________________ 1164 - अभिधानराजेन्द्रः - भाग 5 बंध बकार: ब पुं०(ब) पवर्गमध्यमोऽयं वर्ण औष्ठ्यः / स्पर्शसंज्ञः / बल-डः / सूचने, तन्तुसन्ताने, वयने, वहने, घटे, समुद्रे, यौनो, जने च। वाचका विकल्पे, गगने, गिरी, कलभे, खगगभ, पदे, अल्पे, कर्मणि, विभूतिकारे, विन्दी, बलाऽऽकृष्ट, विमोचने, नले न० / अमले, त्रि०। वल्ल्याम्, काहलायां, शृङ्खलायां च / स्त्री०। एका०। "बो दन्त्यौष्ठयस्तथोष्ठयोऽपि, वरुणे वारुणे वरे। शोषणे यवने गन्धे, वासे वृन्दे च वारिधौ / / 87 // वन्दने वदने वादे, वेदनाया च वा स्त्रियाम्। झञ्झावाते तथा मन्त्र, सर्वमन्त्रे मृताऽऽत्मके।।८८" एका०। बइल्ल पुं० (वलीवर्द) 'गोणाऽऽदयः / / 8 / 2 / 174 / / इति निपातः / प्रा०२ पाद आ०म०। पुंगवे, तं०। बलीवर्दे, दे० ना०६ वर्ग 61 गाथा / बउल पुं० (बकुल) बकुलनामके वृक्षे, ''केसरो बउलो।" पाइ० ना० 254 गाथा। "क-ग-0"||८1१।१७७ / / इति कलुक। बउहारी (देशी) समाजेन्याम, देखना०६वर्ग 67 गाथा। बंक त्रि०(वक्र) कुटिले, स्था०। बंझ त्रि० (बन्ध्य) अनियतकार्यकर्त्तरि, सूत्रा०२ श्रु० 1 अ०। विफले, षो० 12 विव०। स०। अपत्यफलापेक्षया निष्फलायां स्त्रियाम्, नि०१ श्रु०३ वर्ग०३ अ०। ज्ञा० / आ० म० / अर्थशून्ये, सूत्र०१ श्रु०११ अ० / षशित्तममहाग्रहे, सू० प्र०२० पाहु०। कल्प०। पूर्व धीरयति, अयुनर्वन्धकानां कर्मप्रकृतिबन्धश्च अस्मिन् बन्धशब्दे दृष्टव्यः। प्रज्ञा०। बंदि पुं० (वन्दिन्) चारणे, "मंगलपाढय--मागह-चारण वे आलिआ बंदी।" पाइ० ना० 32 गाथा। बंध पुं० (बन्ध) मनुष्यगवादीना रजुदामनकाऽऽदिभिः संयमने, ध०र०। आव०ा आचा०। ज्ञा०। भृत्ये, दे० ना०६ वर्ग 86 गाथा। निगडाऽऽदिभिः संयमने, व्य०६ उ०। श्रा०। पञ्चा०। रज्जवादिबन्धने, ज्ञा०१श्रु०८ अ० प्रश्न०। जं०।जीवस्य कर्मपुदलसंप्लेषे, स०१ सम०। आश्रवनिमित्ते सकषायस्याऽऽत्मनः कर्मवर्गणापुद्गलेः संश्लेषविशेषे सम्म०३ काण्डा अष्टप्रकारकर्मपुरलैः प्रतिप्रदेशं जीवस्या वष्टम्भे, आचा०२ श्रु० 3 चू०१अ01 (कर्मपुद्गलानाम्) विशिष्टरचनयाऽऽत्मनि स्थापने, आव० 3 अ०। जीवकर्मसंयोगे, आ०म०१ अ०।आत्मकर्मणोरत्यन्तं संश्लेषे, उत्त० 1 अ० / प्रकृतिस्थित्यनुभागप्रदेशाऽऽत्मकत्रया कर्मपुगलानां जीवेन स्वव्यापारतः स्वीकरणे, सूत्रा०। णत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए। अत्थि बंधे व मोक्खे वा एवं सन्नं निवेमए / / 15 / / सूत्र०२ श्रु०५ अ०। ('अस्थिवाय' शब्दे प्रथमभागे 205 पृष्ठ व्याख्यातम्) कर्मण्णामभिनवग्रहणे, पा०।कर्मपुदलजीव प्रदेशान्योन्याऽऽगमे, दशा० 10 अ० / ज्ञानाऽऽवरणाऽऽदिपुगल योगे, दश० 4 अ०। जीवकर्मयोगे, दश०४ अ०। पं० सू०॥ बन्धसत्वम्तत्र च सर्वबन्धास्त्रा (अ)वनिरोधः अशेषकर्मपरिक्षय सामोपपत्तेः तदेव च निःशेष भवदुःखविटपिदावानलकल्प साक्षन्मोक्षाकरणं, तदूध्यानवांश्चायोगिकेवली निःशेषितनलकलङ्कोवाप्तशुद्धनिजस्वभाव ऊद्धर्वगतिपरिणाम स्वाभाव्यात् निवातप्रदेशप्रदीप शिखावदूद्धर्व गच्छत्येकसमयेन आलोकान्तात् विनिर्मुक्ताऽशेषबन्धनस्य प्राप्तनिजस्वरुपस्याऽऽत्मनो लोकान्तेऽवस्थानं मोक्षः / 'बन्धवियोगो मोक्षः' इति वचनात्। अाच जीवाऽऽजीवयोरागम दिवाऽध्यक्षानुमानतोऽपि सिद्धिः प्रदर्शिता, आश्रषस्याऽपि तथैव, कर्मयोग्यपुद्गलाऽऽल्मप्रदेशानां परस्पराऽनुप्रवेशस्वभावस्य तु बन्धस्याऽनुपलब्धावप्यध्यक्ष तोऽनुमानात्प्रतिपत्तिः। तथा हि-अशेषज्ञेयज्ञानस्वभाव स्याऽऽत्मनः स्वविषयेऽप्रवृत्तिर्विशिष्टद्रव्यसम्बन्धनिमित्ता, पीतहत्पूरपुरुषस्वविषयज्ञानाऽप्रवृत्तिवत्, यच ज्ञानस्य स्वविषयप्रतिबन्धकं द्रव्यं तज्ज्ञानाऽऽवरणाऽऽदि वस्तु सत्पुद्गलरुपं कर्म, आत्मनश्च सकलज्ञेयज्ञानस्वभावता स्थविषया प्रवृत्तिश्च छद्मस्थाऽवस्थायां प्राक्पदर्शितैव। औदारिकाऽऽद्यशेषशरीरनिबन्धनस्याऽनेकावान्तर भेद भिन्नाऽष्टविधकर्माऽऽत्मकस्य कार्मणशरीरस्य सर्वज्ञप्रणीताऽऽगमात् सिद्धेः कथंन ततो बन्धसिद्धिः? न च कार्मणशरीरस्य मूर्तिमत्वात् सत्वे उपलब्धिः स्यात् अनुपलम्भाचतदसदिति वाच्यमयतोन सर्वे मूर्तिमदुपलभ्यते, सौक्ष्म्यात्। पिशाचाऽऽदिशरीरस्येव औदारिकादिशरीरनिमित्ततयोप कल्पितस्याऽनुपलम्भेऽप्य पहोतुमशक्यत्वात्। कथमनुपलभ्यमानस्याऽस्तित्वं तस्येति चेत्, न; आप्तवादात्तस्य सिद्धेः / न च तदभाव औदारिकाऽऽद्यपूर्वशरीर योग आत्मनः स्यात् / न हि रजवाकाशयोरिव मूर्त्ताऽमूर्तयोर्बन्धविशेषयोगः कार्मणशरीरविनाभूतश्चामुक्तेः सदात्मेति तस्य कथञ्चिन्मूतत्वम् / ततश्च-औदारिकाऽऽशरीरसंबन्धो रजूघटयोरिवोपपत्तिमान् / अथ सूक्ष्मशरीरसिद्धावप्याश्रवनिरपेक्षाः परमाणवो वाय्वादिसूक्ष्म द्रव्यनिमित्तपरमाणुद्रव्यवद्भविष्यन्तीति न बन्धहेत्वाश्रवसिद्धिः, नैतत, कोडीकृतचैतन्यप्रयोजनस्या चेतनस्याऽऽश्रवनिरपेक्ष परमाणुहेतुत्वानुपपत्तेः / नाभ्यन्तरीकृत चैतन्यप्रयोजनस्य आकाशद्रव्याऽऽदेवगिः बुद्धिः शरीराऽऽरम्भाऽऽदिनिरपेक्ष परमाणुजन्यता परस्याऽपि सिद्धा अतः तृष्णानबुद्धस्य चैतन्यस्य मनोवाक्कायव्यापारवतः कर्मवर्गणापुद्रलसचिवस्य कार्मणशरीरनुविद्धस्य तथा विधतच्छरीरनिर्वर्तकत्वम्, अन्यथा तथाविधकारणप्रभवतच्छरीराऽभावे आत्मनो बन्धाऽ भावतः संसारिसत्यविकलं जगत् स्यादेव। तीर्थान्तरीयैरपि आतिवाहिकाऽऽदिशब्दवाच्यतयाऽभ्युपगम्यमानं कार्मणशरीरं सकलदृष्टपदार्था विसंवाद्यर्ह दुत्काऽऽगमप्रति-पाद्यमवश्यमभ्युपगन्तव्यम् / अन्यथा-सकलद्दष्टाऽदृष्टव्यवहारोच्छेद प्रसङ्गःनच-अचेतनस्य तस्य कथं भवान्तरप्रापकत्वम्? चेतनाधिष्ठितस्याऽचेतनस्याऽपि देवदत्त व्यापारप्रयुक्त देशान्तर प्रापणशक्तिमनूनौद्रव्यवद् अचेतनस्यापि तत्प्रापकत्वा विरोधात्। न च सदा चैतन्याऽनुषत्कस्य तस्याऽचेत नव्यपदेशयोगितेति प्राक् प्रतिपादितत्वात्। तदेवम् अनुमानाऽऽगमाभ्यां बन्धस्य सिद्धिः। (63 / गाथा टी०) सम्म०३ काण्ड।