________________ बंध 1173 - अभिधानराजेन्द्रः - भाग 5 बंध ति परं तस्योत्कृष्टयोगो न लभ्यते अत एता एकचत्वारिंश त्प्रकृतीमिथ्यादृष्टिरेवोत्कृष्टयोगे वर्तमानो मूलप्रकृतीनामुत्तर प्रकृतीनां च यथासंभवमल्पलरबन्धक उत्कृष्टप्रदेशाः करोति / या अपि चोत्कस्वरुपाः पञ्चविंशतिप्रकृतयः सम्यग्दृष्टबन्धे समागच्छन्ति तास्वपि मध्ये औदारिकलैजसकार्मणवर्णाऽदि चतुष्कागुरुलधूपघातबादरप्रत्येकास्थिराशुभायशः कीर्तिनिर्माणलक्षणानां पञ्चदशप्रकृतीनामपर्याप्तकेन्द्रियोग्यो नाम्नरषयोविंशतिप्रकृतिनिष्पन्नस्तैजसकार्मणवर्णादिचतुष्काऽगुरुलधूपघातनिर्माणतिर्यग्गतितिर्यगानुपूर्ये केन्द्रियजात्यौदारिक शरीरहुण्डसंस्थानासस्थावरसूक्ष्मैकतरापर्याप्त प्रत्येक साधारणान्यातरास्थिराशुभदुर्भगानादेयायशः कीर्तिलक्षणो बन्धः तेनैव सह बध्यमानानामुत्कृष्टप्रदेशवन्धो लभ्यते नोत्तरैः पञ्चविंशत्यादिबन्धैः भागबाहुल्यात्। शेषाणां तुमनुष्यद्विकपञ्चेन्द्रियजात्यौदारिकाङ्गोपराघातोच्छवासत्रास पर्याप्तस्थिरशुभलक्षणानां दशप्रकृतीना यथासंभव पर्याप्त केन्द्रियापर्याप्तसयोग्यपञ्चविंशतिबन्धेनैव सह बध्यमानानामुत्कृष्टः प्रदेशबन्धो * लभ्यते नोनरैः, षड्विंशत्यादिबन्धैर्भागबाहुल्यादेव / नाप्यधस्तनेन त्रयाविंशतिबन्धेन तौतासां बन्धाभावादेव / तीच त्रयोविंशतिपञ्चविंशतिबन्धी सम्यगदृष्टर्न भवतः देवपर्याप्त मनुष्यप्रायोग्यबन्धकत्वात्तस्येत्यत एतासामपि पञ्चविंशतिप्रकृतीनां यथोत्कप्रकारेण त्रयोविंशत्या पञ्चविंशत्या च सह बध्यमानानां सप्तविधबन्धक उत्कृष्टयोगो मिथ्यादृष्टिरेवोत्कृष्ट प्रदेशबन्धं करोतीति।शा निरुपतिमुत्तर प्रकृतीनामुत्कृष्टप्रदेशबन्धस्वामित्वम्। अधुना तासामेव जघन्यप्रदेशबन्धस्वामित्वमभिधित्सुराह - सुमुणी दुन्नि असन्नी, निरयतिगसुराउसुरविउविदुगं। सम्मो जिणं जहन्नं, सुहुमनिगोयाइखणि सेसा 63|| सुमुनिः--प्रमादरहितत्वेन प्रधानसाधुः-अप्रमत्तयतिः / (दुन्नि त्ति) द्वे प्रकृती आहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणं जघन्यप्रदेशे बध्नाति। अयमर्थ :-परावर्तमानयोगो घोलनयोगीत्यर्थः / अष्टविधबन्धकः स्वप्रायोग्यरार्वजघन्यवीर्य व्यवस्थितो नाम्नो देवगतिर्देवानुपूर्वीपञ्चेन्द्रियजातिवैक्रिय शरीरं वैक्रियाङ्गोपाङ्गं समचतुरस्रसंस्थानम् उच्छवासनाम पराघातनाम प्रशस्त-विहायोगतिस्त्रसनाम बादरनाम पर्यातकनाग प्रत्येकनाम स्थिरनाम शुभनाम यशःकीर्तिनाम सुभगनाम सुस्वरनामाऽऽदेयनाम वर्णचतुष्कं तैजसकार्मण अगुरुलघूपघातं निर्माण तीर्थकरनामाऽऽहारशरीरमाहारकाङ्गो पाङ्ग मित्येवमेकत्रिशतं प्रकृतीबंधनन्न प्रमत्तयतिराहारकशरीराऽऽहारकाङ्गोपाङ्गलक्षणे द्वे प्रकृती जघन्यप्रदेशे बध्नाति। त्रिशद्वन्धेऽप्येते बध्येते परं तत्राल्या भागा इत्येकत्रिशद्वन्ध ग्रहणम्। एतच्च प्रकृतिद्वयमन्यत्र न बध्यत इत्यप्रमत्तयति ग्रहणम्। तथाsसंज्ञी सामान्योत्कावपि घोलमानयोगः परावर्त्तमानयोग इत्यर्थः। नरकत्रिकं नरकगतिनरकानुपूर्वी नरकाऽऽयुर्लक्षणं, सुरायुः इत्येताश्वतस्रः प्रकृतीर्जघन्यप्रदेशबन्धाः करोति। तथाहि-पृथिव्यप्तेजोवायुवनस्पतिकायिक द्विन्द्रियत्रीन्द्रियचतुरिन्द्रिया देवनारकेषूत्पत्यभावादे वैताश्यतस्रः प्रकृतीन बध्नन्तीति नेहाधिक्रियन्ते। असंझ्यप्यपर्याप्तकस्तथा