________________ बंध 1178 - अभिधानराजेन्द्रः - भाग 5 बंध कं बन्धाध्यवसायस्थान त स्मिन्नपि देश क्षेत्रकालभावजीव भेदेनां संख्येयलोकाऽऽकाश प्रदेशप्रमाणन्यनु भागबन्धा ध्यवसायस्थानानि प्राप्यन्ते, द्वितीयाऽऽदिषु तु तान्यप्यधिका न्यधिकतराणि च प्राप्यन्त इति सवेष्वऽपि स्थितिबन्धा ध्यवसायस्थानेषु भावना कार्या, अतः स्थितिबन्धा ध्यवसायस्थानेभ्योऽनुभागबन्धाध्य वसाय स्थानान्य संख्येयगुणानीति / / 65 / / तत्तो कम्मपएसा, अणंतगुणिया तओ रसच्छेया। जोगा पयदिपएस, ठिइअणुभागं कसायाओ॥६६।। ततस्तेभ्योऽनुभागबन्धाध्यवसायस्थानेभ्यः कर्मप्रदेशाः-कर्मस्कन्धा अनन्तगुणिता भवन्ति / अयमत्र तात्पर्यार्थः प्रत्येकम भव्यानन्तगुणैः सिद्धानन्तभागवर्तिभिः परमाणुभिर्निष्पन्नान् भव्यानन्तगुणनेव स्कन्धान्मिथ्यात्वाऽऽ दिमिर्हेतुभिः प्रति समयं जीवो गृह्यतीत्युत्कम्, अनुभागबन्धाध्यवसायस्थानानितु सर्वाण्यप्यसंख्येयलोका ऽऽकाशप्रदेशप्रमाणन्येवामिहितानि,अतोऽनुभागबन्धाध्यवसाय स्थानेभ्यः कर्मेप्रदेशा अनन्तगुणाः सिद्धा भवन्ति / तथा (तओ रसच्छेय त्ति) ततस्तेभ्यःकर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणा भवन्ति। तथाहि-इह क्षीरनिम्बरसाऽऽधिश्रयणैरिवानुभागबन्धाध्यवसाय स्थानै स्तणऽलेष्विव कर्मपुगलेषु रसो जन्यते, स चै कस्यापि परमाणौः सम्बन्धी केवलिप्रज्ञया छिद्यमानः सर्वजीवनन्तगुणान विभागपलिच्छेदान् प्रयच्छति, यस्माद्भगादतिसूक्ष्मतपाऽन्यो भागो नोत्तिष्ठति सोऽविभागपलिच्छेद उच्यते, एवंभूताश्चानुभागस्याऽविभागपलिच्छेदा रसपर्यायाः सर्वकर्म स्कन्धेषु प्रतिपरमाणुसर्वजीवानन्तगुणाः संप्राप्यन्ते। उत्क-च-''गहणसमयम्मि जीवो, उप्पाएइ उगुणे सपचयओ। सव्वजियाणतगुणे, कम्मपएसेसुसव्वेसु / / 1 / / " गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् / कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वे अपि सिद्धानामप्यनन्तभाग एव वर्तन्तेऽतः कर्मप्रदेशेभ्यो रसच्छेदा अनन्तगुणाः सिद्धा भवन्ति इति। अत्राऽऽह-ननूक्तो भवद्भि सप्रपञ्च प्रदेशबन्धः, परं कस्माद्धेतोर# जीवः करोतीति वकत्व्यमिति प्रश्नमाशक्य प्रदेशबन्धस्य प्रसङ्गतः पूर्वोक्तानां प्रकृतिस्थि त्यनुभागबन्धानां च हेतून्निरुपयन्नाह - (जोगा पयडिपएस, टिइ अणुभाग कसायाओ त्ति) योगो, वीर्य, शक्तिः, उत्साहः, पराक्रम इति पर्यायाः / त स्माद्योगात्प्रकरणं प्रकृतिः, कर्मणां ज्ञानाऽऽवरणाऽऽदिस्वभावः, प्रकृष्टाः पुद्गलास्तिकायदेशाः प्रदेशाः कर्मवर्गणान्तःपातिनः, कर्मस्कन्धाः प्रकृतयश्च प्रदेशाश्च प्रकृतिप्रदेशं समाहारो द्वन्द्वः। तज्जीवः करोतीति शेषः। प्रकृति प्रदेशबन्धयोर्योगो हेतुरित्यर्थः। एतदुक्तं भवतियद्यपि षडशीतिकशास्त्रे मिथ्यात्वाविरिति कषाययोगाः सामान्येन कर्मणो बन्धहेतव उकात्स्तथाऽप्याद्यकारणत्रयाभावेऽप्युप शान्तमोहाऽऽदिगुणस्थानकेषु केवलयोगसद्धावे वेदनीयलक्षणा प्रकृतिस्तत्प्रदेशाच बध्यन्ते, अयोग्यवस्थायां तु योगाभावेन बध्यन्ते, इत्यन्वयव्यतिरेकाभ्यां ज्ञायते प्रकृतिप्रदेशबन्धयोर्योग एव प्रधानं कारणम्। तथा-(ठिइअणुभागं कसायाओ त्ति) स्थान स्थितिः कर्मणोऽन्तर्मुहूर्ताऽऽदिकं सप्ततिसागरोपमकोटी कोटी पर्यन्तमवस्थान मित्यर्थः / अनुपश्चाद्वन्धोत्तरकालं