________________ बंध 1174 - अभिधानराजेन्द्रः - भाग 5 बंध कृताः। तिर्यचः पुनभागभूमिजा भवाऽऽद्यरत्रमयेऽपि बध्नन्तयेतत् केवलं ते देवगतिप्रायोग्यामष्टाविंशतिमेव पूर्व प्रदर्शितस्वरुपांत्वयन्ति, नैक्रान- | त्रिंशदादिबन्धाः तेषां तीर्थकराऽऽहारक-सहितत्वात्। तिरइवां तु तदबन्धकत्वात्। अतस्तेषु भागा अल्पे लभ्यन्ते इति तेऽपीह नाधिक्रियन्ते। मनुष्यस्याऽप्यष्टाविंशति बन्धकस्य भागा बहबो न लभ्यन्ते, त्रिंशदेकत्रिशद्वन्धौ तु देवगतिप्रायोग्यौ सयतस्य भवतः तत्र च वीर्यमल्पं न लभ्यते / अन्ये तु देवगतिप्रायोग्यबन्धा एव न सन्तीत्यालोच्यैकोन त्रिशद्वन्धकस्य मनुष्यस्यैव ग्रहणम् / ननु तिर्यक्षु पर्याप्तासंज्ञी देवगतिप्रायोग्य मेतत्प्रकृतिचतुष्टयं बध्नाति स कस्मादिह नाङ्गीकृतः। उच्यतेप्रभूतयोग्वात्, अपर्याप्तसंज्ञियोगाद्धि पर्याप्तसंज्ञियोगो जघन्योऽप्यसंख्येयगुण इति / (सुहुमनिगोयाइखणि सेसत्ति) सूक्ष्मनिगोदजीबोऽपर्याप्तक आदिक्षणेभवाऽऽद्यसमये शेषा भणितैकादशप्रकृतिभ्योऽवशिष्टा नवोत्तरशतसंख्याः प्रकृतीराश्रित्य सर्वजधन्ययीर्यलब्धियुत्को यथासंभवं च वटीः प्रकृतीबंधनन् जघन्यप्रदेशबन्धाः करोति, सर्वासामप्यत्रा बन्धसद्धावात, सर्वजघन्यवीर्यस्य चाौव संभवादिति।।६३॥ निरुपितं जघन्यप्रदेशबन्धस्वामित्वम्। अधुना प्रदेशबन्धमेव साद्याऽऽदिभङ्ग कैर्निरुपयन्नाह - दंसणछग भयकुच्छा-बितितुरियकसायविग्घनाणाणं / मूलछगऽणुक्कासो, चउह दुहा सेसिसव्वत्थ / / 94 || दर्शनषटकंचक्षुर्दर्शनाऽचक्षुर्दर्शनावधिदर्शनकेवल दर्शनाऽऽवरणनिद्रा प्रचलालक्षणं, भयं, जुगुप्सा, (बितितुरियकसाय त्ति) कषायशब्दस्य प्रत्येकं योगात् द्वितीयकषायाअप्रत्याख्यानाऽऽवरणस्तृतीयकषायाःप्रत्याख्यानाऽऽवरणाः तुर्याश्चतुर्थाः कषायाः-संज्वलनकषायाः, विधानि पञ्चदानलाभभोगापभोगबीर्यान्तरायाऽऽख्यानि, ज्ञानानिज्ञानावऽऽरणानि मतिज्ञानाऽऽवरणश्रुतज्ञानाऽऽवरणावधिज्ञानाऽऽवरणमनः पर्यायज्ञानाऽऽवरणकेवलज्ञानाऽऽवरणलक्षणानिपञ्च, इत्येता सामुत्तरप्रकृतिषु मध्ये त्रिंशतः प्रकृतीनाम्। तथा (मूलछगेति) मूलप्रकृतिषटके ज्ञानाऽऽवरणदर्शनाऽऽवरणभेदनीयनामगोत्रान्तरायलक्षणेऽनुत्कृष्ट एव प्रदेशवन्धः / (चउह त्ति) चतुर्धा साद्यनादिधुवाध्रुवरुपचतुर्विकल्पोऽपि भवतीत्यर्थः / इह तावद्या सर्वबहवः कर्मस्कन्धा गृह्यन्ते स उत्कृष्टः प्रदेशबन्धः, ततः स्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहण तावत्सर्वोऽप्यनुत्कृष्ट इत्युत्कृष्टानुत्कृष्टप्रकारद्वयेन सर्वोऽपि प्रदेशबन्धः संगृहीतः। यत्र सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यप्रदेशबन्धः। ततः स्कन्धवृद्धिमाश्रित्य यावत्सर्वबहु स्कन्धग्रहणं तावत्सर्वोऽप्यजघन्य इति जघन्याजघन्यप्रकार द्वयेन सर्वोऽपि प्रदेशबन्धः संगृहीत इत्यनया परिभाषया दर्शना ऽऽवरणषटकाऽऽदीनामुत्तरप्रकृतीनाममुत्कृष्ट प्रदेशबन्धः साद्याऽऽदि चतुर्विकल्पो भवतीति। तथाहि-चक्षुर्दर्शनाऽवरणाऽचक्षुर्दर्शनाऽऽवरणावधिदर्शनाऽऽवरणके वल दर्शनाऽऽवरण लक्षणप्रकृति चतुष्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसंपरायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ, वा समयो यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते। सूक्ष्मसंथरायो हि मोहनीयाऽऽयुः कर्मद्वयं सर्वथा नबध्नाति, दर्शनाऽऽवरणस्याप्य तदेव