________________ बंध 1177 - अभिधानराजेन्द्रः - भाग 5 बंध न्ति / ननु जीवानामनन्तत्वात दाद्योगस्थानान्यनस्तानि करमान्न / भवन्ति? नैतदेवं, यत एवैकस्मिन् सदृशे योगस्थानेऽनन्ताः स्थावरजीवा वर्तन्ते, असास्त्वेकैकस्मिन् सदृशे योगस्थानेऽसंख्याता वर्तन्ते, तेषां च तदैककमेव विवक्षितम्, अतो विसदृशानि यथोत्कमानान्येव योगस्थानकानि भवन्ति / तथाऽपर्याप्ताः सर्वेऽप्येकैकस्मिन् योगस्थानके एकसमयमेवावतिष्टन्ते, ततः परमसंख्येयगुणवृद्धेषु प्रतिसमयभन्योऽन्ययोगस्थानकेषु संक्रामन्ति। पर्याप्तास्तु सर्वेऽपि स्वप्रायोग्ये सर्वजधन्ययोगस्थानके जघन्यतः समयमुत्कृष्टतश्चतुरः समयान् यावद्वर्तन्ते / ततः परमन्यद्योगस्थान कमुपजायते। स्वप्रायोग्योत्कृष्टयोगस्थानकेषु तुजघन्यतः समयमुत्कृष्टस्तु द्वौ समयौ / मध्यमेषु जघन्यतः समयमुत्कृष्टरन्तु कचित्वीन् क्वचिचतुरः क्वचित्पञ्च क्वचित षट् क्वचिप्तसप्त क्वचिदष्टौ समयान्यावद्वर्तन्ते इति, अयं चैतावानपि योगोक्वचित्सप्तमनः प्रभृतिसहकारिकारणवशात्प्यसंक्षिप्त सत्यमनोयोगासत्य मनोयोगसत्य मृषामनोयोगासन्यमृषा मनोयोगसत्यवाग्योगा सत्यवाग्योगसत्यमृषावाग्योगासत्य मृषावाग्योगादारिकमिश्र काययोगवैक्रियकाययोगवै क्रियमिअकाययोगाऽऽहारकमिश्रकाययोगकार्मणकाययोग भेदतः पञ्चदशधा प्रोक्तः, इत्यलं प्रसङ्गेन / एतेभ्यश्च योगस्थानेभ्योऽसंख्येयगुणाअसंख्यातगुणिताः (पयडि त्ति) भेदशब्दस्य प्रत्येक सम्बन्धात् प्रकृतिभेदा ज्ञानाऽऽवरणाऽऽदीनां भेदाः। (असंस्वगुण ति) पदमनुभागबन्धस्थानानि यावत्सर्वत्रा योजनीयम्। इयमत्र भावना-इह तावदावश्यकाऽऽदिष्ववधिज्ञानदर्शनयोः क्षयोपश मवैचित्र्यादसंख्यातास्ताव दा भवन्ति (भणिताः) ततश्चैतदावरणबन्धस्यापि तावत्प्रमाणा भेदाः संगच्छन्ते. वैचित्र्येण बद्धस्यैव विचित्राक्षयोपशमोपपत्तेरिति। कथं पुनः क्षयोपशमवैचित्र्येऽप्यसंख्येय भेदत्वं प्रतीयत इति चेदुच्यतेक्षेत्रतारतम्येनेति / तथाहि-सिमयाऽऽहारक सूक्ष्म पनकसश्वावगाहनामानं जघन्यमवधिद्विकस्यक्षेत्र परिच्छेद्यतयोत्कम्। यदाह सकलश्रुतपारदृश्वा विश्वानुग्रहकाम्यया विहितानेकशास्त्रसंदर्भो भगवान श्रीभद्रबाहुस्वामी - "जावइयतिसमयाऽऽहारगस्स सुहमरस पणयजीवस्स / ओगाहणा जहन्ना, ओहिक्खेत्तं जहन्नं तु॥१॥" उत्कृष्टं तु सर्वबहुतैजस्कायिकजन्तूनां शुचिः सर्वतो भ्रमिता यावन्मात्रं क्षेत्रां स्पृशति तावन्मात्रां तस्य प्रमाणं भवति / यदाहुः श्रीमदाराष्यपादा:- "सव्वबहुअगणिजीवा, निरंतर जत्तियं भरिजंसु / खेत्तं सव्वदिसागं, परमोहिक्खेत्तनिहिट्ठो // 1 // " इति ततो जघन्यात्क्षेत्रादारभ्य प्रदेशवृद्धया प्रवृद्धोत्कृष्टक्षेत्राविषयत्वे सत्यसंख्येयभेदत्वमवधिद्विकरय क्षेत्रातारतम्येन भवति, अतस्तदावारकस्यावधिद्विकस्यापि नानाजीवानां क्षेत्राऽऽदिभेदेन बन्धवैचित्र्यादुदयवैचित्र्याद्वाऽसंख्येयगण भेदत्वम् / एवं नानाजीवानाश्रित्य मतिज्ञानाऽऽवरणाऽऽदीना शेषाणामप्यावरणानां तथाऽन्यासामपि सर्वासा मूलप्रकृतीनामुत्तरः-प्रकृतीनां च क्षेत्राऽऽदिभेदेन बन्धवैचित्र्यादुदयवैचित्र्याद्वाऽसंख्याता भेदाः संपद्यन्ते इति। उत्कं च"जम्हा उ ओहिविसओ, उक्कोसो सव्वबहुयसिहिसूई। जत्तियमित्तं फुसई, तत्तियमित्तप्पएससमो।।