विधसंल्कविशुद्धयभावान्ता बध्नात्यतः सूत्रो सामान्योत्कावपि 'व्याख्यानतो विशेषप्रतिपत्तिः" इति न्यायात् पर्याप्तकोऽसौ द्रष्टव्यः / सोऽपि योकस्मिन्नेव वाग योगे काययोगे वा विरमवतिष्ठभानो गृह्येत तदा तीव्रचेष्टो भवेत्। योगात्तु योगान्तरं पुनः संक्रामतः स्वभावादल्पचेष्टो भवतीति परावर्त्तमानयोग्रहणम् / ततश्च परावर्त्तमानयोगोऽष्टविध बध्नन्नपर्याभोऽसंज्ञी स्वप्रायोग्य सर्वजघन्यवीर्ये वर्तमानः प्रस्तुत प्रकृति चतुष्टयस्यैक चतुरो वा समयान्यावज्जघन्यप्रदेशबन्धंकरोतीतिपरमार्थः / पर्याप्तजघन्ययोग स्योत्कृष्टतोऽपि चतुःसमयावसानत्वादुत्तरत्राप्येष कालनियमो द्रष्टव्यः / ननु पर्याप्तसंज्ञी किमित प्रकृतप्रकृतिचतुष्टयं न बध्नातीति चेदुच्यते-प्रभूतयोगत्वाजघन्योऽपि हि पर्याप्तसंज्ञियोगः पर्याप्तासंइयुत्कृष्ट-योगादप्यसंख्येयगुण इति। तथा-(सुरविउविदुगंति) द्विकशब्दस्य प्रत्येक संबन्धात्सुरद्विकं सुरगतिसुरानुपूर्वी रुपं, वैक्रियद्विक वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणं, जिननामतीर्थकरनामेत्येतत्प्रकृतिपञ्चकम् (सम्मो त्ति) सम्यगदृष्टिः 'व्याख्यानतो विशेषप्रतिपत्तिः।" इति न्यायाद्भवाऽऽद्यसमये वर्तमानः (जहन्नं ति) जघन्य-जघन्यप्रदेश करोति / तथा हि-कश्चिन्मनुष्यस्तीर्थकरनाम बद्धवा देवेषु समुत्पन्नः प्रथमसमय एव मनुष्य गतिप्रयोग्यां तीर्थकरनामसहितां नामप्रकृतित्रिशतं मनुष्यगतिर्मनुष्यानुपूर्वी पञ्चेन्द्रियजातिरौदारिक शरीरमौदारिकाङ्गोपाङ्गं समचतुरस्त्रसंस्थान वजऋषभनाराच संहननं पराघातमुच्छवासं प्रशस्तविहायोगतिरस बादरं पर्याप्त प्रत्येक स्थिरास्थिरयोरेकतर शुभाशुभयोरेकतरं यशः-कीर्त्ययशः कीोरेकतरं सुभगं सुस्वरमादेयं तीर्थकरनाम वर्णचतुष्कं तैजसकार्मणे अगुरूलघूपधातं निर्माणमिति लक्षणां बध्नन्मूलप्रकृतिसप्तविध बन्धकोऽविरत सम्यग् दृष्टिः स्वप्रायोग्यजघन्यवीर्ये वर्तमानस्तीर्थकरनामजघन्य प्रदेश बन्धं करोति / नारकोऽपि श्रेणिकाऽऽदिवदेवं तद्वन्धकः संभवति, परमिह देवोऽल्पयोगत्वादनुत्तरवासी गृह्यते, नारकेषुत्वेवंभूतो जघन्ययोगो न लभ्यतेऽतस्तेषु समुत्पन्नो नेह गृहीतः, तिर्यञ्चस्तु तीर्थकरनाम न बध्यन्तीत्युपेक्षिताः, मनुष्यास्तु भवाऽऽद्यसमये तीर्थकरनामसहितां नाम एकोनत्रिंशतमेव वघ्नन्त्यतस्तत्राल्पा भागा भवन्ति / एकत्रिशद्वन्धस्तु तीर्थकरनागसहितः संयतस्यैव भवति, तत्रा च बीर्यमल्पं न लभ्यते, अन्येषु तु नामबन्धेषु तीर्थकरनामैव न बध्यते अतःशेषपरिहारेण त्रिंशद्वन्धकस्य देवस्यैव ग्रहणं, देवद्विकवैक्रियद्विकयोस्तु बद्धतीर्थकरनामदेवनारकेभ्यश्च्युक्त्वा समुत्पन्नो मूलप्रकृतिसप्तविधबन्धको देवगतिर्देवानुपूर्वी पञ्चेन्द्रियजातिवैक्रियशरीरं वैक्रियाङ्गोपाङ्ग समचतुरससंस्थानमुच्छवास पराधातं प्रशस्तवि हायोगतिस्रसनाम बादरनाम पर्याप्तनाम प्रत्येकनाम स्थिरास्थिरयोरेकतरं शुभाशुभयोरेकतरं यशःकीर्वयश:कीयोरेकतर सुभगनाम सुस्वरनाम आदेयनाम वर्णचतुष्टयं तैजसकार्मणे अगुरुलघूपघात निर्माणं तीर्थकरनामेति लक्षणां देवगतिप्रयोग्यां नामैकोनत्रिशतं निर्वर्तयन् स्वप्रायोग्यं सर्वजघन्यवीर्ये व्यवस्थितो भवाऽऽद्यसमये वर्तमानो मनुष्यो जघन्यप्रदेशबन्धं करोति / देवनारका हितावद्भप्रत्ययादेवैतत्प्रकृति चतुष्टयं न बध्नन्तीति नेहाधि