________________ बंध 1176 - अभिधानराजेन्द्रः - भाग 5 बंध बन्धं कृत्वोपशान्तमोहावस्थां चाऽऽरुहा पुनः प्रतिपत्य उत्कृष्ट - योगाद्वाऽौव प्रतिपत्य यदा पुनरनुत्कृष्टयप्रदेशबन्धं करोति तदाऽसौ सादिः, एतच स्थानमप्राप्तपूर्वाणामनादिः सदानिरन्तरं बध्यमानत्यात्, ध्रुयोऽभव्यानाम्, अधुवो भव्यानाम्, इत्युक्तः षण्णां मूलप्रकृतीनामनुत्कृष्टप्रदेशबन्धश्चतुर्विकल्पः / शेषबन्धत्रिके साधाऽऽदिभग कानाह(दुहासेसि सव्वत्थ त्ति) शेषेभणितोद्धरितेजघन्याजघन्योत्कृष्ट प्रदेशबन्ध लक्षणे शिके द्विधा-साऽऽद्यधुवलक्षणो द्विप्रकारो बन्धो भवति / तत्रानुत्कृष्टभणनप्रसङ्गेनोत्कृष्टः सूक्ष्मसंपरायेऽनन्तरं दर्शितः, स चतत्प्रथमतया बध्यमानत्वात्सादिः, उपशान्ताऽऽद्यवस्थायां पुनरनुत्कृष्टबन्धगमने चावश्यं न भवतीत्यधुवः, जघन्य पुनरमीषां षण्णां कर्मणां प्रदेशगन्धोऽपर्याणारा सर्वमन्दबीर्यलब्धिकस्य सप्तविधबन्धस्य सूक्ष्मनिगोपरय भवाऽऽद्यसमये लभ्यते / जघन्यप्रदेशबन्धो हि जघन्ययोगेन भवतीत्युत्कम्। स चास्यैव यथोक्तविशेषणविशिष्टस्य लभ्यते, द्वितीयाऽऽदिसमयेषु त्वसावसंख्येयगुणबृद्धेन वद्धत इति भवाऽऽद्यसमयग्रहणम् / द्वितीयाऽदिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः संख्यतिना-ऽसंख्यातेन वा कालेन पूर्वोत्कजघन्ययोगं प्राप्य स एव जघन्यदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्याजधन्ययोः प्रदेशबन्धयोः संसरतामसुमता द्वावप्येतौ साद्यधुर्वो भवति इति। भाविता मूलप्रकृति षट्लकस्योत्कृष्टाऽऽदिबन्धविकल्पाः साद्याऽऽदि भङ्ग कैः अथावशिष्टयोर्मो हाऽयुषोरुत्कृष्टा- ऽऽदिप्रदेशबन्धान साद्याऽऽदिविकल्पतः प्ररूपयन्नाह - (दुहा सेसि सव्वत्थ त्ति) शेषे भणितोद्धरिते मोहे आयुषि च सर्वोत्कृष्टेऽनुत्कृष्ट जघन्येऽजघन्ये च प्रदेशबन्धे द्विधा साद्यध्रुवलक्षणा द्विविकल्पो बन्धो भवति / ता मिथ्यादृष्टिः सम्यगदृष्टिाऽनिवृत्तिबादरान्तः सप्तविध बन्धकाले उत्कृष्टयोगे वर्तमानो मोहनीयस्योत्कृष्ट प्रदेशबन्धं करोति, पुनरनुत्कृष्टयोग प्राप्यानुत्कृष्ट प्रदेशबन्धं करोति, पुनरुत्कृष्ट, पुनरप्युनुत्कृष्टमित्येवमुत्कृष्टानुत्कृष्टप्रदेश बन्धयोः संसरतांजन्तूना मोहस्योत्कृटानुत्कृष्टप्रदशेबन्धौ द्वावपि साद्यध्रुवौ भवतः, जघन्याजघन्यौ त्वेतत्प्रदेशबन्धौ यथा सूक्ष्मनिगोदाऽऽदिषुसंसरतामसुमतां कर्मषटकस्थानन्त - रमेव भावितौ तथाऽत्रापि निर्विशेष भावनीयो। आयुष्कस्यत्वध्रुवबन्धित्वादेव तत्प्रदेशबन्ध उत्कृष्टाऽऽदिचतुर्विकल्पोऽपि साद्यध्रुव एव भवतीति |64 || निरूपितः प्रदेशबन्धः साद्याऽऽदिप्ररूपणतः। संप्रति प्रागुत्कचतुर्विधबन्धे योगस्थानानि कारणं प्रकृतयः प्रदेशाश्च तत्कार्य प्रवर्त्तन्ते, तथा स्थितिबन्धाध्यवसाय स्थानानि कारण स्थितिविशेषास्तु तत्कार्यम्, अनुभागबन्धाध्यवसाय स्थानानि कारणम्, अनुभागस्थानानि तु तत्कार्यं वर्तन्ते इति कृत्वा सप्तानामप्येषां पदार्थानां परस्पर मल्पबहुत्वमभिधित्सुराहसेढिअसंखिज्जंसे, जोगट्ठाणाणि पयडिठिइमेया। ठिइबंधज्झवसाया–णुभागठाणा असंखगुणा / / 65 // योगो-वीर्य तस्य स्थानानि वीर्याविभागांशसंघातरूपाणि / कियन्ति पुनस्तानि भवन्तीत्याह -- (सेढिअसंखिजंसे त्ति) श्रेणेरसंख्येयांशः / एतदुक्तं भवति-श्रेणर्वक्ष्यमाणरूपाया