भजनंस्थितेः सेवनमनुभवनं यस्यासावनुभागो रस इत्यर्थः / स्थितिश्चानुभागश्च स्थित्यनुभागं समाहारो द्वन्द्वः / तज्जीवः करोतीति शेषः। कस्मादित्याह-कषायात् कषायवशात्। इयमत्र भावनाकषायाः क्रोधमानमायालोभास्तजनितो जीवस्याध्यवसायविशेषः कषायशब्देनेहोच्यते। कषाया हयुदीरणा नानाजीवानां कालभेदेनैकजीवस्य वा सर्वजघन्याया अवि ज्ञानावरणाऽऽदिकर्मस्थितेर्निवर्तकान्यसंख्येयलोकाऽऽकाशप्रदेश प्रमाणान्यन्तमॊहूर्ति कान्यध्यवसायस्थानानि जनयन्ति, समयाधिकतज्जधन्यस्थितिजनकानि तु त एव तेभ्यस्तानि विशेषाधिकानि जनयन्ति, द्विसमयाधिकतजघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, त्रिसमयाधिकतज्जघन्यस्थितिजनकानि पुनस्त एवानन्तरेभ्यस्तानि विशेषाधिकानि जनयन्ति, एवं समयोत्तवृद्धतज्जघन्यस्थितिजनकानि विशेषाधिकानि तावदाच्यानि यावत्त एव कषायाः समयोनोत्कृष्टज्ञानाऽऽवरणाऽऽदिस्थितिजनकाध्यवसायस्थानेभ्यः सर्वोत्कृष्टतत् स्थिति जनकाध्यवसायस्थानानि विशेषाधिकानि निर्वर्तयन्ति, एतानि सर्वाण्यपि मिलितान्यसंख्येयलोकाऽऽकाश प्रदेशप्रमाणन्येव भवन्ति।स्थाप्यमानानि च विषयचतुरस्त्रं क्षेत्रमास्तृणन्ति / स्थापना चेयम्-तदेवमेतैः कषायजनिताध्यवसायैजन्यत्वात् कर्मणः स्थिति कषायप्रत्यया सिद्धा। तथा तेषामेव कषायाणां संबन्धि यलिकमुदयं प्राप्तं तत्रा यदनुभागस्थानकमुदेतिः तेन जीवस्य योऽध्यवसायो जन्यते तद्वशेन बध्यमानकर्मणामनुभागो निष्पद्यते / तथाहि-इह तावदनन्तैः परमाणुभिर्निष्पन्नान् स्कन्धान जीवः कर्मतया गृह्यति, तायैकैकस्कन्धे यः सर्वजघन्यरसः-परमाणुः सोऽपि केवलिप्रज्ञया छिद्यमानः किल सर्वजीवेभ्योऽनन्तगुणान् भागान् प्रयच्छति, अपरस्तुतानप्येकाधिकान्, अन्यस्तुतानपि व्याधिकानित्यादिवृद्धया तावन्नेयं यावदन्त्य उत्कृष्टरसः परमाणुमौलर शेरनन्तगुणानपि रसभागान् प्रयच्छति। अत्र च जघन्यरसा ये केचन परमाणुवस्तेषु सर्वजीवानन्तगुणरसभागयुत्केष्वप्यसत्कल्पनया शतं रसांशानां परिकल्प्यते। एतेषां च समुदायः समानजातीयत्वादेका वर्गणेत्यभिधीयते। अन्येषां त्वेकोत्तरशतरसभागयुत्कानामणूना समुदायो द्वितीयाऽन्या वर्गणा। अपरेषांद्वयुत्तरशतरसभागयुत्कानामणूनां समुदायस्तृतीयावर्गणा / अपरेषां तुव्युत्तरशतरसभागयुत्का नामणूनां समुदायश्चतुर्थी वर्गणा / एवमनयादिशा * एकैकर सभागवृद्धानामणूनां समुदायरूपा वर्गणा सिद्धानामनन्तभागे ऽभव्येभ्योऽनन्तगुणा वाच्याः / एतासां चैतावतीनां वर्गणानां समुदायः स्पर्धकमित्युच्यते, स्पर्धन्तु इवाऽत्रोत्तरोत्तररसवृद्धया परमाणुवर्गणेति कृत्वा / एताश्चानन्तरोत्कानन्तकप्रमाणा अप्यसत्कल्पनया षट्थाप्यन्ते, इदमेक स्पर्धकम् / इत ऊर्ध्वमेकोत्तरया निरन्तरवृद्धया वृद्धो रसो न लभ्यते, किं तर्हि सर्वजीवानन्तगुणैरेव रसभागैर्वृद्धो लभ्यत इति तेनैव क्रमेण द्वितीयं स्पर्धकमारभ्यते, ततस्तथैव तृतीयमिन्यादि यावदनन्तान्यनुभागस्पर्धकान्युत्तिष्ठन्ति / एषां चानुभागस्पर्धकानां सिद्धानन्तभागवर्तिनामभव्येम्योऽनन्त गुणानां समुदायः प्रथममनुभागस्थानकं भवति / अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण द्वितीय तावत्प्रमाणमेवानुभागस्थान कमुत्तिष्ठति। अपरेषुत्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीय