________________ फोड 1162 - अमिधानराजेन्द्रः - भाग 5 फोड पदरुपतामासादयन् पदार्थे प्रतिपत्तिं जनयति, प्रात्कनवर्णसवित्प्रभवसंस्कारसव्यपेक्षो वा? न च संस्कारस्य विषयान्तरे कथ विज्ञानजनकत्वमिति प्रेय॑म, तद्भावभावितयाऽर्थप्रतिपत्तेरुपलब्धेः पूर्ववर्णविज्ञानप्रभव संस्कारश्चान्त्यवर्णसहायतां पूर्वपूर्वसंस्कारप्रभवतया प्रणालिकया विशिष्टः समुत्पन्नः सन् प्रतिपद्यते / तथाहि-प्रथमवणे तावद्विज्ञानं तेन च संस्कारो जन्यते, ततो द्वितीयवर्णविज्ञानं तेन पूर्ववर्ण विज्ञानाऽऽहितसंस्कारसहितेन विशिष्टः संस्कारो जन्यते, ततस्तृतीयवर्ण ज्ञानं, तेन पूर्वसंस्कारविशिष्टनापरो विशिष्टतरः संस्कारो निर्वर्यंत इति यावदन्त्यः संस्कारोऽर्थप्रतिपत्तिजनकान्त्यवर्णसहायः तथा भूतसंस्कारप्रभवस्मृतिसव्यपेक्षो वाऽन्त्यो वर्णः पदरुपः पदार्थप्रतिपत्तिहेतुः / अथवा शब्दार्थोपलब्धिनिमित्तादृष्ट नियमादविनष्टा एव पूर्ववर्णसंवित्प्रभवाः संस्कार अन्त्यसंस्कारं विदधति, तस्मात्पूर्ववर्णेषु स्मृतिरुपजाता अन्त्यवर्णेनोपलभ्यमानेन सद्दार्थप्रतिपत्तिमुत्पादयति, वाक्यार्थप्रतिपत्तौ वाक्यस्याप्ययमेव न्यायोऽङ्गीकर्त्तव्यः। वर्णाद्वर्णो त्यत्यभावप्रतिपादनं च सिद्धसाधनमेव / तदेवं यथोत्क सहाकारिकारणसव्यपेक्षादन्या द्वर्णादर्थप्रतिपत्तिरन्वयव्यति रेकाभ्यामुपजायमानत्वेन निश्चीयमाना स्फोटपरिकल्पनां निरस्यति / तदभावेऽप्यर्थप्रतिपत्तैरुकप्रकारेण संभवेऽन्यथानु पपत्तेः प्रक्षयात् / न हि दृष्टादेव कारणात् कार्योत्पत्तावद्दष्ट तदन्तरपरिकल्पना युक्तिसङ्गता अतिप्रसङ्गात्। कि च यद्युपलभ्यमाना वर्णा व्यस्तसमस्ता नार्थप्रतिपत्तिजननसमर्थाः स्फोटाभिव्यत्कावपिन समर्था भवेयुः / तथाहि-न समस्तास्ते स्फोटमभिव्य - जयन्ति सामस्त्यासंभवात्। नापि प्रत्येक वर्णान्तरवैफल्पप्रसङ्ग देकेनैव स्फोटाभिव्यक्तेर्जनितत्वात् / न च पूर्ववर्णैः स्फोटस्य संस्कारेऽन्त्यो वर्णस्तस्याभिव्यञ्जक इति, नवर्णान्तरवैयर्थ्य, अभिव्यक्तिव्यतिरिकसंस्कार स्वरुपानवधारणात् / तथाहि-न तावत्तत्र तैः वेगाऽऽख्यः संस्कारो निर्वय॑त, तस्य मूर्तेष्वेव भावात्। नापि वासनारुपाः अचेतनत्वात् / स्फोटस्य तचै तन्याभ्युपगमे वा स्वशास्त्राविरोधः / नापि स्थितिस्थापकः तस्यापि मूर्तद्रव्यवृत्तित्वात्, स्फोटस्य चामूर्तत्वाभ्युपगमात्। किं च -असौ संस्कार: स्फोटरुपस्तद्धर्मोवा? तावदाद्यः कल्पः रकोटस्य वर्णोत्पाद्यत्वप्रसत्केः / नापि द्वितीयः, व्यतिरिक्ताव्यति रिक्तविकल्पानुपपत्तेः / तथाहि असौ धर्मः स्फोटाव्यतिरिक्तः, अव्वतिरित्को वा? याव्यति रित्कस्तदा तत्करणे स्फोट एव कृतो भवेदिति तस्यानित्यत्वप्रसत्केः स्वाभ्युपगमविरोधः / अथ व्यतिरित्कस्तदा तत्संबन्धानुपपत्तिः तदनुपकारकत्वात्, तस्योपकाराभ्युपगमे व्यतिरिक्ताऽव्यतिरिक्तविकल्पः, तत्रापि पूर्वोक्त एव दोषोऽनवस्थाकारी। न च व्यतित्कधर्मसद्भावेऽपि स्फोटस्यानभिव्यत्किस्वरुपव्यवस्थितस्य पूर्ववदर्थप्रतिपत्ति हेतुत्वम् तत्स्वरुपत्यागे वाऽनित्यत्वप्रसक्तिः / अथ न व्यतिरिक्तसंस्कारकृतनुपकारमपेक्ष्य पूर्वरुपपरित्यागादसावर्थ प्रतिपत्ति जनयति, किंतु-संस्कारसहायोऽविचलितरुप एवैककार्यकारित्वस्यैव सहकारित्याभ्युपगमात्; नन्वेवम्-वर्णानामप्यन्यकृतोपकारनिरपेक्षाणामेककार्य निर्वर्तनलक्षण सहकारित्ववत्सहकारिसहितनामर्थप्रति पत्तिजननेकिम परस्फोट कल्पनयाऽप्रमाणिकया कार्यम्? किं चपूर्ववर्णः संस्कारः स्फोटस्य क्रियमाणः किमेकदेशैः क्रियते, सर्वाऽऽत्मना वा? यद्येकदेशैः, तदा ते ततोऽर्थान्तरभूतात, अनर्थान्तरभूता वा? | यद्यर्थान्तरभूतास्तदा तेषा तदनुपकारे संबन्धासिद्धिः; उपकारे व्यतिरिक्ताव्यतिरिक्त विकल्पोत्कदोषानुषङ्गः / न च समवायादनुपकारेऽपि तेषा तत्संबन्धिता, तस्यानभ्युपगमात् / परैरभ्युपगमे च स्वकृतान्तविरोधोऽर्थान्तरभूतत्वे चैकदेशानां तेभ्य एवार्थप्रतिपत्तेः न रफोटस्यार्थप्रत्यायकता / अपि च एकदेशानार्थप्रतिपत्तिहेतुत्वाभ्युपगमे च वरं वर्णानामेव तदभ्युपगतम्; एवं लोकप्रतीतिरनुसृता भवेत् / अथाव्यतिरिक्तास्तदेकदेशास्तदा स्फोटस्यैकेनैव संस्कृतत्वाद परवर्णोचारणवैयर्थ्यम् / न च पूर्ववर्णसवितप्रभवसंस्कारसहित स्तत्स्मृतिसहितो वाऽन्त्यवर्णः स्फोटसंस्कारकः एवं भूत स्यास्यार्थप्रतिपत्तिजननेऽपि शक्तिप्रतिघातभावात् स्फोटपरिकल्पना निरवसरैव। अपि च स्फोटसंस्कारः स्फोटविषय संवेदनोत्पादनमुताऽऽवरणापनयन? यद्यावरणापनयनं तदैकौकदाऽऽवरणापगमे सर्वदेशावस्थितैः सर्वदाव्यापिनित्यरुपतयोपलभ्यते तस्य नित्यत्वव्यापित्वा भ्यामपगताऽऽवरणस्य सर्वत्र सर्वदोपलभ्यस्वभावत्वात्, अनुपलभ्यस्वभावत्वे