________________ फरुसवयण 1144 - अभिधानराजेन्द्रः - भाग 5 फरुसवयण तु मन्दभागस्य चिरप्रजिस्याप्येवंविधः परमकोटिमुपगतः क्रोध इति परिभावयति, क्षपकश्रेणिमधिरुढस्य केवलज्ञानमुत्पेदे। एवं चण्डरुद्रस्य दुष्ट शैक्ष इत्यादिभणनमिवपरुषवचनं मन्तव्यम्। अथाऽऽलप्ताऽऽदिपदेषु परुष भवतीति। यदुक्तं तस्य व्याख्यानमाहतुसिणीए हुंकारे, किं ति व किं वडगरं करेसि त्ति / किं णिव्वुत्ति ण देसी, केवतियं वावि रडसि त्ति // 46|| आचार्याऽऽदिभिरालप्तो व्याहतो व्यापादितः पृष्टो निसृष्टोवा तूष्णीको भवति, हुङ्कार वा करोति, किमिति वा भणति, किं वा वटकर करोषीति ब्रवीति, किं निवृत्ति न ददासीति व्रते, कियद्वा रटिष्यसीति भणति। एते सर्वेऽपि परुषवचन प्रकाराः। अथैतेष्वेव प्रायश्चित्तमाह - मासो लहुओ गुरुगो, चउरी मासा हवंति लहु गुरुगा। छम्मासा लहु गुरुगा, छेदो मूलं तह दुगं च / / 4 / / लघुको मासो गुरुको मासश्चत्वारोमासा गुरुवः षण्मासा लघवः षण्मासा गुरुवः छेदो मूलं, तथा द्विकमनवस्थाप्यं पाराञ्चिकं चेति। एतदेव प्रायश्चितं चारणिकया गाथादयेन दर्शयतिआयरिएणाऽऽलित्तो, आयरिओ चेव तुसिणिओ लहुओ। रडसि त्ति छग्गुरुं तं, वाहित्तू गुरुगाऽऽदिछेदंतं // 48|| लघुगाई वावारिते, मूलंतं गुरुगाई पुच्छिए णवमं / णीसढे छसु पदेसु, छल्लहुगाऽऽदितु चरिमंतं / / 46 / / आचार्येणाऽऽलप्त आचार्य एव तूष्णीको भवति मासा लघु / अथवाहुङ्काराऽऽदिकं रटसीति पर्यन्तं करोति तदा षड्गुरुकान्तम् / तद्यथाहुडारं करोति मासगुरुकमिति / भाषते न मस्तकेन वन्दे इति ब्रवीति चतुर्लघु। किं वटकर करोषीति वुवाणस्य चतुर्गुर। किं निवृत्ति न ददारिस इति भाषमाणस्य षड् लघु। कियन्तं वा कालं रटसीति ब्रुवतः षट्गुरु। व्यादृतस्य तूष्णीकताऽऽदिषुमासगुरुकादारब्धं छेदान्तं ज्ञेयम्॥ व्यापारितस्य चतुर्लघुकादारब्धं मूलान्तम्। पृष्टस्य चतुर्गुरकादारब्ध नवममनवस्थाप्यम्। निसृष्टस्य इदं गृहाण भुङ्गक्ष्व द्रव्यायुत्कस्य षट्स्वपि तूष्णीकाऽऽदिपदेषु षट्लघुकादारब्धं चरमपाराञ्चिक तदन्तं ज्ञातव्यम्। एवमाचर्येणाऽऽचार्यस्थाऽऽलताऽऽदिपदेषु शोधिरुत्का। अथ वाऽऽचार्येणैवाऽऽलप्ताऽऽदीनाम् उपाध्यायप्रभृती __ना शोधि दर्शयितुमाह - एवमुवज्झाएणं, भिक्खू थेरेण खुड्डएणं च / आलत्ताइपरहि, इक्किक्किपयं तु हारिज्जा / / 5 / / एवम् -आचार्यवत् उपाध्यायेन भिक्षुणा स्थविरेण क्षुल्लकेन च सममालताऽऽदिपदैः प्रत्येक तूष्णीकताऽऽदिप्रकारषट्के यथक्रमम् एकैकं प्रायश्चित्तपदं हासयेत् / तद्यथा-आचार्या उपाध्यायमनुरुपेणाऽऽभिलापेनालपति ततो यधुपाध्याय; तूष्णीक आस्ते तदा गुरुभिन्नमासः | हुङ्कारं करोति मासलघु / एवं / यावत्किमेतावन्मात्रमारटसीति भणत: षट्लघु। व्यादृतस्यैतष्वेव तूष्णीकाऽऽदिषु लघुमासादारब्धं षड् गुरुका- | न्तम्। व्यापारितस्य गुरुमासऽऽदिकं छेदान्तम्। पृष्टस्य चतुर्लघुकाऽऽदिकं मूलान्तम्। निसृष्टस्य