________________ फेडण 1161 - अभिधानराजेन्द्रः - भाग 5 फोड फेडण न० (स्फेटन) आच्छोटने, बृ०॥ फेण पुं० (फेन) "डिंडीरो पुप्फओ फोणो।" पाइ० ना० 132 गाथा। | बुदुदे, कल्प० 1 अधि०३ क्षण। फेणग पुं० (फनक) पानीयप्रस्फोटके, उत्त० 16 अ०। रा०। औ०। फेणपुंज पुं० (फेनपुञ्ज) डिण्डीरोत्करे, जी० 3 प्रति० 4 अधि०। प्रश्न०/०। फेफस न० (फेप्फस) फिप्फस' शब्दार्थे , सूत्रा०१ श्रु०५ अ०१०।। फेण्बड (देशी) वरुणे, दे० ना०६ वर्ग 85 गाथा। फेणबंध (देशी) वरुणे, दे० ना० 6 वर्ग 85 गाथा। फेणमालिणी स्त्री० (फेनमालिनी) जम्बुमन्दरपश्चिमायां शीताया महा नद्याः कूलवर्तिन्या स्वनामख्यातायामन्तनद्याम, स्था० 6 ठा० / "दो फेणमालिणीओ।' स्था० 2 ठा०२ उ०। जम्बूद्वीपस्य महाविदेहे वर्षे वप्रावतीविजयस्थायां नद्यां च।" वप्पवईविजए अवराईया रायहाणी, फेणमालिणी गई।" जं०४ वक्षः। फेलाया (देशी) मातुलान्याम, दे० ना०६ वर्ग 85 गाथा। फेल्ल ( देशी) दरिद्र, दे० ना०६ वर्ग 85 गाथा। फेल्लुसण (देशी) पिच्छलदेशे, दे० ना०६ वर्ग 86 गाथा। फेस (देशी) त्रासद्भावयोः, दे० ना०६ वर्ग 87 गाथा। फोइय (देशी) मुत्कविस्तारितयोः, दे० ना०६ वर्ग 87 गाथा। फोक्क (देशी) अग्रे स्थूलोन्नते, उत्त०१२ अ०।। फोकसणास त्रि० (फोक्कनास) 'फोक्कत्ति 'देशीपदम्। ततश्च फोक्का अग्रे स्थूलोन्नता च नासाऽस्येति। स्थूलोन्नता अनासिके, उत्त०१२ अ०। फोड पुं० (स्फोट) स्फुटत्यर्थो यस्मात् / स्फुट-घत्र / व्याकरणोत्के वर्णातिरिक्ते पूर्वपूर्ववर्णानुभवसहित चरमवर्णव्यङ्गयार्थप्रत्याय के अखण्डे शब्दभेदे, वाच० / अत्रा वैयाकरणाः प्राऽऽहु:-"यस्मादुचरितात् ककुदादिमदर्थप्रतिपत्तिः स शब्दः / ननु अत्र किं गकारौकारविसर्जनीयाः ककुदादि मदर्थप्रतिपादकत्वेन शब्दव्यपदेशं लभन्ते, आहोस्वित्तदव्यतिरित्कः पदस्फोटाऽऽदिः? तत्रानतावद्वर्णा अर्थप्रत्यायाकाः यतस्ते किं समुदिता अर्थप्रतिपादकाः, उत व्यस्ताः? यदि व्यस्तास्तदैकेनैव वर्णेन गवाद्यर्थप्रतिपत्ति रुपादितेति द्वितीयाऽऽदिवर्णोच्चारणमनर्थक भवेत् / अथ समुदिता अर्थप्रत्यायकाः। तदपि न संगतम्।क्रमोत्पन्नानामनन्तर विनष्टत्वेन समुदायासंभवात्। न च युगपदुत्पन्नानां समुदायप्रकल्पना, एकपुरुषापेक्षया युगवदुत्पत्यसंभवात् प्रतिनियत स्थानकरणप्रयत्नप्रभवत्वात् तेषाम् / न च भिन्नपुरुषप्रयुक्तगकारौकार विसर्जनीयानां समुदाये ऽप्यर्थप्रतिपादकत्वं द्दष्ट, प्रति नियत क्रमवर्णप्रतिपायुत्तर काल भावित्वेन शाब्द्याः प्रतिपत्तेः संवेदनात्। न चान्त्यो वर्णः पूर्ववर्णानुगृहीतो वर्णानां क्रमोत्पादे सत्यर्थप्रत्यायकः, पूर्ववर्णानमन्त्यवर्ण प्रत्यनुआहकत्वायोगात् यतो नान्त्यवर्ण प्रति जनकत्वं पूर्ववर्णानां तदुपकारित्वम्, वर्णाद्वर्णोत्पत्तेरभावात-प्रतिनियतस्थानकरणाऽs दिसंपाद्यत्वाद् वर्णानां, वर्णाभावेऽपि च वर्णोत्पत्तिदर्शनान्न / वर्णजन्यल्वम् / अथार्थज्ञानोत्पत्तौ सहकारित्वं पूर्ववर्णानामन्त्यवर्ण प्रत्युपकारकत्वम् / एतदप्ययुत्कम, अविद्यमानानां सहकारित्वानुपपत्तेः / अत एव प्रात्कनवर्णविज्ञानानामपि