________________ बंध 1176 - अभिधानराजेन्द्रः - भाग 5 बंध मनुभागस्थानकमुत्तिष्ठतीत्येवं सर्वेष्वपि कषायकर्मस्कन्धेष्व संख्येयलोकाऽऽकाशप्रदेशप्रमाणान्यनुभागस्थानानि भवन्ति / ज्ञानाऽऽवरणाऽऽदिसमस्त कर्मस्कन्धेष्वप्येत्तावन्त्येवामूनि भवन्ति, परं तावदिह कषाया एव कारणत्वेन षिचारयितुं अक्रान्ताः, तत्राच-जघन्यान्यनुभागस्थानान्युत्कृष्टतश्चतुरः समयान्णवदुदये समागच्छन्ति, मध्यमानितु कानिचिदद्धौ समयौ, कानिचित्रीन समयान्, अपराणि चतुरः समयान्. अन्यानिपञ्च समयान्, अन्यानिषट् समयान्, अपराणि सप्त समयान्, अन्यान्यष्टौ समयान्यावदुत्कृष्टत उदये समागच्छन्ति। उत्कृष्टानुभागस्थानान्मुत्कृष्टतोद्वौसमयौयावदुदयेसमागच्छन्ति, ततः परं सर्वत्रान्यत् परावर्तते। जघन्यस्तु सर्वाण्यपि समयस्थितीन्येव भवन्ति; अतस्तज्जघन्यमध्यमोत्कृष्टभेदभिन्नोऽव्यवसायोऽप्येतावत्का लस्थितिक एव भवति, तेन च जघन्याऽऽदिभेदेनाध्यवसायवैचित्र्येण बध्यमानकर्मानुभागो जघन्याऽऽदिभेदविचित्रो जन्यते, अतः कषायानुभागजनिताध्यवसायवैचित्र्यनिर्वय॑ त्वात्कर्मणामनुभागः कषायप्रत्ययः सिद्धः / मिथ्यात्वाविरतिकारणद्वयाभावेऽपि कषायसद्भावेऽपि प्रमत्ताऽऽदिषु स्थित्यनुभागबन्धौ भवतः, कषायाभावे तूपशान्तमोहऽऽदिषु न भवतः, इतीहाप्यन्वयव्यतिरेकाभ्यां ज्ञायते कषाया एव स्थिरयनुभागबन्धयोः प्रधानं कारणमिति / / 16 / / कर्म०५ कर्म०। ___ अधुना बन्धस्य मूलहेतून गुणास्थानकेषु चिन्तयन्नाह -- 'इगचउपणतिगुणेसु" इत्यादि / इहेवं पदघटना एकरिमन्मिथ्या दृष्टिलक्षणे गुणस्थानके चत्वारो मिथ्यात्वा विरतिकषाययोगलक्षणाः प्रत्ययाहेतवो यस्य स चतुःप्रत्ययो बन्धो भवति। अयमर्थ:-मिथ्यात्वा दिभिश्चतुर्भिः प्रत्ययैर्मिथ्यादृष्टिगुणस्थानकवर्ती जन्तुर्मानाऽऽवरणाऽऽदिकर्म बध्नाति। तथा चतुर्पु गुणस्थानकेषु सास्वादनमिश्राऽविर तदेवशविरतिलक्षणेषु त्रयो मिथ्यात्ववर्जिता अविरतिकषाय योगलक्षणाः प्रत्यया यस्य स त्रिप्रत्ययो बन्धो भवतीति। अयमर्थः-सास्वादनाऽऽदयश्चत्वारो मिथ्यात्योदयाभावात्तद्वर्ज स्त्रिाभिः प्रत्ययैः कर्म बध्नन्ति देशविरत गुणस्थानके यद्यपि देशतः स्थूलप्राणातिपातविषया विरतिरस्ति तथापि साऽल्पत्वान्नेह विवक्षिता, विरतिशब्देनेह सर्वविरतेरेव विवक्षितत्वादिति / तथा पञ्चसु गुणस्थान केषु प्रमत्ताऽप्रमत्ताऽपूर्वकरणाऽनिवृत्तिबादरसूक्ष्मसंपरायलक्षणेषु द्वौ प्रत्ययो कषाययोगाभिख्यौ यस्य स द्विप्रत्ययो बन्धो भवति / इदमुत्कं भवतिमिथ्यात्वाविरतिप्रत्यय द्वयस्यैतेष्वभावाच्छेषेण कषाययोगप्रत्ययद्वयेनाऽमी प्रमत्ताऽऽदयः कर्म बध्नन्तीति। यथा त्रिखूपशान्तमोहक्षीणमोह सयोगिकेवलिलक्षणेषु गुणस्थानकेषु एक एव मिथ्यात्वाऽविरति कषायाऽभावाद्योगलक्षणः प्रत्ययो यस्य स एकप्रत्ययो भवति। अयोगिकेवली भगवान् सर्वथाऽप्यबन्धक इति // 52 // भाविता मूलबन्धहेतवो गुणस्थानकेषु / संप्रत्येतानेव मूलबन्धहेतून विनेयवर्गानुग्रहार्थमुत्तर प्रकृतीराश्रित्य चिन्तयन्नाह - चउ मिच्छमिच्छअविरइ, पञ्चइया सायसोलपणतीसा। जोगे विणु तिपचइया - हारगजिणवञ्ज सेसाओ / / 53 / / प्रत्ययशब्दस्य प्रत्येक संबन्धाचतुःप्रत्ययिका सातलक्षण प्रवृत्तिः / मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः / मिथ्यात्वाविरति प्रत्ययिकाः पञ्चत्रिंशत्प्रतयः। योग बिना त्रिप्रत्ययिका मिथ्यात्वा विरतिकषायप्रत्ययिकाऽऽहारकद्विकजिनवर्जाः शेषाः प्रकृतय इति गाथाऽक्षरार्थः / भावाऽर्थः पुनरयम्-सात लक्षणा प्रकृतिश्चत्वारः प्रत्ययामिथ्यात्वाऽविरतिकषाययोगा यस्याः सा चतुःप्रत्ययिका / "अतोऽनेकस्वरात्" ||7 / 2 / 6 / / इति इकप्रत्ययः मिथ्यात्वाऽऽदिभिश्चतुर्मिरपि प्रत्ययैः सातं बध्नत इत्यर्थः / तथाहि-सातं मिथ्यादृष्टौ बध्यत इति मिथ्यात्वप्रत्ययं, शेषा अप्यविरत्या दयस्त्रयः प्रत्ययाः सन्ति, केवलं मिथ्यात्वस्यैवेह प्राधान्येन विवक्षितत्वात्, तेन तदन्तर्गगत्वेनैव विवक्षिताः, एवमुत्तत्रापि। तदेव मिथ्यात्वाभावे ऽप्यविरतिमत्सु साखादनाऽऽदिषु बध्यत इति अविरतिप्रत्ययम् / तदेव कषाययोगवत्सु प्रमत्ताऽऽदिषु सूक्ष्मसंपरायाऽवसानेषु बध्यत इति कषायप्रत्ययम् / योगप्रत्ययस्तु पूर्ववत्तदन्तर्गतो विवक्ष्यते। तदेवोपशान्ताऽऽदिषु केवलयोगवत्सु मिथ्यात्वाऽविरतिकषायाभावेऽपि बध्यत इति योगप्रत्ययम् / इत्येवं सातलक्षणा प्रकृतिश्चतुः प्रत्ययिका / तथा मिथ्यात्वप्रत्ययिकाः षोडश प्रकृतयः / इह यासां कर्मस्तवे-"नरयतिग जाइयावर चउहुंडायव छेवड्डनपुमिच्छं। सोलतो "इति गाथाऽवयवेन नारकत्रिकाऽऽदिषोडशप्रकृतीनां मिथ्यादृष्टावन्त उक्तः, ता मिथ्यात्वप्रत्यया भवन्तीत्यर्थः / तद्भावे बध्यन्ते तद्भावे तत्तरत्रा सास्वादनाऽऽदिषु न बध्यन्त इत्यन्वयव्यतिरेकाभ्यां मिथ्यात्वमेवासां प्रधान कारणं, शेषप्रत्ययायं तु गौणमिति / तथा मिथ्यात्वाऽविरतिप्रत्ययिकाः पञ्चत्रिंशत्प्रकृतयः / तथाहि -''सासणि तिरि थीण दुहग तिग, अणुमज्झागिइ संघयण चउ निउज्जोय कुखगइरिथ' इति सूत्रााऽवयवेन तिर्यत्रिकप्रभृतिपञ्चविंशतिप्रवृत्तीनां सास्वादने बन्धव्यवच्छेद उत्कः। तथा-''वहरनरतियवियकसाया-उरलदुगंतो 'इति सूत्रावयवेन वज्रर्षभनाराचाऽऽदीनां दशानां प्रकृतीनां देशविरते बन्धव्यच्छेद उत्कः एवं च पञ्चविंशतेर्दशानां च मीलने पञ्चत्रिंशत् प्रकृतयो मिथ्यात्वाऽविरतिप्रत्ययिका एताः शेषप्रत्ययद्वयं तु गौण, तद्भावेऽप्युत्तरत्रा तद्वन्धाऽभावादिति भावः / भणितशेषा आहारका द्विकतीर्थकरनामवर्जाः सर्वा अपि प्रकृतयो योगवर्जा त्रिप्रत्ययिका भवन्ति, मिथ्यादृष्टयविरतेषु सकषायेषु च सर्वेषु सूक्ष्मसंपरायायसानेषु यथा संभवं बध्यन्त इति मिथ्यात्वाऽविरतिकषायलक्षण प्रत्ययत्रयनिबन्धा भवन्तीत्यर्थः उपशान्तमोहाऽऽदिषु केवलयोगवत्सु योगसद्भावे ऽप्येतासांबन्धो नास्तीति योगप्रत्ययवर्जनमन्वयव्यतिरे कसमधिगम्यत्वात्कार्यकारणभावस्येति इदयम्। आहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणाऽऽहारकद्विक तीर्थकर नाम्नोस्तु प्रत्ययः ‘सम्मत्तगुणनिमित्तं, तित्थयरं संजमेण आहारं" इति वचनात् संयमः-सम्यक्तवं धाऽभिहित इतीह तर्जनमिति // 53 // उत्कं प्रासङ्गिकम्। इदानीमुत्तरबन्धभेदान् गुणस्थानकेषु चिन्तयन्नाह - पणन्न पन्न पन्ना तिय-छहियचत्त गुणचत्तछ घउ दुगवीसा। सोलक दस नव नव, सत्त हेउणो न उ अजोगिम्मि / / 54 / / मिथ्यादृष्टी पञ्चपञ्चाशद्बन्धहेतवः / सासादने पञ्चाशद् ब