चतुर्गुरकाऽऽदि कमनवस्थाप्यान्तं द्रष्टव्यम्। एवमाचार्येणैव भिक्षोरा लप्ताऽऽदिषुपदेषु लघुभिन्नमासादारब्धं मूलान्तम्। स्थविरस्य गुरुविंशति रागिन्दिवादारब्धं छेदान्तम्। क्षुल्लकस्य लघुविंशतिरात्रिान्दिवादारब्धं षट्गुरुकान्तं प्रायश्चितं प्रतिपत्तव्यम् / एवं तावदाचार्यस्याऽऽचार्याऽदिभिः पञ्चभिः पदैः समंचारणिका दर्शिता। साम्प्रतमुपाध्यायाऽऽदीनां चतुर्णमप्याचार्याऽऽदिपदपञ्चकेन चारिणकां दर्शयतिआयरियादभिसेगो, एक्कगहीणो तहिकिणा भिक्खू / थेरो तु तहेक्केणं, थेरा खुडो वि एक्केणं / / 51 / / आचार्यादभिषेक-उपाध्याय आलपकाऽऽदिपदानि कुर्वाणश्चारणिकायामेकेन प्रायश्चित्तपदेन हीनो भवति। तद्यथा- उपाध्याय आचार्यमालपतिक्षमाश्रमणाः कथ वर्तन्ते? इत्यादि। एवमालप्ते तूष्णीक आस्ते भिन्नमासो गुरुकम्। हुङ्कारं करोतिमासलघुकाऽऽदिकं मूलान्तम्, निसृष्ट स्य वा। एवं तेनैव चारणिकाक्रमेण तावन्नेयं यावदुपाध्यायेनाऽऽर्चायस्य निसृष्टस्य किमेतदारटसीति ब्रुवाणस्यानवस्थाप्यम् / अथोपाध्याय उपाध्यायमालपति तत आलप्ताऽऽदिषु पञ्चसुपदेष तूष्णीकताऽऽदिभिः षड्भिः पदैः प्रत्येकं चार्यमाणैर्लघुभिन्नमासादारब्धं मूले तिष्ठति / एवमुपाध्यायेनैव भिक्षोरालप्ताऽऽदिषु पदेषु तूष्णीकताऽऽदिभिरेव पदैर्गुरुविशतिरात्रिन्दिवादारब्धं, छेदान्तम्। स्थविरस्य लघुविंशतिरा त्रिंदिवादारब्धं षटगुरुकान्तम्। क्षुल्लकस्य पञ्चदशरात्रिन्दिवादारब्धं षट्लधुकान्तं द्रष्टव्यम्। यदा तु भिक्षुराचार्याऽऽदीना लपति तत उपाध्यायाऽऽदेरेकेन पदेन (न) हीनो भवति, सर्वचारणिकाप्रयोगेण, लघुकपञ्चदशरात्रिन्दिवादारब्धं प्रायश्चित्तं मूले तिष्ठितीत्यर्थः। यदातुस्थविर आलपति तदा भिक्षोरेकेन पदेन हीनो भवति, सर्वचारणिकाप्रयोगेण गुरुरात्रिन्दिवादारब्धं छेदे तिष्ठतीत्यर्थः।। यदा तु क्षुल्लक आचार्याऽऽदीनालपति तदा सोऽप्येकेन पदेन हीनो भवति। तद्यथा-क्षुल्लक आचार्यमालपति यद्याचार्यः तूष्णीकाऽऽदीनि पदानि करोति तत आलप्ताऽऽदिषु पञ्चसु पदेषु लघुविंशति रात्रिन्दिवादारब्धं षट्गुरुके तिष्ठति / एवं क्षुल्लकेनैवोपाध्यायस्याऽऽलप्ताऽऽदिषु पदेषु तूष्णीकताऽऽदिभिः षड्भिः पदैः प्रत्येकं चार्यमाणैर्गुरुपञ्चदशकादारब्धं षट्लघुकान्तम् / भिक्षार्लधुपञ्चदशकादारब्धं चतुर्गुरकान्तम्। स्थविरस्य गुरुदशकादारब्धं चतुर्लघुकान्तम्। क्षुल्लकस्य लघुदशकादारब्धं मासगुरुकान्तं प्रायश्चितं भवति। एवं सर्वचारिकाप्रयोगेण लघुदशकादारब्धं षड्गुरुके तिष्ठतीति। एवं तावन्निर्ग्रन्थानामुत्कम्। अथ निर्ग्रन्थीनामतिदिशन्नाह - भिक्खुसरिसी तु गणिणी, थेरसरिच्छी तु होइ अमिसेगा। भिक्खुणि खुड्डसरिच्छी, गुरुलहुपणगाइ दो इयरा / / 52 / / इह निर्गन्थीवर्गेऽपि पञ्च पदानि / तद्यथा - प्रवत्तिनी अभिषेका, भिक्षुणी, स्थविरा, क्षुल्लिका च / तथाऽत्रा गणिनी प्रवर्तिनी, सा भिक्षुसद्दशी मन्तव्या। कि मुक्तं भवति? प्रवर्तिनी