________________ फोड 1163 - अभिधानराजेन्द्रः - भाग 5 फोड ष्वभिन्नाऽऽकारं श्रोत्रान्वयव्यतिरेकानुविधाय्यध्यक्ष स्फोटसद्भावमवबोधयति' इत्युत्कम् / तदप्यसारम् ; घटाऽऽदिशब्देषु परस्परच्यावृत्तनेकवर्णव्यतिरित्कस्य स्फोटात्मनोऽर्थप्रत्यायकस्यैकस्याध्यक्ष प्रतिपत्तिविषयत्वेना प्रतिभासनात् / तचाभिन्नावमासमात्रादभिन्नार्थव्यवस्था, अभ्यथा-दूरादविरलानेकतरुष्वेकतरुबुद्धेरेकत्व व्यवस्थाप्रसक्तः। नचाविरलानेकतरुष्वेकत्वबुद्धेर्वाध्यमानत्वात्। नैकत्वव्यवस्थापकत्वम्, स्फोटप्रतिभास-बुद्धेरपि बाध्यत्वस्यदर्शितत्वात्। न चैकत्वावभासः स्फोटसद्भावमन्तरेणानुपपन्नः, वर्णत्वान्त्यवर्ण विषयत्वेनाप्येकत्वावभासस्योपपद्यमानत्वानिरवयव स्याकमस्य नित्यत्वाऽऽदिधर्मो पेतस्य स्फोटस्यैकावभा सज्ञानेनाननुभवात. अन्यथाऽवभासस्य चान्यथाभूतार्थी व्यवस्थापकत्वाद्, व्यवस्थापनेऽतिप्रसङ्गात् / अवयवि द्रव्यं त्ववयवजन्यत्वेन तदाश्रित्वेन चाध्यक्षप्रत्यये प्रतिभासत इति न तन्नयायः स्फोटे उत्पादयितुं शक्यः / तन्न स्फोटाऽऽत्मा शब्दो वर्णेभ्यो व्यतिरिक्तः / अथ तदव्यतिरिक्तोऽसावभ्युपगम्यते, तदा वर्णनानात्वे सन्नानात्वप्रसक्तिः तदेकत्वे वावर्णानामप्येकत्वप्रसक्तिः।३२ गा०टी०। सम्म० 1 काण्ड (मीमांसाकमतोद्धाटन तन्निरसनाऽऽदिविषयस्तु सम्मतिटीकात एव ज्ञेयो, नेह प्रतायते विस्तरभयात्) स्फोटाऽऽख्यते वर्णभेदे च / वाच०स्था०१० ठा०।। फोडकम्म न० (स्फोटकर्मन्) स्फोटः--पृथिव्यादिविदारणम्, एतदेव कर्म स्फोटकर्माध०२ अधि०।स्फोटिभूमेः स्फोटनम्, हल कुद्दालाऽऽदिभिः सैव कर्म स्फोटिकर्म / भ०८ श०५ उ० / स्फोटजीविकायाम, तद्रूपे / कर्माऽऽदानभेदे च / ध०२ अधि०। आ० चू०। उपा०।"फोडीकम्म 'उडत्तेणं हलेणं वा भूमि फोड़ओ।"श्रा० / पञ्चा० / ध० 20 / आव०। प्रव० / स्फोटकर्म वापीकूपतडागाऽऽदिखननम्। यद्वा-हलकुदालाऽऽदि ना भूमिदारणं पाषाणाऽऽदिघट्टनं वा, यवाऽऽदिधान्यानां सक्तवादिकरणेन विक्रयो वा! यदुल्कम् "जवचण्या गोहू-ममुग्गममासकरडिप्पभिइधन्नाणं / सत्थुअदालिकणिका - तदुलकरणाइँ फोडणयं // 1 // अहवा कोडीकम्म, सीरेण भूमिफोडणं जंतु। उत्तणयं च तहा, य सीलकुट्टत्तयं चेति // 2 // " प्रव०६ द्वार / एतच वर्जनीयम् / उक्तं च-"सरःकूपाऽऽदिखननं, शिलाकुडनकर्मभिः / पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका।।१।।" अनेन च पृथिव्या वनस्पतित्रासाऽऽदिजन्तूनां च धालो भवतीति दोषः स्पृष्ट एव / ध०२ अधि०। फोडजीविया स्त्री० (स्फोटजीविका) स्फोटकर्मणि, ध०२ अधि०। ('वित्ति' शब्देऽषष्टभागे स्फोटजीविकानिषेधं वक्ष्यामि) फोडण न० (स्फोटन) स्फुट-ल्युट् / विदारणे, विकाशने च / वाच०। स्था०२ ठा०१ उ०। व्यञ्जनवासनार्थे राजिकाजीरकादिके वस्तुनि, त्रि। पिं०। फोडय पुं० (स्फोटक) स्फुट्-वुल् / व्रणभेदे, विदारके च / वाच० / स्था०१०ठा०। फोडिअय (देशी) राजिकाधूमितयोः, सिंहाऽऽदिविधौ च / दे० ना०६ वर्ग 88 गाथा। फोडिय त्रि० (स्फोटित) भिन्ने, स्था०५ ठा०१ उ०। विदारिते, स्था० 2 ठा० 130 / औ०। जीरकहिड्डधूपवारिसते व्यञ्जनभेदेच। व्य०१ उ०। फोटीकम्म न० (स्फोटीकर्मन्) 'फोडकाम' शब्दार्थे, ध०२ अधि० भ०। फोफसन० (फोफस)'फुप्फुस' शब्दार्थे , प्रश्न०१आश्र० द्वार। फोफा ( देशी) भीतिपदे शब्दे, दे० ना०६ वर्ग 86 गाथा। फोल्लण न० (फोल्लण) भक्षणे, ज्ञा०१ श्रु०७ अ०। फोस पुं० (रफ्यस) 'रफ्यस' उत्सर्गे, स्फ्यस्यन्ति-पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तिः / अपानप्रदेशे, तं० / उद्गमे, दे० ना० 6 वर्ग 86 गाथा। इति श्रीसौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभु र श्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्यश्री 1008 Hd श्रीमद्विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' 5 __फकाराऽऽदिशब्दसङ्कलनं समाप्तम् //