________________ बंध 1160 - अभिधानराजेन्द्रः - भाग 5 बंध यतमानस्य पापं कर्म न बध्यतेअजयं चरमाणो य, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कुडुयं फलं ||1|| अजयं चिट्ठमाणो य, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कडुयं फलं // 2 // अजयं आसमाणो क, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कऽयं फलं / / 3 / / अजयं सयमाणो य, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कडुयं फलं // 4 // अजयं भुंजमाणो य, पाणभूयाइँ हिसंइ। बंधई पावयं कम्म, तं से होइ कडुयं फलं / / 5 / / अजय भासमाणो अ, पाणभूयाइँ हिंसइ। बंधई पावयं कम्म, तं से होइ कडुयं फलं // 6|| अयतं चरन्नयतम् अनुपदेशेनाऽसूत्राज्ञयेति, क्रियाविशेषणतत्, चरन्-- गच्छन, तुरेवकारार्थः, अयतमेव चरत्, ईर्यासमितिमुल्लडष्य न त्वन्यथा, किमित्याह - प्राणिभूतानि हिनस्तिप्राणिनोद्दीन्द्रियादयः, भूतानि -एकेन्द्रियास्तानि हिनस्तिप्रमादाऽनाभोगाभ्यां व्यापादयतीति भावः, तानि च हिंसन बध्नाति पापं कम्मं अकुशलपरिणामादादत्ते क्लिष्टज्ञानाऽऽवरणीयाऽऽदि तत् (से) भवति कटुकफलं तत्पापं कर्म (से) तस्य-अयतचारिणो भवति, क टुकंफलमित्यनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहाऽऽदिहेतुतया विषाकदारुणमित्यर्थः // 1 // एवमयतं तिष्ठन्नूर्द्धस्थानेनासमाहितो हस्तपादाऽऽदि विक्षिपन शेष पूर्ववत् ॥सा एवमयतमासीनोनिषण्णतया अनुपयुक्त आकुचनाऽऽदिभावेन शेष पूर्ववत् / / 3 / / एवमयतं स्वपन्नसमाहितो दिवा प्रकामशय्याऽऽदिना वा, शेष पूर्ववत् / / 4 / / एवमयतं भुजाना निःप्रयोजन प्रणीतं काकशृगालभक्षिता दिना का, शेषं पूर्ववत्।।५।। एवमयत भाषमाणो गृहस्थभाषयानिष्ठुरमन्तरभाषाऽऽदिना वा, शेष पूर्ववत्॥६॥ अत्राऽऽह-यद्येवं पापकर्मबन्धस्ततः सूत्रमकहं चरे कहं चिट्टे, कहमासे कह सए। कहं भुंजतो भासंतो, पावं कम्मं न बंधइ ?||7|| कथं-केन प्रकारेण चरेत् कथं तिष्ठेत्, कथमासीत्, कथं स्वपेत, कथं भुजानो भाषमाणः पापं कर्म न बध्नाति / / 7 / / आचार्य आह सूत्राम -- जयं चरे जयं चिट्टे, जयमासे जयं पए। जयं भुजंतो भासंतो, पावं कम्मं न बंधइ ||8|| यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेत् समाहितो हस्तपादाऽऽद्यविक्षेपेण यतमासीत-उपयुक्त आकुञ्चनाऽऽद्य करणेन्, यतं स्वपेत्समाहितो रात्रौ प्रकामशय्याऽऽदि परिहारेण यतं भुजानः-सप्रयोजनमप्रणीत प्रतरसिंहभक्षिताऽऽदिना, एवं यतं भापमाणः साधुभाषया मृदु कालप्राप्तं च पापं कर्म क्लिष्टम्-अकुशलानुवन्धि ज्ञानाऽऽवरणीयाऽऽदि न बध्नाति नाऽऽदत्ते, निराश्र(स्र)वत्वा द्विहितानुष्ठानपरत्वादिति।।