प्रकतप्रकृतिचतुष्टयं बध्नाति, न शेषप्रकृतीः, अता मोहनीयाऽऽयूभॊगयोर्यथास्वमत्र प्रवेशान्निद्रापञ्चकभागस्यापि चात्रा प्रवेशादहुद्रव्यामह लभ्यत इति सूक्ष्मसंपरायग्रहणम्। उत्कृष्टश्च प्रदेशबन्ध उत्कनात्या उत्कृष्टेनैव योगेन भवतीत्युत्कृष्टयोगग्रहणम् / उत्कृष्टयोगाबन्धागकालश्चैतावानेव भवतीत्येकद्विसमयग्रहणम् / एतं चोत्कृष्ट प्रदेशबन्ध कृत्वोपशान्त मोहावस्था चाऽऽरुह्य पुनः प्रतिपत्योत्कृष्ट योगाद्वाऽत्रीव प्रतिपस्य यदाऽनुत्कृष्ट प्रदेशबन्धं करोति तदाऽसौ सादिः एतच स्थानमप्राप्तपूर्वाणामनादिः सदा निरन्तरं बध्यमानत्वात्. ध्रुवोऽभष्यानाम्, अध्रुवो भव्यानामिति। निद्राप्रचलाद्विकस्य त्वविरतसम्यगदृष्टयादयोऽपूर्वकरणान्ताः सर्वोत्कृष्टयोगवृत्तयः सप्तविधबन्धकाले एकं द्वौ वा समयावुत्कृष्ट प्रदेशबन्धं विदधति, आयुर्द्रव्यभागोऽधिको लभ्यत इति सप्तविधबन्धकग्रहणम्। स्त्यानद्धित्रिकं सम्यगदृष्टयो न बध्नन्तीत्यतद्भागलाभोऽपि भवतीति सम्यग्दृष्टीनामेव ग्रहणम् / मिथ्यादृष्टिस्वादनौ स्त्यानद्धित्रिकं बध्नीत इति नेह गृहीतौ / मिश्रस्त्वेतन्न बध्नाति, केवलमुत्कनीत्या तस्योत्कृष्टयोगो न लभ्यत इति सोऽपि नेहाधिकृतः। एते चाविरतसम्यग् दृष्टयादयो यदोत्कृष्ट योगाद्वन्धव्यवच्छेदाता प्रतिपत्यानुत्कृष्ट प्रदेशबन्धमुपकल्पयन्ति तदाऽसौ सादिः, सम्यक्तवसहित चोत्कृष्टयोगम प्राप्तपूर्वाणमनादिः, ध्रुवोऽभव्यानामध्रुवो भव्यानामिति। तथा भयजुगुप्सयोः सम्यग्दृष्टिविरता ऽऽदिरपूर्वकरणान्त उतकृष्टयोगे वर्तमान उत्कृष्ट प्रदेशबन्धं करोति मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् / कषायभागः पुनः सजातित्वात्कषायाणामेव भवति, नैतयोः / मिथ्यादृष्टिस्तु मिथ्यात्वं बध्नातीति मिथ्यात्वभागो न लभ्यत इति ततस्येहाग्रहणम् / सास्वादनमिश्रयोस्तु लभ्यते मिथ्यात्वमागः केवलमुक्तनीत्या तयोरुत्कृष्टयोगो न लभ्यत इति तावपि नेहाधिकृतौ। अपूर्वकरणोपरिवर्तिनस्तु भयजुगुप्से न बध्नन्तीत्यपूर्वकरणन्तविशेषणम्। एते चाविरत सम्यग् दृष्टयादयो यदोत्कृष्टयोगाद्वन्धव्यवच्छेदाता प्रतिपथ्याऽनुत्कृष्ट प्रदेशबन्धु मुपकल्पयन्ति तदा असौ सादिः, तत्स्थानमप्राप्तपूर्वाणामनादिः ध्रुवोऽभव्यानाम्, अधुवो भव्यानामिति / तथाऽप्रत्याख्यानाऽऽवरणचतुष्टयस्योत्कृष्टयोगो ऽविरतसम्यग्दृष्टिः सप्तविधबन्धक उत्कृष्ट प्रदेशबन्धं करोति, मिथ्यात्वमनन्तानुबन्धिनश्चासौ न बध्नात्यतस्तद्भागद्रव्य मधिकं लभ्यत इत्यस्यैव ग्रहणम्। मिथ्यादृष्टिमिथ्यात्वमनन्तानुबन्धिनश्च सास्वादनस्त्वनन्तानुबन्धिनो बध्नातीति तयोरग्रहणम् / मिश्रस्तु मिथ्यात्वमनन्तानुबन्धिनश्च न बध्नाति, केवलमुत्कनीत्या तस्योत्कृष्टयोगो न लभ्यते, देशविरताऽऽदयस्त्वप्रत्याख्यानाऽवरणान्न बध्नन्तीति शेषव्युदासेनाविरत सम्यग दृष्टिरेवाधिकृतः / एष चाविरत सम्यग् दृष्टियंदा बन्धव्यच्छेदादुत्कृष्टयोगाद्वा प्रतिपथ्य पुनरनुत्कृष्टप्रदेशबन्धं विदधाति तदाऽसौ सादिः तत्स्थानमप्राप्तपूर्वाणामनादिः धुवोऽभव्यानाम्, अधूवो भव्यानामिति / तथा प्रत्याख्यानाऽऽवरणचतुष्टय स्योत्कृष्टयोगो देशविरतः सप्तविधबन्धक उत्कृष्टप्रदेशबन्धं करोति। अप्रत्याख्यानाऽऽवरणानामप्रासावबन्धकोऽतस्तद्धागोऽधिको लभ्यत इति। एष च देशविरतो यदा बन्धय्य - वच्छेदादुत्कृष्ट योगाद्वा प्रतिपस्य पुनरनुत्कृष्टप्रदेशबन्धं करोति तदा