________________ बंध 1175 - अभिधानराजेन्द्रः - भाग 5 बंध ऽसौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिः धुर्वो ऽभव्यानाम, अधुवो भव्यानामिति। तथा संज्वलनक्रोधस्यनिवृत्तिया दरः पुंवेदबन्धे व्यवच्छिन्ने संज्वलनक्रोधाऽऽदिचतुष्टयं बध्नन्नुत्कृष्टयोगे स्थित उत्कृष्ट प्रदेशबन्धे करोति। मिथ्यात्वाऽऽद्यकषायद्वादशकभागः सर्वनोकषायभागश्चलभ्यत इति कृत्वा। संज्वलनमानस्य स एव क्रोधबन्धेव्यवच्छिन्ने संज्वलनमानाऽऽदित्रायं बध्नन्नुत्कृष्टप्रदेश करोति क्रोधभागो लभ्यत इति कृत्या। सएव मानबन्धे व्यवाच्छन्ने मायालोभौ बध्नन्मायाया उत्कृष्टप्रदेश करोति मानभागोऽपि लभ्यत इति कृत्वा / स एव मायाबन्धे व्यवच्छिन्ने लोभमेकं बध्नस्तस्यैवोत्कृष्ट प्रदेशं करोति एकं० द्वौ वा समयौ, एतच्च विशेषणं प्रागपि द्रष्टव्यं, समस्तमोहनीयभागस्तत्र लभ्यत इति लोभबन्धकस्यैव ग्रहणम्। एष चानिवृत्तिबादरौ यथा बन्धव्यवच्छेदुत्कृष्टयोगाद्वा प्रतिपत्त्य पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिः धुर्वी ऽभव्यानाम् अधुवो भव्यानामिति / तथा ज्ञानाऽऽवरणपञ्चकान्तराय पञ्चकविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसंपरायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैक द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते। सूक्ष्मसंपरायो हि मोहनीयाऽऽयुः कर्मद्वयं न बध्नाति एतयोगियोरप्या ज्ञानाऽऽवरणपञ्चकेऽन्तरायपञ्चके च यथास्वं प्रवेशाद् बहुद्रव्यमिह लभ्यत इति सूक्ष्मसंपरायग्रहणम्। इह चोत्कृष्टप्रदशबन्धं कृत्वोपशान्तमोहवस्था चाऽऽरुहा पुनः प्रतिपत्योत्कृष्टयोगाद्वाऽत्रैव प्रतिपत्य यदा पुनरनुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः, एतच्च स्थानमप्राप्तपूर्वाणामनादिः सदा निरन्तरं बध्मानत्वात् ध्रुवोऽभव्यानाम्, स्कृष्टः प्रदेशबन्धः साद्याऽऽदिचतुर्विकल्पोऽपि भावितः / शेषत्रायस्य का वार्तेत्याह-(दुहा सेसि सव्वत्थ ति) शेषे भणितोद्धरिते द्विधा-द्विविकल्पः साद्यधुवलक्षणो वन्धो भवतीत्यर्थः / तत्रानुत्कृष्टभणनक्रमेणोत्कृष्टस्त्रिशतोऽपि प्रकृतीनां सूक्ष्मसंपरायाऽऽदिषु दर्शितः, स च तत्प्रथमतया बध्यमानत्वात्सादिः सर्वथा बन्धाभावेऽनुत्कृष्टबन्धसंभवे वाऽवश्यं न भवतीत्यधुवः / जघन्य पुनरेतासां त्रिंशत्प्रकृतीनां प्रदेशबन्धोऽपर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सूक्ष्मनिगोदस्य भवाऽऽद्यसमये लभ्यते। जघन्यप्रदेशबन्धो हि जघन्ययोगेन भवतीत्युक्तम्, स चास्यैव व यथोक्तविशेषण विशिष्टस्य लभ्यते। द्वितीयाऽऽदिसमयेषु पुनरसावसंख्येय गुणवृद्धेन वीर्येण वर्धते इति भवाऽऽद्यसमयग्रहणम् / द्वितीयाऽऽदिसमयेष्वयमप्यजघन्यं बध्नाति, पुनः संख्यातेनासंख्यातेन वा कालेन पूर्वोक्तजघन्ययोग प्राप्य स एव जघन्य प्रदेशबन्धं करोति, पुनरजघन्यमित्येवं जघन्याजघन्योयः प्रदेशबन्धयो संसरतामसुमता द्वावप्येतौ साद्यधुवा भवतः / इति भावितस्त्रिशत उत्तरप्रकृतीनामनुकृष्टयप्रदेशबन्धश्चतुर्दा, उत्कृष्टजघन्याजघन्यप्रदेशबन्धश्च द्विधा / शेषे का वार्ते त्याह- "दुहा सेसि सव्वत्थ त्ति' पदं भूयोऽप्यनुवर्त्यते। शेषे भणिसत्रि शत्प्रकृत्यवशिष्ट स्त्यानर्द्धित्रिकमिथ्यात्वानन्तानुबन्धि चतुष्टयवर्णाऽऽदिचतुष्कतैजसकार्मणाऽगुरुलघूघात