________________ बंध 1167 - अभिधानराजेन्द्रः - भाग 5 बंध - हि-घृष्टवादिकदशनं बहुतरमुपभुक्तं तृप्तिलक्षणं स्वकार्यमातनोति मूद्रीकाऽऽदिकं त्वल्पमपि भुक्तं तृप्तिमुपकल्पयति। यथा विषं स्वल्पमपि मारणाऽऽदिकार्य साधयति, लेष्टुकाऽऽदिकं तु प्रचुरमित्येवमिहापि उपनयः कार्यः / तस्मात्प्रभूतावेदनीय-पुद्रलाः सुखदुःखे साधयन्तीति सुखदुःख स्फुटत्वकारणा-द्वेदनीयस्य महान इति स्थितम्। शेषकर्मणा भागस्य हीनाधिकत्वे कारणमाह-(ठिईविसेसेण सेसाणं ति) वेदनीयाच्छेषकर्मणामायुष्काऽऽदीना भागस्य हीनत्वमाधिक्यं वा विज्ञेयम्। केनेत्याह स्थितिविशेषेण हेतुभूतेन यस्य नामगोत्राऽऽदेरायुष्काऽऽद्यपेक्षया महती स्थितिस्तस्य तदपेक्षया भागोऽपि महान्, यस्य त्वसौ हीना तस्य सोऽपि हीन इति भावः। ननु स्थित्यनुरोधेन भागो भवषायुषः सकाशाजामगोत्रायो वः संख्यातगुण प्राप्रोति तत्किमित्युक्त विशेषाधिक इति? सत्यमेतत्, किं तु सर्वो ऽपि नरकगत्यादिकर्मकलाप आयुष्कोदयमूलः तदुदय एव तस्योदयात्, अत आयुष्कं प्रधानत्वाद्बहुपुद्रलद्रव्यं लभते। यद्येवं तदपेक्षया-प्रधानत्वान्नामत्रयोर्भागस्य विशेषाधिकत्वमयुक्तमिति। सत्यमेतत्, किंतुनामगोत्रो सततबन्धिनी, ततस्त दपेक्षया बहुद्रव्यमाप्नुतः, आयुष्कं तु कदाचित्कबन्धत्वादल्पद्रव्यमाप्रोति। इदमुक्तं भवति-स्थित्वनुसारेण संख्यातगुणहीनताप्राप्तावपि शेष कर्मोदयाऽऽ क्षेपकत्वेन प्रधानत्वान्नामगोगापेक्षया किंचिदूतमेव भागमायुष्कं लभते, नामगोत्रो त्वप्रधानतया हीनताप्राप्तावपि सततबन्धित्वादायुष्कापेक्षया। विशेषाधिकमेव भागं लभते / ननु तथापि ज्ञानाऽऽवरणाऽऽद्यपेक्षया मोहनीयस्य संख्यातगुणो भागः प्राप्रोति, तत्स्थितेानाऽऽवरणीयाऽऽदिस्थित्यपेक्षया संख्यातमुणात्वात्, अतः कथं विशेषाधिक उक्तः? सत्यं, दर्शनमोहनीलक्षणाया एकस्या एव मिथ्यात्वप्रकृतेः सप्ततिसागरोपमकोटीकोटीलक्षणा स्थितिरुक्ता, चारित्रमोहनीयस्य तु कषायलक्षणस्य चत्वारिंशत्सागरोपभ कोटीकोटीलक्षणैव स्थितिः, अतस्तदनुसारेण विशेषाधिक एव तद्भाग उक्तो न तु संख्यातगुणः / दर्शनमोहनी अद्रव्यं तु सर्वमेव चारित्रमोहनीयदलिकात् सर्वघातित्वे नानन्तभाग एवं वर्तत इति न किञ्चित्तेन वर्धत इति।युक्तिमात्रां चैतत्, निश्चयस्तु श्रीसर्वज्ञवचनप्रामाण्यादेवातीन्द्रियार्थप्रतिपत्तिः। भवत्येवंतथाऽप्येकस्मिन् समये गृहीतद्रव्यस्य कथमटधा परिणामः कथं चैव भागाऽऽदिकल्पनेति चेदुच्यते-अचिन्त्यत्वाज्जीवशक्ते विचित्रात्वाच्च पुद्गल परिणामस्य जीवव्यतिरिक्तानामपि ह्यभ्रेन्द्रधनुरादिपुद्गलानां विचित्रा परिणतिरवलोक्यते किमुत जीवपरिगृहीता नामित्यलं विस्तरेणेति / / 80 // मूलप्रकृतीनां भागप्तरूपणा। ___साम्प्रतमुत्तरप्रकृतीनां भागप्ररूपणां चिकीर्षुराह - नियजाइलद्धदलिया-णतंसो होइ सव्वघाईणं। वज्झंतीण विभञ्जइ, सेसं सेसाण पइसमयं / / 1 / / यत्र यत्र प्रकृतयो यस्यां यस्यां मूलप्रकृतौ पठिता विद्यन्ते, तासां सैव प्रकृतिर्निजजातिर्विज्ञेया / तया तया निजनिजमूलप्रकृतिरूपया निजजात्या यल्लब्धं प्राप्तं दलिकाग्रं यस्य योऽनन्तांश:-अनन्तभागः सर्वघातिरयुक्तः स एव सर्वघातिनीनां प्रकृतीनां केवलज्ञानाऽऽवरणकेवलदर्शना ऽऽवरणनिद्रापञ्चकमिथ्यात्वसंज्वलनवर्जद्वादशकषायलक्षणानां विंशतिसंख्यातामपि भवति-जायते / काऽत्रा युक्तिरिति चेदुच्यते-इहाष्टानामपि मूलप्रकृतीनां प्रत्येकं यं स्निग्धतराः परमाणवस्ते स्तोकाः ते च स्वस्वमूलप्रकृतिपरमाणूनामनन्ततमो भागः, त एव च सर्वघतिप्रकृतियोग्याः, तस्मिंश्चानन्ततमे भागे सर्वघातिरसयुक्तंऽपसारिते शेषस्य दलिकस्य देशघातरसोपेतस्य का वातत्याह-(वज्झती च विभज्जइ इत्यादि) बध्यमानानां न त्वबध्यमानानां विभज्यतेविभागीक्रियते विभज्य विभज्य दीयत इत्यर्थः। शेषं सर्वघाति प्रकृत्यनन्तभागावशिष्ट प्रदेशाग्रम्। कासाबध्यमानानां विभज्यत इत्याह शेषाणां सर्वधातिप्रकृत्यवशिष्टानाम्। कथमित्याह-प्रतिसमयंप्रतिक्षणं बन्धनविभजनक्रिययो रुभयोरपि क्रियाविशेषणमिदं योजनीयम् / अयमत्रा तात्पयर्थिः-इह ज्ञानाऽऽवरणस्य पञ्च तावदुत्तरप्रकृतयः तासु चैका केवलज्ञानाऽऽवरणलक्षणा सर्वघातिनि, शेषाश्चतस्रो देशघातिन्यः, तत्रा ज्ञानाऽऽवरणस्य भागे यद्दलिकमायाति तस्य यदनन्तभागवर्विसर्वघातिरसोपेतं द्रव्यं तत्केवलज्ञानाऽऽवरणस्यैव भागतया परिणमति, शेष तु देशघातिर सोपेतं द्रव्यं चतुर्धा विभज्यते, तच मतिज्ञानाऽऽवरणश्रुत ज्ञानाऽऽवरणमनः पर्यायज्ञानाऽऽ वरणेभ्यो दीयते। दर्शनाऽऽवरणस्य च नवोत्तरप्रकृतयः,तासुचकेवलदर्शनाऽऽवरण निद्रापञ्चकचेति षट् सर्वधातिन्यः, शेषास्तिस्रो देशधातिन्यः, तत्र दर्शनाऽऽवरणस्य भागे यद्रव्यमागच्छति तस्यमध्येयत्सर्वघातिरसोपेत मनन्ततम भागवर्तिद्रव्या षभिभागैर्भूत्वा सर्वघातिंप्रकृतिषट्करूपतयैव परिणामति, शेषं तु देशघातिरसयुक्तं द्रव्यं शेषप्रकृतित्रायभागरूपतयेति / वेदनीयस्य पुनः सातरूपाऽसातरूपा वैकैच प्रकृतिरेकदा बध्यते, न युगपदुभे अपि, सातासातयोः परस्पर विरोधात्, अतो वेदनीयभागलब्धं द्रव्यमेकस्या एव बध्यमानायाः प्रकृतेः सर्व भवति। मोहनीयम्य स्थित्यनुसारेण यो मूलभागः आभजति तस्यानन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्वधा क्रियते, अर्धदर्शनमोहनीस्थार्ध चारित्र मोहनीयस्य तत्रार्धदर्शमोहनीयसक्तं समग्रमपि मिथ्यात्वमोहनीयस्य ढोकते, चारित्रमोहनीयस्य तु सत्कमधू द्वादशधा क्रियते, तेच द्वादशभागा आद्येभ्यो द्वादशकषायेभ्यो दीयन्ते, स्वस्थाने तु कषायद्वादशकस्यापि तुल्यं, शेषं तु देशघातिरससमन्वितं द्रव्यं द्विधा क्रियते, तौको भागः कषायमोहनीयस्य, द्वितीयो नोकषायमोहनीयस्य / तत्र कषायमोहनीयस्य भागश्चतुर्धा क्रियते, ते चत्वारोऽपि भागाः संज्वलनकोधमानमायालोभानां दीयन्ते। नोकषायमोहनीयस्य पुनर्भागः पञ्चधा क्रियते, ते च पञ्चापि भागा यथाक्रमं त्रयाणां वेदानामन्यस्मै वेदाय बध्यमानाय, हास्यरतियुगलारतिशोक युगलयोरन्यतरस्मै पुगलाय, भयजुगुप्साभ्यां च दीयन्ते, नान्येभ्यः, बन्धाभावात् / न हि नवापि नो कषाया युगपद्वन्धमायान्ति, किंतु यथोक्ताः पञ्चैव। आयुषस्तु भागे यद्रव्यमागच्छति तत्सर्वमेकस्या एव बध्यमानप्रकृतेर्भवति, यत आयुष एकस्मिन्काले एकैव प्रकृतिबंध्यत इति। नामकर्मणो भामभावना कर्म