________________ बंध 1168 - अभिधानराजेन्द्रः - भाग 5 बंध -- प्रकृत्यभिप्रायेण दर्श्यते / तत्रेयं गाथा"पिंडपगईसु वज्झ-तिगाणा वन्नगंधरसफासाणं / सव्वेसिं संघाए, तणुम्मि य तिगे चउक्के वा // 1 // अस्या अक्षरार्थगमनिका-पिण्डप्रकृतयो-नामप्रकृतयः / यदुक्तं कर्मप्रकृतिचूर्णो-"पिंडपगईओ नामपगाईओ त्ति / तासु मध्ये बध्यमानानामन्यतप्रगति जाति शरीरबन्धन संहघातनसंहननसंस्थानाङ्गोपाङ्गानु पूर्वीर्णा वर्णगन्धसस्पर्शागुरुलघुपराघातोपघातोच्छवासनिर्माणतीर्थ कराणाम् आतपोदद्योत प्रशस्ताप्रशस्त विहायोगतित्रस स्थावरबादरसूक्ष्मपर्याप्ता पर्याप्तप्रत्येक साधारण स्थिरास्थिर शुभाशुभसुभग दुर्भग सुस्वर दुःस्वरादेयानाऽऽदेययशः कीर्त्ययश: कीर्त्यन्तराणां च मूलभागो विभज्य समर्पणीयः / अौव विशेषमाह - (वर्णोत्यादि) वर्णगन्धरसस्पर्शानां प्रत्येक यद्भागलब्धं दलिकमायाति तत्सर्वेभ्यस्तेषा मेवावान्तरभेदेभ्यो विभज्य विभज्य दीयते। तथाहिवर्णनाम्नो यद्गागलब्धं दलिकं तत्पञ्चधा कृत्वा शुक्लाऽऽदिभ्योऽवान्तरभेदेभ्यो विभज्य विभज्य दीयते, एवं गन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य संबन्धिनो भागस्थततिभागाः कृत्या तावदभ्योऽवान्तरभेदेभ्यो दातव्याः। तथा संघाते तनौ च प्रत्येकं यद्भागलब्धं दलिक मायातितत्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यो वा दीयते। तत्रौदारिकतैजसकार्मणानि वैक्रियतेजसकर्माणानि वा त्रीणि शरीराणि संघातान् वा युगपद्वघ्नता त्रिधा क्रियते, वैक्रियाऽऽहारकतैजसकार्मण रुपाणि चत्वारि शरीराणि संघातान् वा बध्नता चतुर्धा क्रियते। सत्तेकार विगप्पा बंधण नामाण' बन्धननाम्नां भागलब्धं यहलिकमायाति तस्य सप्त विकल्पाः-सप्त भेदाः शरीराये, एकादश वा विकल्पाः शरीरचतुष्टये क्रियन्ते / तत्रौदारिकौदारिक-१ औदारिकतैजस 2 औदारिककार्मणा 3 औदारिकतैजसकार्मण 4 तैजसतैजस 5 तैजसकार्मणा 6 कार्मणकार्मण 7 लक्षणबन्धनानि बनता सप्त, वैक्रियचतुष्काऽऽ हारकचतुष्कतैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकादश, अवशेषाणां च प्रकतीनां यद्भागलब्ध दलिकमायाति तन्न भूयो विभज्यते, तासां युगपदवान्तरद्वित्र्यादिभेदबन्धा भावात्, तेन तासां तदेव परिपूर्णे दलिक भवतीति। गोत्रस्य तु यद्भागाऽऽगतं द्रव्यं तदेकस्या एव बध्यमानप्रकृतेः सर्वं भवति, यगोत्रस्यैकदा उच्चैर्गोत्रलक्षणा नीचैर्गोत्रलक्षणा यैकैव प्रकृतिर्वध्यते। अन्तरायभागलब्धं तु द्रव्यं दानान्तरायाऽऽदिप्रकृतिपञ्चकतया परिणमति, यत एताः पञ्चापि ध्रुवबन्धित्वासर्वदैव बन्धन्त इति / ननु "वज्झं तीण विभज्जइ त्ति वचनेन बध्यमानानामेवायं भागवि, धिरुक्तः, यदा च स्वस्वगुणस्थाने बन्धव्यवच्छेदः संपद्यते तदा तासां भागलब्धं द्रव्यं कस्या भागतया भवतीति, अत्रोच्यते-यस्याःप्रकृतेर्बन्धो व्यवच्छिद्यते तद्भागलब्धं द्रव्यं यावदेकाऽपि सजातीयप्रकृतिर्वध्यते तावत्तस्या एव तद्भवति। यदा पुनः सर्वासामपि सजातीयप्रकृतीनां बन्धो व्यवच्छिन्नो भवति न च मिथ्यात्वस्येवापरा सजातीया प्रकृतिरस्ति तदा तद्भागलभ्य द्रव्यं सर्वमपि मूलप्रकृत्यन्तर्गताना विजातीय प्रकृतीनामपि भवति। यदाताअपि व्यवभवन्ति तदा