वा न केनचित कदाचित् कुत्राचिदुपलभ्येत / अथैकदेशाऽवरणापगमः क्रियते, नन्वेमावृतानावृतत्वेन सावयवत्वमस्यानुषज्येत / अथ निर्विभागत्वादेकत्रानावृतः सर्वत्रत्राऽऽनावृतोभ्युपगम्यते तदा तदवस्थाऽशेषदेशावस्थितै रुपलब्धिप्रसत्किर्यथा च निरवयवत्वादेकत्रानावृतः सर्वत्रानावृत स्तथा तत एवैकत्राप्यावृतः सर्वत्रौवावृतः इति मनागपि नोपलभ्यते। किं च - एकदेशाः स्फोटादर्थान्तरम् अनर्थान्तर वा? अर्थान्तरत्वेऽपि शब्दस्वभावाः, अशब्दात्मका वा? यद्यशब्दात्मका नार्थप्रतिपत्तिहेतवः अथ शब्दस्वभावाः, तत्रापियदि गोशब्दस्वभावास्तदा चात्र गोशब्दानेकत्यप्रशक्तिः / अथ-अगोशब्दस्वरुपा न तर्हि गवार्थप्रत्यायका भवेयुः / अथाऽव्यतिरिक्तास्तदा स्फोट एवं संस्कृत इति सर्वदेशावस्थितैयापिनस्तस्य प्रतिपत्तिप्रसत्किरिति पूर्वोत्कमेव दूषणम्। किंञ्च एकदेशाऽऽवरणापाये स्फोटस्य खण्डशः प्रतिपत्तिः प्रसज्येत। अथस्फोट विषय संविदुत्पादस्तत्संस्कारः; सोऽपि न युत्कः; वर्णानामर्थप्रतिपत्तिजनन इव स्फोटप्रतिपत्तिजननेऽपिसागाऽसंभावात न्यायस्य समानत्वात्। यदिच-स्फोट उपलभ्यस्वभावः सर्वदोपलभ्यते, अनुपलभ्यस्वभावत्वे आवरणापगमेऽपि तत्स्वभावनतिक्रमान्मनागपि नोपलभ्यते इत्यर्थाप्रतिपत्तितः शाब्दव्यवहार विलोपः। अनेनैव न्यायेन वायूनामपि तदव्यजकत्वमयुत्कं वायूनाञ्च व्यजकत्वपरिकल्पने वर्णवैफल्यप्रसक्तिः स्फोटाभिव्यत्कावर्थप्रतिपादने वा तेषामनुपयोगात्। स्थिते च स्फोटस्य वर्णोच्चारणात् प्राक् सद्भावे वर्णाना वायुनां वा व्यञ्जकत्वं परिकल्प्येतान च तत्सद्भावः कुतश्चित्प्रमाणादवगत इति न तत्परिकल्पना ज्यायसी / यदपि प्रत्यभिज्ञाज्ञानं स्फोटस्य नित्यत्वप्रसाधकं वर्णोच्चारणात् प्रागप्यस्तित्वमवबोधयति इत्यभ्यपगतं तदपि-प्रत्यभिज्ञाज्ञानस्य साद्दश्यनिबन्धनत्वेनात्रा विषये प्रतिपादितत्वात्-असंगतम्, एकगोव्यक्तौ संकेतितात् गोशब्दाद् गोव्यक्तयन्तरे अन्यत्राान्यदा च नित्यत्वमन्तरेणापि प्रतिपत्तिर्यथा संभवति तथा प्रतिपादितं, प्रति पादयिष्यते च, नातोऽपि स्फोटस्य प्राग व्यञ्जकात् सत्वसिद्धिरिति। "नादेनाऽऽहितवीजायामन्त्येन ध्वनिना सह। आवृत्तपरिपाकायां, बुद्धौ शब्दोऽवभासते / / 65 / / '' इति भर्तृहरिवचो निरस्तं द्रष्टव्यम् / यदपि 'विभिन्नतनुषु वर्णे -