सहाकारित्वमयुक्तम् न च पूर्ववर्णसंवेदनप्रभवाः संस्काराः तत्सहायता प्रतिपद्यन्ते, यतः संस्काराः स्वोत्पादकविज्ञानविषय स्मृतिहेतवो नार्थान्तरज्ञानमुत्पादयितुं समर्थाः-न हि घटज्ञानप्रभवः संस्कारः पटे स्मृति विदधद्द्दष्टः / न च तत्संस्कारप्रभवाः स्मृतय सहायता प्रतिपद्यन्ते, युगपदयुगपद्विकल्पानुपपत्तेः। न हि स्मृतीनां युगपदुत्पत्तिः, अयुगपदुत्पन्ननां वाऽवस्थितिरस्ति। न च समस्त संस्कारप्रभवैका स्मृतिस्तत्सहकारिणी, परस्परविरुद्धानेकपदार्थानुभवप्रभवप्रभूतसंस्काराणामप्येक स्मृतिजनकत्वप्रसत्केः, न अनेक वर्णसंस्करजत्वं स्मृतेः संभवतीति कुतोऽस्या अन्त्यवर्णसहकारित्वम् ? न चान्यविषया स्मृतिरन्यत्रा प्रतिपत्तिं जनयति, खदिरव्यापृतपरशोः कदिग्च्छेदक्रियाजनकत्वप्रसत्केः / न चान्यवर्णनिरपेक्ष एव 'गोः' इत्यत्रान्त्यो वर्णः ककुदादिमदर्थप्रत्यायकः, पूर्ववर्णाचारणवैयर्थ्यप्रसत्केः घटशब्दान्तव्यवस्थितस्याऽपिततप्रत्यायकत्वप्रसत्केश्च / तस्मान्न वर्णाः समस्तव्यस्ता अर्थप्रत्यायकाः संभवन्ति। अस्ति च गवादिशब्देभ्यः ककुदादिमदर्थप्रतिपत्तिरिति तदन्यथानुपपत्या वर्णव्यतिरिक्तोऽर्थप्रतिपत्तिहेतुः स्फोटाख्यः शब्दो ज्ञायते। श्रोत्राविज्ञाने च वर्णव्यतिरिक्तः स्फोटात्मा निरवयवोऽक्रमः स्फुटमवभातीति तस्याऽध्यक्षतोऽपि सिद्धिः / तथाहि-श्रवणव्यापारानन्तरभाविन्यभिन्नार्थावभासा संविदनुभूयते, नचासौ वर्णविषया, वर्णानां परस्परव्यावृत्तरुप त्वादेकावभासजन कत्वविरोधात् तदजनकस्यातिप्रसडत स्तद्विषत्वानुपपत्तेः / न चेयं सामान्यविषया, वर्णत्वव्यतिरेकेणापर सामान्यस्य गकारौकारविसर्जनीयेष्वसंभवात् वर्णत्वस्य च प्रतिनियतार्थ प्रत्यायकत्वायोगात्। न चेयं भ्रान्ता, अबाध्यमानत्वात्। च चाबाध्यमानप्रत्ययगोचरस्यापि स्फोटाऽऽख्यस्य वस्तुनोऽसत्वम्, अवयविद्रव्यस्याप्यसत्वप्रसत्केः / एव मप्यवयव्यभ्युपगमे स्फोटाभ्युपगमोऽवश्यंभावी ततुल्ययोग क्षेमत्वात् / स च वर्णेभ्यो व्यतिरित्को नित्यः, अनित्यत्वे संकेतकालानुभूतस्य तदैव ध्वस्तत्वात् कालान्तरे देशान्तरे च गोशब्द श्रवणात् ककुदादिमदर्थप्रतिपत्तिर्न स्यात्, असङ्केतिताच्छशब्दादर्थ प्रतिपत्तेरसंभवात्। संभवे वा द्वीपान्तरादागतस्य गोशब्दाद् गवार्थप्रतिपत्तिर्भवेत्। सङ्केतकरण वैयर्थ्यं च प्रसज्येत। तस्मान्नित्यस्स्फोटाख्य शब्दो व्यापकश्च सर्वत्रकरुपतया प्रतिपत्तेः। असदेतदिति वैशेषिकाः। ते ह्याहुः -एकदा प्रादुर्भूता वर्णास्वार्थप्रतिपादका न भवन्तीत्यत्राविप्रतिपत्तिरेव / क्रमप्रादुर्भूतानां न समुदाय इत्यत्राप्यविप्रतिपत्तिरेव / अर्थप्रतिपत्तिस्तूपलभ्यमाना त्पूर्ववर्णध्वंसविशिष्टदन्त्यवर्णात् / न चाभावस्य सहकारित्वं विरुद्धं वृन्तफल संयोगाभावस्येवाऽप्रति बद्धगुरुत्वविशिष्टफलप्रपातक्रियाजनने, दृष्ट चोत्तरसंयोग विदधत् प्रात्कनसंयोगाभावविशिष्ट कर्म परमाणवग्निसंयोगश्च परमाणौ तद्वतपूर्वरुपप्रध्वंसविशिष्टो रक्ततामुत्पादयन्। यद्वा-उपलभ्यमानोऽन्त्यो वर्ण : पूर्ववर्ण विज्ञानाभायविशिष्ट: