽविरत्यादयः, परिग्रहाऽऽरम्भाऽऽदयो वा। न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां दर्शयति- तच्च बन्धनं परिज्ञाय विशिष्टया क्रिययासंयमानुष्ठानरुपया त्रोटयेद्-अपनयेदात्मनः पृथक्कुर्यात्परित्यजेद्वा। एवं चाभिहितेजम्बूस्वाम्यादिको विनेयो बन्धाऽऽदिरुपं विशिष्ट जिज्ञासुः पप्रच्छ–किमाह-किमुक्तवान् बन्धनं वीरस्तीर्थकृत? किं वा जानन्-अवगच्छ स्तद्वन्धनं त्रोटयति ततो वा जुट्यतीति श्लोकार्थः // 1 // बन्धनस्वरुपनिर्वचनायाऽऽहचित्तमंतमचित्तं वा, परिगिज्झ किसामवि। अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चइ / / 2 / / (चित्तमंतमचित्तं वेत्यादि) इह बन्धनं-कर्म तद्धेतवो वाऽभिधीयन्ते। तत्रान निदानमन्तरेण निदानिनो जन्मेति, निदानमेव दर्शयति-तत्रापि सर्वाऽऽरम्भाः कर्मोपादानरुपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिकृत्वाऽऽदौ परिग्रहमेव दर्शितवान् / चित्तमुपयोगो ज्ञानं तद्विद्यते यस्य तचित्तवत्-द्विपदचतुष्पदाऽऽदि। ततोऽन्यद चित्तवत्-कनकरजताऽऽदि, तदुभयरुपमपि परिग्रह परिगृहा कृशमपिस्तांकमपि तृणतुषाऽऽदिकमपीत्यर्थः / यदि वा कसन कसः-परिग्रहणबुद्धया जीवस्य गमनपरिणाम इति यावत् / तदेवं स्वतः परिग्रहं परिगृह्याऽन्यान्या ग्राहयित्वा गृह्यतो वाऽन्याननुज्ञाय दुःखयतीति दुःखम्-अष्ट प्रकारं कर्म तत्फलं वा असालोदयाऽऽदिरुपं तरमान्न मुच्यत इति, परिग्रहाऽऽग्रह एव परमार्थतोऽनर्थमूलं भवति। तथा चोत्कम्'ममाऽद्दमिति चैष यावदभिमानदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युन्नशः / / यशःसुखपिपासितैरयमसावनों त्तरैः, परैरपसदः कुतोऽपि कथमप्यपाकृष्यते // 1 // " तथा च"द्वेषारथाऽऽयतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिः, व्याक्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः। दुखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च / / 1 / / तथा च परिग्रहेष्वप्राप्तनष्टषु काङ्काशोकौ प्राप्तेषु च रक्षणमुपभोगेऽतृप्तिरित्येवं परिग्रहे सति दुःखाऽऽत्मका बन्धनात्र मुच्यतं इति // 2 // परिग्रहवतश्चावश्यंभाव्यारम्भस्तस्मिंश्च प्राणातिपात इति दर्शयितुमाह - सयं तिवायए पाणे, अदुवा अन्नेहिं घायए। हणंतं वाऽणुजाणाइ, वेरं वड्वइ अप्पणो // 3 // (सयं तिवायए पाणे इत्यादि) यदि वा-प्रकारान्तरेण वन्धनमेवाऽऽह(सयंतीत्यादि) सपरिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च द्वेषमुपगतस्ततः स्वयम्-आत्मना त्रिभ्योमनोवाक्षायेभ्य आयुर्बलशरीरेभ्यो वा पातयेत् व्यावयेत् प्राणान-प्राणिनः, अकारलोपाद्वा अतिपातयेत् प्राणानीति। प्राणाश्चाऽमी "पञ्चेन्द्रियाणि त्रिविधं बलंच उच्छवासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिरक्ताःस्तेषां वियोजीकरणं तु हिंसा / / 1 / / " तथा स परिग्रहाऽऽग्रही न केवल स्वतो व्यापादयति, अपरैरपि घातयति, घ्नतश्चान्यान् समनुजानीते, तदेव कृतकारितानुमतिभिः प्राण्युपमर्दनेन जन्मान्तरशतानुबन्ध्यात्मनो वैरं बर्धयति, ततश्च दुःखपरम्परारुपाद् बन्धनान्न मुच्यते इति। प्राणाऽतिपातस्य चोपलक्षणार्थत्वात् मृषावादाऽऽदयो ऽपि बन्धहेतवो द्रष्टव्या इति // 3 // पुनर्बन्धनमेवाऽऽश्रित्याऽऽहजस्सिं कुले समुप्पन्ने, जेहिं वा संवसे नरे। ममाइ लुप्पई बाले, अण्णे अण्णेहिं मुच्छिए|४|| (जस्सिमित्यादि) यस्मिन्-राष्ट्रकूटाऽऽदौ कुले जातो, यैर्वासइ पांसुक्रीडितैर्वयस्यैर्भार्याऽऽदिभिर्वासह संबसेन्नरस्तेषु मातृपितृ भ्रातृ भगिनीभार्यावयस्याऽऽदिषु ममाऽयमिति-ममत्ववान् स्निान लुप्यतेविलुप्यते, ममत्वजनितेन कर्मणा नारकतिर्यड्मनुष्या-भरलक्षणे संसारे भ्रम्यमाणो बाध्यते-पीड्यते। कोऽसौ? बालः-अशः, सदसद्विवेकरहितत्वादन्येष्वन्येषु च मूर्छितोगृद्धो-ऽध्युपपन्नो, ममत्वबहुल इत्यर्थः। पूर्वे तावन्मातापित्रोस्तदनु भार्यायां पुनः पुत्राऽऽदौ स्नेहवानिति / / 4 / /