१।। तत्तारतम्मभेया, जेण बहुं हुति आवरणजणिया। तेणासखगुणं तं, पयडीण जोगओ जाणे ॥२॥'इति। चतसृणामानुपूर्वीणां बन्धोदयवैचित्र्येणासंख्याता भेदास्ते च लोकस्यासंख्येयभागवर्तिप्रदेशराशितुल्या इति बृहच्छतकचूर्णिकारोत्को विशेषः / ननु जीवानामनन्तत्वात्तेषां बन्धोदयवैचित्र्येणानन्ता अपि प्रकृतिभेदाः करमान्न भवन्ति?, नैतदेव, सदृशानां बन्धोदयानामेकत्वेन विवक्षितत्याद्विसदृशास्त्वेतावन्त एव तद्भेदा भवन्ति। ते च भेदाः प्रकृति भेदत्वात्प्रकृतय इत्युच्यन्ते / ततश्च योगस्थानेभ्योऽसंख्यात गुणाः प्रकृतयः यत एकैकस्मिन् योगस्थाने वर्तमान नाजीवैः कालभेदादेकजीवेन वा सर्वा अप्येताः प्रकृतयोबध्यन्तइति तथा तेभ्यः प्रकृतिभेदेभ्यः स्थितिभेदाः स्थितिविशेषा अन्तर्मुहूर्तसमयाधिकान्त मुहूर्त द्विसमयाधिकान्तर्मुहूर्तत्रिसमयाधिकान्तर्मुहूर्ताऽऽदिलक्षणा असंख्यातगुणा भवन्ति, एकैकस्याः प्रकृतेरसंख्यातैः स्थिति विशेषैर्वध्यमानत्वात् / एकमेव हि प्रकृतिभेदं कश्चिज्जीवोऽन्येन स्थितिविशेषेण बध्नाति, स एव चतं कदाचिदन्येन, कदाचिदन्यतरेण कदाचिदन्यतमेनेत्येवमेकं प्रकृतिभेदमेकं च जीवमाश्रित्यासंख्याताः स्थितिभेदा भवन्ति, किं पुनः सर्वप्रकृतीः सर्वजीवानाश्रित्य प्रकृतिभेदेभ्यः स्थिति भेदानामसंख्यातगुणत्वमिति, अतः प्रकृतिभेदेभ्यः स्थितिभेदा असंख्यातगुणा भवन्ति इति। तथा स्थितिभेदेभ्यः सकाशात् स्थितिबन्धा-ध्यवसायाः पदैकदेशे पदसमुदायोपचारात् स्थितिबन्धाध्यवसायस्थानान्यसंख्यातगुणानि। तत्रा स्थानस्थितिः कर्मणोऽवस्थानं तस्या बन्धः स्थितिबन्धः / अध्यवसानानि-अध्यवसायाः, ते चेह कषायजनिता जीवपरिणामविशेषाः / तिष्ठन्ति जीवा एष्विति स्थानानि। अध्यवसाया एव स्थानान्यध्यवसायस्थानानि / स्थितिबन्धस्यकारणभूतान्यध्यवसायस्थानानि स्थितिबन्धाध्यवसाय स्थानानि।तानि स्थितिभेदेभ्योऽसंख्येयगुणानि, यतः सर्वजघन्योऽपि स्थितिविशेषोऽसंख्येयलोकाऽऽकाशप्रदेश प्रमाणेरध्यवसायस्थानर्जन्यते, उत्तरेषु तुस्थितिविशेषास्तैरेव यथोत्तरं विशेषवृद्धजन्यन्तेऽतः स्थितिभेदेभ्यः स्थितिवन्धा ध्यवसायस्थानान्तसंख्यातगुणानि सिद्धानि भवन्ति / तथा (अणुभागहाण त्ति) पदैकदेशे पदसमुदायोपचारादनुभागस्था नान्यनुभागबन्धाध्यवसायस्थानानि तत्रानुपश्चाद्वन्धोत्तरकाल भज्यते-सेव्यते-अनुभूयते इत्यनुभागो रसस्तरय बन्धोऽनुभागबन्धः / अध्यवसानान्यध्यवसायास्ते चेह कषायजनिता जीवपरिणामविशेषाः। तिष्ठन्ति जीवा येष्विति स्थानानि। अध्यवसाया एव स्थानान्यध्यवसाय स्थानानि / अनुभागबन्धस्य कारणभूतान्यध्यवसायस्थाना न्यनुभागबन्धाध्यव सायस्थानानि / स्थितिबन्धाध्यवसाय स्थानेभ्यस्तन्यसंख्येयगुणानि भवन्ति। स्थितिबन्धाध्यवसायस्थान होकैकमन्तर्मुहूर्तप्रमाणमुत्कम्, अनुभागबन्धाध्यवसायस्थानं त्वेकैकं जघन्यतः सामयिकमुत्कृष्टतस्त्वष्टसामयिकान्त मेवोत्कम्, अत एकैकस्मिन्नपि नगरकल्पे स्थितिबन्धाध्यवसाय स्थाने तदन्तर्गतानिनगरान्तर्गतोचैर्तीचैह कल्पानि नानाजीवान् कालभेदेनैकं जीव वा समाश्रित्याऽसंख्येय लोकाऽऽकाश प्रदेशप्रमाणान्यनुभागबन्धाध्यवसायस्थानानि भवन्ति / तथाहि-जघन्यस्थितिजनकानामपि स्थितिबन्धाध्यवसाय स्थानानां मध्ये यदाद्यं सर्वलघुस्थिति