निर्माणलक्षणे सप्तदशध्रुवप्रकृतिकदम्बके औद्धा- रिकवैक्रियाऽऽ हारकशरीरायाङ्गोपाङ्ग त्रयसंस्थ नषटकसंहननषटकजाति पञ्चक्गतिचतुष्काविहायोगतिद्विकानुपूर्वी चतष्कतीर्थकरनामो च्छवासनामोद्यतनामाऽऽनपनाम पराघातनाम सदशकस्थावरद्दश कोर्गोत्रमी चेाितासासातवेदनीयहा स्यरत्यरतिशो कवेदत्रयाऽऽयुश्चतुष्टयलक्षणत्रि सप्ततिसंख्या ध्रुवबन्धिप्रकृति समूहे च सर्वत्रोत्कृष्टानुत्कृष्टजघन्याजघन्यलक्षणे चतुर्विकल्पेऽपि प्रदेशबन्धे द्विधा दप्रकाराः सादिरधुवश्च बन्ध भवति / तथाहि-अधुवबन्धिनीनामधुवबन्धि त्यादेवोत्कृष्टानुत्कृष्टजधन्या-जघन्यस्तत्प्रदेशबन्धः सर्वोऽपि साद्यध्रुव एव भवति / स्स्यानद्धित्रिकमिथ्यात्वानन्तानुबन्धिनां सप्तविधबन्धक उत्कृष्टयोगे वर्तमानो मिथ्यादृष्टिरुकृष्टप्रदेशबन्धमेकं द्वौ वा समयौ यावत् करोति, सम्यगदृष्टिरेताः प्रकृतीन बध्नातीति मिथ्यादृष्टिग्रहम् / मिथ्यात्ववर्जा एताः प्रकृतीः सास्वादनोऽपि बध्नाति, परं भणितप्रकोरण सास्वादनस्योत्कृष्टयोगो नलभ्यत इति तस्याग्रहणम्। उत्कृष्टयोगस्यैतावानेव काल इत्येकद्वि-समयनियम् / उत्कृष्टयोगात् प्रतिपत्य स एवानुत्कृष्टप्रदेशबन्धं करोति, पुनः स एवोत्कृष्टमित्येवं द्वावप्येतो साद्यध्रुवौ / जघन्यप्रदेशबन्धं पुनरेतासां सर्वजघन्यबीर्यलब्धिर्भवाऽऽद्यसमये वर्तमानः सप्तविधं बध्नन्नपर्याप्तसूक्ष्मनिगोदाः करोति। द्वितीयाऽऽदिसमयेषु च स एवाऽजघन्यं करोति। कालान्तरेण पुनः स एव जघन्यं करोती त्येतावपि द्वौ साऽऽद्यध्रुवौ भवतः। तथा वर्णचतुष्कतैजसकार्मणा गुरुलधूपघातनिर्माणलक्षणस्य प्रकृतिनवकस्याप्युक्तन्यौत्कृष्टानुत्कृष्टी जघन्याजघन्यो च प्रदेशबन्धौ साद्यध्रुवावेवमेव वक्तव्यौ। नवरमुत्कृष्टयोगो मूलप्रकृतिसप्तविधबन्धको नामस्तिर्यग्गतिस्तिर्यगानुपूर्वी एकेन्द्रिय जातिरौदारिकशरीरं हुण्डसस्थानं स्थावरनाम बादर सूक्ष्मयोरन्यतरत् अपर्याप्तक प्रत्येक साधारणयोरन्यतरत् अस्थिरनाम अशुभनाम दुर्भगनाम अनादेयनाम अयशः कीर्तिवर्णचतुष्क तैजसकार्मणे अगुरुलधूपघात निर्माणमित्येवं त्रयोविंशतिमुत्तरप्रकृतीर्बध्नन्मिथ्यादृष्टिरुत्कृष्ट-प्रदेशबन्धको वाच्यः, शेषं तथैव / नाम्नों हिपञ्चविंशत्यादिबन्धग्रहणे बहवो भागा भवन्तीति त्रयोविंशतिबन्धग्रहणम्। इति भाविता उत्तरप्रकृतीराश्रित्योत्कृष्टानुत्कृष्टजघन्याजघन्यप्रदेशबन्धेषु, साद्याऽऽदिविकल्पाः। सम्प्रति मूलप्रकृतीः प्रतीत्य उत्कृष्ट प्रदेशबन्धादिभङ्गेषु साद्याऽऽदिभङ्ग कानभिधित्सुराह- (मूलछगेऽऽणुकोसो चउह त्ति) मूलषटके मूलप्रकृतिषटके ज्ञानाऽऽवरणदर्शनाऽऽवरणवेदनीयनामगोत्रान्तरायलक्षणे अनुत्कृष्टः प्रदेशबन्धश्चतुर्धा साऽऽद्यनादिध्रुवाध्रुवलक्षणश्चतुः प्रकारो भवति। तथाहि-प्रस्तुतकर्मषविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसंपरायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते। सूक्ष्म संपरायो हि मोहनीयाऽयुः कर्मद्वयं न बध्नाति / कित्येतदेव प्रस्तुतकर्मषटकंबध्नात्यतो मोहनीयाऽऽयुर्भागयोरौवकर्मषटके प्रवेशो, बहुद्रव्यमिह लभ्यत इति सूक्ष्मसंपराय ग्रहणम्, उत्कृष्टच्च प्रदेशबन्ध उत्कनीत्या उत्कृष्टनैव योगेन भवतीत्युत्कृष्टयोगग्रहणम्, उत्कृष्टयोगावस्थानकालश्चै, तावानेव भवतीत्येकद्विसमयग्रहणम्। एवं चोत्कृष्ट प्रदेश