असंख्येयभागे यावन्त आकाश प्रदेशा भवन्ति तावन्ति योग स्थानानि / एतानि चोत्तरपदापेक्षया सर्वस्तोकानीति शेषः। तत्र यथैतानियोगस्थानानि भवन्ति तथोच्यतेइह किल सूक्ष्मनिगोदस्यापि सर्वजघन्यवीर्यलब्धियुक्तस्य प्रदेशाः केचिदल्पवीर्ययुक्ताः, के चित्तु बहुबहुतरबहुतमवीर्यो पेताः / तत्र सर्वजधन्यवीर्ययुक्तस्यापि प्रदेशस्य संबन्धि वीर्य केवलिप्रज्ञाछेदेन छिद्यमानमसंख्येयलोकाऽऽकाशप्रदेश प्रमाणान् भागान् प्रयच्छति, तस्यैवोत्कृष्टवीर्ययुक्ते प्रदेशे यद्वीर्यं तदेतेभ्योऽसंख्येयगुणान् भागान् प्रयच्छति। उक्तं च"पनाए छिजंता, असंखलोगाण जत्तिय पएसा। तत्तिय वीरियभागा, जीव पएसम्मि इक्किक्क // 1 // सव्वजहन्नगविरिए, जीवपएसम्मि तत्तिया संखा। तत्तो असंखेगुणिया, बहुविरिए जियपएसम्मि / / 2 / / " भागा-अविभागपलिच्छेदा इति चानान्तरम्। ततः सर्वस्तोकाविभागपलिच्छेदकलितानां लोकाऽसंख्येयभागवर्त्य संख्येयप्रतरप्रदेशराशिसंख्यानांजीवप्रदेशाना समानवीर्यपलिच्छेदतया जघन्यैका वर्गणा, तत एकेन योगपलिच्छदेना धिकानां तावतामेव जीवप्रदेशानां द्वितीया वर्गणा, एवमेकैकयोगपलिच्छेदबृद्धया वर्धमानानां जीवप्रदेशानां समानजातीयरूपाघनीकृतलोकाऽऽकाशश्रेणेरसंख्येय भागप्रदेशराशिप्रमाणा वर्गणा वाच्याः। एताश्चैतावात्योऽप्यसत्कल्पनया षट्स्थाप्यन्ते। तत्र जघन्यवर्गणाया जीवप्रदेशा असंख्येयवीर्यभागान्विता अप्यसत्कल्पनया दश भागान्विताः स्थाप्यन्ते / ते च जीवप्रदेशा एकैकस्या वर्गणायामसंख्येप्रतरप्रदेशमाना अप्यसत्कल्पनया त्रयस्त्रयः स्थाप्यन्ते। एताश्चैतावत्यः समुदिता एकं वीर्यस्पर्धकमित्युच्यते। अथ स्पर्धक इति कः शब्दार्थः? उच्यते-एकैकोत्तरवीर्यभागवृद्धया परस्परं स्पर्धन्ते वर्गणा यत्र तत्स्पर्धकम् / तत ऊर्ध्वमकेन द्वयादिभिर्वा वीर्यपलिच्छेदैरधिका जीवप्रदेशान प्राप्यन्ते किं तर्हि प्रथमस्पर्द्धकचरमवर्गणायां जीवप्रदेशेषु यावन्तो वीर्यपलिच्छेदास्तेभ्योऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणैरेव वीर्यपलिच्छेदरधिका जीवप्रदेशालभ्यन्तेऽस्तेषामपि समानवीर्यभागानां समुदायो द्वितीयस्पर्धकस्याऽऽद्यवर्गणा।तत एकेन वीर्यभागेनाधिकानां समुदायो द्वितीया वर्गणा। एवमेकोत्तरवृद्धिक्रमेणैता अपि श्रेण्यसंख्येयभागवर्तिप्रदेशमाना। वाच्यः / एतासामपि समुयायो द्वितीय स्पर्धकम्। इत ऊर्ध्व पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तहसंख्येयलोकाऽऽकाश प्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्तेऽतस्तेनैव क्रमेण तृतीयस्पर्धकमारभ्यते, पुनस्तेनैव क्रमेण चतुर्थम्, पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्धकानि श्रेण्य संख्येयभाग वर्तिप्रदेशराशि प्रमाणानि वाच्यानि। एतेषां चैतावतां स्पर्धकाना समुदाय एकंयोगस्थानकमुच्यते / इदं तावदेकस्य सूक्ष्मनिगोदस्यभवाऽऽद्यसमये सर्वजधन्यवीर्यस्य योगस्थानकमभिहितम् तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोरनेनैव क्रमेण द्वितीय योगस्थानकमुत्तिष्ठते, तदन्यस्य तु तेनैव क्रमेण तृतीय, तदन्यस्य तु तेनैव क्रमेण चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानि नानाजीवानां कालभेदेनैकजीवस्यवा श्रेणेरसंख्येयभागवर्तिनभःप्रदेश शिप्रमाणानि भव