तद्दलिक सर्वमध्यन्यस्या मूलप्रकृतेः संपद्यते / निदर्शनं चात्र तथा स्त्यानलिशिकस्य बन्धव्यवच्छेदे तद्भागलभ्यं द्रव्यं सर्वमपि सजातीययोः निद्राप्रचलयोर्भवति तयोरपिबन्धविच्छेदे सति स्वमूलप्रकृत्यन्तर्गतानां चक्षुर्दर्शनाऽऽवरणाऽऽदीना विजातीया नामपि भवति, तेषामपिच बन्धे विच्छिन्ने उपशान्तमोहा ऽऽद्यवस्थाया निःशेष सातवेदनीयस्यैव भवति। मिथ्यात्वस्य तु बन्धविच्छेदे सति सजातीयाभावातद्भगलभ्यं दलिकं सर्वे विजातीयानामेव क्रोधाऽऽदीनाद्यद्वादशकषायाणा भवतीत्यनया दिशा तावन्नेय यावात्सूक्ष्मसंपरायगुणस्थाने मोहनीयस्य भागलभ्यं द्रव्य षट्भागतया भवति, तत ऊद्धर्वमुपशान्ताऽऽद्यवस्थायां सर्वथा शेषमूलप्रकृतीनां बन्धविच्छेदे तद्भागलभ्यं द्रव्यं सर्व सातवेदनीयस्यव भागतया भवतीति। अत्रौव कर्मप्रकृति टीकाकारोपदर्शितं स्वस्वोत्तर प्रकृतीनामुत्कृष्टपदे जघन्यपदे चाल्पबहुत्वं विनेयजनानुप्रहाय प्रदर्श्यतेतत्रोत्कृष्टपदे सर्वस्तोकं प्रदेशाप्रकेवलज्ञानाऽऽ वरणस्य, ततो मनःपर्यवज्ञानाऽऽवरणस्यानन्तगुणं ततोऽवधिज्ञानाऽऽवरणस्य विशेषाधिकं ततः श्रुतज्ञानाऽऽवरणस्य विशेषाधिकं, ततो मतिज्ञानाऽऽवरणस्य विशेषाधिकम्, तथा दर्शनाऽऽवरणे उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं, ततो निद्राया विशेषाधिक, ततः प्रचलाऽप्रचलाया विशेषाधिक, ततो निद्रानिद्राया विशेषाधिक, ततः स्त्यानद्धर्विशेषाधिकं, ततः केवलदर्शनाऽऽवरणस्य विशेषाधिकं, ततोऽवधिदर्शनाऽऽवरणस्यानन्तगुणं ततोऽचक्षुर्दर्शनाऽऽवरणस्य विशेषाधिक, ततश्चक्षुर्दर्शनाऽऽवरणस्य विशेषाधिकं, तथा सर्वन्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततः सातवेदनीयस्य विशेषाधिकम्।तथा मोहनीये सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानाऽऽवरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकं, ततोऽप्रत्याख्यानाऽऽवरणमाया विशेषाधिकम, ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकं, ततः प्रत्याख्यानाऽऽवरणमानस्य विशेषाधिकं. ततः प्रत्याख्यानाऽऽवरणक्रोधस्य विशेषाधिक, ततः प्रत्याख्यानाssवरणमायाया विशेषाधिकं, ततः प्रत्याख्यानाऽऽवरणलोभस्य विशेषाधिक, ततोऽनन्तानुबन्धिमानस्य विशेषाधिकं, ततोऽनन्तानुवन्धिक्रोधस्य विशेषाधिकं, ततोऽनन्तानुबन्धिमायाया विशेषाधिक, ततोऽनन्तानुबन्धिलोभस्य विशेषाधिकम्, ततोमिथ्यात्वस्य विशेषाधिकम, ततो जुगुप्साया अनन्तगुणं, ततो भयस्य विशेषाधिकम्, ततो हास्यशो-कयोर्विशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यम्, त् पुनः तो रत्यरत्योर्विशषाधिकं, तयोः पुवः स्वस्थाने तुल्यम्, ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं, स्वस्थाने तु परस्परं द्वयोरपि तुल्यम्. ततः संज्वलनक्रोधस्य विशेषाधिकं, ततः संज्वलनमानस्य विशेषाधिकम्, ततः पुरुषवेदस्य विशेषाधिकम्, ततः संज्वलनमायाया विशेषाधिकं, ततः संज्वलनलोभ स्यासंख्येयगुणम्, तथा चतुर्णानप्यायुषामुत्कृष्टपदे प्रदेशाग्र (सर्वस्तोक तिर्यडमनुष्याऽऽयुषोः स्वस्थाने तु परस्पर तुल्यं, ततो देवनारकाऽऽयुषोरसंख्येयगुणं स्वस्थाने) परस्परं तुल्यम, नामकर्मण्युक्तकृष्टपदे प्रदेशानां गतौ देवगतिनर