________________ बंध 1150 - अभिधानराजेन्द्रः - भाग 5 बंध न्धहेतवः / चतुःशब्दस्य प्रत्येक संबन्धात्यधिकचत्वारिं शदित्यर्थः, बन्धहेतवो मिश्रगुणस्थानके / षडभिकचत्वारिंशद् बन्धहेतवोऽविस्तगुणस्थानके / एकोनचत्वारिंशद् बन्धहेतवो देशविरतगुणस्थानके / विंशतिशब्दस्य प्रत्येक संबन्धात्षडिवशतिबन्धहेतवः प्रमत्तगुणस्थाने। चतुर्विशतिबन्धहेतवो ऽप्रमत्तगुणस्थानके / द्वाविंशतिबन्धहेतवोऽपूर्वकरणे / षोडशबन्धहेतवोऽनिवृत्तिबादरे। दशबन्धहेतवः सूक्ष्मसंपराये। नव बन्धहेतत्र उपशान्तमोहे / नवबन्धहेतवः क्षीणमोहे। सप्तबन्धहेतवः सयोगिकेवलिगुणस्थाने / न तु नैवाऽयोगिन्येकोऽपि बन्धहेतुरस्ति, बन्धाऽभावादेवेति // 54 // अथाऽमूनेव बन्धहेतून् भावयन्नाहपणपन्न मिच्छि हारग-दुगूण सासाणि पन्न मिच्छ विणा। मिस्सदुकम्म अण विणु, तिचत्त मीसे अह छ चत्ता / / 55 / / मिथ्यादृष्टावाहारकाऽऽहारकमिश्रलक्षणद्विकोनाः पञ्चपञ्चाशदपन्धहेतयो भवन्ति, "आहारकद्विकवर्जनं तु संयमवतां तदुदयो नाऽन्यस्य' इति वचनात्। सास्वादने मिथ्यात्वपञ्चकेन विना पञ्चाशबन्धहेतवो भवन्ति, पूर्वोत्कायाः पञ्चाशतो मिथ्यात्वपञ्चकेऽपनीते पञ्चाशद् बन्धहेतवः सासादने द्रष्टव्याः। मिश्रे त्रिचत्वारिंशद् बन्धहेतवो भवन्ति। कथमित्याह--मिश्रद्विकमौदारिकमिश्रवैक्रियमिश्रलक्षणम्, (कम्मत्ति) कार्मणशरीरम् (अण त्ति) अनन्तानुबन्धिनस्तैर्विना / इयमत्रा भावना'न सम्ममिच्छो कुणइ कालं'' इतिवचनात् सम्यग्मिथ्यादृष्टः परलोकगमना भावादौदारिक मिश्रवैक्रियमिश्रद्विकं कार्मणं च न संभवति, अनन्तानुबन्ध्युदयस्य चाऽस्य निषिद्धत्वादनन्तानुवन्धि चतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वोत्कायाः पञ्चाशतोऽपनीतेषु शेषास्त्रिचत्वारिंशद्बन्धहेतवो मिश्रे भवन्ति / अथाऽनन्तरं षट्चत्वारिंशद्वन्धहेतवो भवन्ति // 55 // सदु मिस्सकम्म अजए, अविरइकम्मुरलमीसविकसाए। मुत्तु गुणचत्त देसे, छवीस सहारदु पमत्ते // 56 / / केत्याह-अयते-अविरते, कथमित्याह-(सदु मिस्सकम्मत्ति) द्वयोर्मिश्रयोः समाहारो द्विमिश्र, द्विमिश्रंच कार्मणं च द्विमिश्रकार्मणं, सह द्विमिश्रकार्मणेन वर्तते या त्रिचत्वारिंशत्। इयमत्रा भावना-अविरतसम्यग्दृष्टः परलोकगमनसंभवात् पूर्वाऽपनीतमौदारिकमिश्रवैक्रिय मिश्रलक्षणद्विक कार्मणं च पूर्वोत्कायां त्रिचत्वारिंशति पुनः प्रक्षिप्यते, ततोऽविरते षट्चत्वारिंशबन्धहेतवो भवन्ति। तथा देशे-देशविरते एकोनचत्वारिशद्वन्धहेतवो भवन्ति। कथमित्याह-अविरतिस्रसाऽसंयमरूपा, कार्मणम्, औदारिकमिश्र, द्वितीय कषायानप्रत्याख्यानाऽऽवरणन मुक्तवा शेषा एकोनचत्वारिदिति। अत्रायमाशयः-विग्रहगतावपर्याप्तकाव स्थायां च देशविरतेरभावात्कार्मणो दारिकमिश्रद्वयं न संभवति, सासंयमाद्विरतत्वालासाविरतिर्न जाघटीति / ननु त्रसासंयमात् संकल्पजादेवासी विरतो नत्वारम्भजादपि तत्कथमसौ त्रासाविरतिः सर्वाऽप्यपनीयते? सत्य, किं तु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजात्र साविरतिर्न | विवक्षितेत्यदोषः एतच्च वृहच्छतकबृहचूर्णि मनुसृत्य लिखितमिति न स्वमीनषिका परिमावनीया / तथाऽप्रत्याख्यानाऽऽवरणोदयस्याऽस्य निषिद्धत्वादित्यप्रत्याख्या नाऽऽवरणचतुष्टयं न घटा प्राञ्चति, तत एते सप्त पूर्वोत्कायाः षटचत्वारिंशतोऽपनीयन्ते, तत एकोनचत्वारिंशद्वन्धहेतवः शेषा देशविरते। भवन्ति तथा षडिवशतिर्बन्धहेतवः प्रमत्ते भवन्ति (साहारदुत्ति) सहाऽऽहारद्विकेनाऽऽहारकाऽऽहार कमिश्रलक्षणेन वर्तते इति साऽऽहारकद्विका // 56|| अविरइ इगार तिकसा-यवज्ज अपमत्ति मीसदुगरहिया। चउवीस अपुव्वे पुण, दुवीस अविउव्वियाहोर / / 57 // साविरतेर्देशविरतेऽपनयनाच्छेषा एकादशाविरतय इह गृह्यन्ते / तृतीयाः कषायाः त्रिकषायाः प्रत्याख्यानाऽऽवरणास्त दर्जास्तद्विरहिता साहारकद्विका च सेवैकोनचत्वारिंशत्षडिंवशतिर्भवति। इदमत्रहृदयम्प्रमत्तगुणस्थान एकादशधाऽविरतिः प्रत्याख्यानाऽऽवरणचतुष्टयं च न संभवति, आहारकद्विक च संभवति, ततः पूर्वोत्काया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्ते षडिंवशतिबन्धहेतवः प्रमत्ते भवन्तीति / तथाऽप्रमत्तस्य लब्ध्यनुपजीवनेनाऽऽहारकमिश्रवैक्रियमिश्रलक्षणमिश्रद्विकरहिता सैव षडिवशतिश्चतुर्विशतिर्बन्धहेतवोऽप्रमत्ते भवन्ति। अपूर्वे-अपूर्वकरणे पुनः सैव चतुर्विशतिक्रियाऽऽहारकरहिता द्वाविंशतिबन्धहेतवो भवन्तीति / / 57 // अछहास सोल बायरि, सुहुमे दस वेयसंजलणति त्रिणा। खीणुवसंति अलोभा, सजोगि पुव्वुत्त सय जोगा।।५८ / / एते च पूर्वोत्का द्वाविंशतिबन्धहेतवः 'अछहासा' - हास्यरत्यरतिशोकभय जुगुप्सालक्षणहास्यषहरहिताः षोडश बन्धहेतवः (बायरि त्ति) अनिवृत्तिबादरसंपरायगुणस्थानके भवन्ति, हास्याऽऽदिषट्कस्यापूर्वकरणगुणस्थानक एवं व्यवच्छिन्नत्वादिति भावः / तथा त एव षोडशत्रिकशब्दस्य प्रत्येक संबन्धद्वेदत्रिकं स्त्रीपुंनपुंसकलक्षणं सज्वलनकि संज्वलनक्रोधमानमायारुप, तेन विना दश बन्धहेतवः सूक्ष्मसंपराये भवन्ति / वेदत्रायस्य संज्वलनक्रोधमानमायात्रिक कस्य चानिवृत्तिबादरसंपरायगुणस्थानक एव व्यवच्छिन्नत्वात्।तएव दश अलोभाः-लोभरहिताः सन्तो नव बन्धहेतवः / क्षीणमोहे उपशान्तमोहे च भवन्ति, मनोयोगचतुष्कवाग्यो गचतुष्कौदारिक काययोगलक्षणा नव बन्धहेतव उपशान्तमोहे क्षीणमोहे च प्राप्यन्ते, न तु लोभस्तस्य सूक्ष्मसंपराय एव व्यवच्छिन्नत्वात् / सयोगिकेवलिनि पूर्वोक्ताः सप्त योगाः / तथाहिऔदारिकमौदारिकमिश्र कार्मण प्रथमान्ति मौ मतोयोगौ प्रथमान्तिमौ वाग्योगौ चेति। तत्रौदारिकसंयोग्य वस्थायामौदारिकमिश्रकार्मणकाययोगो समुद्घातावस्थायामेव वेदितव्यौ। "मिश्रौदारिकयोक्ता, सप्तमषष्ठद्वितीयेषु / कार्मण शरीरयोगी, चतुर्थक पञ्चमे तृतीये च // 1 // ' इति प्रथमान्ति ममनोयोगी भगवतोऽनुत्तरसुराऽऽदिभिर्मनसा पृष्टस्य मनसैव देशनात् प्रथमान्तिमवाग्योगौ तु देशनाऽऽदिकाले / अयोगिकेवलिनि न कश्चिद्वन्धहेतुर्योगस्यापि व्यवच्छिन्नत्वात् / / 55 / / उत्का गुणस्थानकेषु बन्धहेतवः। कर्म० 5 कर्म० (बन्धोदयसत्ता संबेधचिन्ता च गुणस्थानकेषु जीवस्थानेषु च 'कम्म' शब्दे तृतीयभागेऽधिका कृता)।