८।। किंच-सूत्रम् सव्वभूयप्पभूयस्स, सम्मं भूयाई पासओ! पिहियासवस्स दंतस्स, पावं कम्मं न बंधइ / / 6 / / सर्वभूतेष्वात्मभूतः सर्वभूताऽऽत्मभूतः, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः तस्यैवं सम्यग्वीतरागात्केन विधिना भूतानिपृथिव्या-दीनि पश्यतः सतः पिहिताऽऽश्रवस्य स्थगितप्राणातिपातऽऽद्याश्रवस्य दान्तस्य इन्द्रियतोइन्द्रियदमेन पापं कर्म न बध्यतेतस्य पापकर्मबन्धो न भवतीत्यर्थः / / 6 / / एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवतीति। ततश्च सर्वाऽऽत्मना दयायामेव यतितव्यम्, अलं ज्ञानाऽऽभ्यासे नाऽपि मा भूत् अव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाऽऽहपढमं नाणं तओ दया, एवं चिट्ठइ सव्वसंजए। अन्नाणी किं काही, किंवा नाही छे अपावगं // 50|| प्रथमम् आदौ ज्ञान-जीवस्वरुप संरक्षणोपायफलविषयं ततः-तथाविधज्ञानसमनन्तरं दयासंयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवम्-अनेन प्रकारेण ज्ञान पूर्वक क्रियाप्रतिपत्तिरुपेण तिष्ठित--आस्ते सर्वसंयतः. सर्वःप्रवजितः, यः पुनरज्ञानीसाध्योपायफलपरिज्ञानविकलः स किं करिष्यति? सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्तिनिमित्ता भावात, किंवा कुर्वन् ज्ञास्यति छेक-निपुणं हितं-कालाचितं पापकं वा अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समप्रनिमित्ताभावादन्धप्रदीप्तपलायनघुणा क्षरकरणवत् / अत एवान्याप्युक्तम'गीयत्थो य विहारो बीयो गीयत्थमीसिओ भणिओ।' इत्यादि। अतो ज्ञानाभ्यासः कार्यः। तथा चाऽऽह सूत्रमसोचा जाणइ कल्लाणं, सोचा जाणइ पावगं। उभयं पि जाणई सोचा जं छेयं तं समायरे / / 11 / / श्रुत्वा-आकर्ण्य ससाधनस्वरुपविपाकं जानाति-बुद्धयते कल्याण कल्पो-मोक्षस्तमणति नयतीति कल्याणंदयाऽऽख्यं संयमस्वरुप, तथा श्रुत्वा जानाति पापकम्-असंयमस्वरूपम्, उभयभपि संयमाऽसंयमस्वरुपं श्रावकोपयोगि जानाति श्रुत्वा, नाऽश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकनिपुणं हितं-कालोचितं तत्समाचरेत् कुर्यादित्यर्थः। उक्तमेवार्थं स्पष्टयन्नाह सूत्रम्जो जीवे वि न याणइ, अजीवे वि न जाणइ। जीवा जीवे अयाणंतो, कह सो नाहीइ संजमं?|१२|| जो जीवे वि वियाणेइ, अजीवे वि वियाणइ। जीवाजीवे वियाणंतो, सो हुनाहीइ संजमं / / 13 / / यो जीवनपि-पृथिवीकायिकाऽऽदिभेदभिन्नान् न जानाति, अजीवानपि-संयमोपघातिनो मद्यहिरण्याऽऽदीन् न जानाति, जीवाजीवानजानन कथमसौ ज्ञास्यति संयमं? तद्विषयं तद्विषयाज्ञानादिति भावः ॥१२सा ततश्च यो जीवनपि जानात्य जीवानपि जानाति जीवाजीवान्विजानन् स एव ज्ञास्यत्ति संयममिति। प्रतिपादितः पञ्चम उपदेशाऽ धिकारः / दश०४ अग बंधग पु० (बन्धक) बध्नात्यनेक प्रकारं कम प्रदेशै: स