________________ पोरिसी 1130- अभिधानराजेन्द्रः - भाग 5 पोरिसी अपि जघन्यमिदमेव मानम्, केवलं कर्कसङग्रान्तिरजन्यां मन्तव्यम्। / उत्कृष्ट तु मानमस्या अर्धपञ्चममुहूर्त्ता नव घटिका दिवससम्बन्धिन्याः कर्कसक्रान्तौ, रात्रिसम्बन्धिन्यास्तुमकरसक्रान्ताविति।।२०७०।। जघन्यायाः पौरुष्या उत्कृष्टायाश्च प्रारभ्य प्रतिदिनं किं स्विद् वर्द्धते, किं वा हीयते? इत्याशक्याऽऽहबुड्ढी वावीसुत्तर- सयभागो पइदिण मुहूत्तस्स। एवं हाणी वि मया, अयणदिणभागओ नेया॥२०७१।। इह जघन्यपौरुष्याः प्रतिदिनं वृद्धिर्भवतिः कियती? इत्याह मुहूर्तस्य द्वाविंशत्युत्तरशततमो भागः, उत्ककृष्टपौरुष्यास्तु प्रतिदिन हानिर्भवति, साऽपि चैवमेव मता, मुहूर्तस्यद्वाविंशत्युत्तरशततमो भाग इत्यर्थः। इयं च पौरुष्या वृद्धि निश्चोत्तरायण–दक्षिणायन-दिनभागतो ज्ञेया। इदमत्र हृदयम्-षभिर्मासैस्तावदुत्तरायणं दक्षिणायनदिन भागतो ज्ञेयं भवति, एवं दक्षिणायनमपि। तत्रोत्तरायणे प्रतिदिनं चतुर्भिः पानीयपलैर्वर्द्धमानानां दिवसानामुत्कृष्ट दिवसे षड् मुहूर्त्ता वर्द्धन्ते, रात्रीणा त्वनयैव हान्या ही यमानानां सर्वहीनायां रात्रौ षड् मुहूर्ताहीयन्ते! एवं दक्षिणायनेऽपि, नवरंरात्रोः षड्मुहूर्तावर्द्धन्ते, दिवसस्य तुहीयन्त इति व्यत्ययोऽवगन्तव्यः। ततश्चैवं सति षड्भिः षड्भिर्मासर्दिनरजन्योर्यथायोगं षड् मुहूर्ता वर्धन्ते हीयन्ते च / मासेन त्वेकस्य मुहूर्तस्य वृद्धिहानी / सूर्य संवत्सरस्तु षटषष्टयधिकैस्त्रिभिर्दिनशतैर्भवति / ततश्चैकैक मयनं त्र्यशीत्याधिकदिनशतेनाऽतिक्रामति। मासे तु सूर्यसम्बन्धिनी सार्धत्रिंशदिनानि भवन्ति, यश्चमासे मुहूर्तो वर्धते तस्यैतैः भवति, अत एकैकस्या अपि घटिकाया एकषष्टिभागाः कल्प्यन्ते ततो घटिकाद्वय एकषष्टिभागानां द्वाविंशं शतं भवति। सार्धत्रिंशदिनमाने च मासे रात्रिदिनपौरुषी णामपि प्रत्येकं द्वाविंशं शतं भवति / अत एतेन द्वाविंशेन शतेन मुहूर्त्तगनघटि कैकषष्टिभागानां द्वाविंशस्य शतस्य भागे हत एकैको द्वाविंशततमो घटिकैकषष्टिभागः समागच्छति। स च प्रतिदिनभेकैकस्या दिनरात्रिपौरुष्या यथायोगं वर्धत, हीयते चेति। अतः साधूत्कम्-'बुड्डी वावीसुत्तर' इत्यादि // 2071 // __ अथवा-प्रकारान्तरेणाऽप्यस्याऽर्थस्याऽवबोधार्थमाह - उकोस-जहण्णाणं, जदंतरालमिह पोरिसीणं तं। तसीयसविभत्तं, बुड्डि हाणिं च जाणाहि॥२०७२।। उत्कृष्टा नवघटिकाप्रमाणा पौरुषी, जघन्या तु षडघटिकाप्रमाणेत्युत्कमेव। एतयोश्च जघन्योत्कृष्टयोः पौरुष्योर्यदघटिकात्रायलक्षणमन्तरालं तदयनगतत्र्यशीतिशतविभक्तं प्रतिदिनं पौरुष्या वृद्धि हानि च जानीहि / इदमुक्तं भवति त्र्यशीतेन दिनशतेन तिस्त्रो घटिका वर्धन्ते हीयन्ते वा पौरुष्याः, तर्हि प्रतिदिनं तस्याः किं वर्धते हीयते वा? इत्यस्य जिज्ञासायां घटिकात्रयस्य त्र्यशीतेन भागो हियते, तत एकैका घटिकैकषष्टिभिगिः क्रियते, ततस्त्रयशीत्यधिकं शतमेकवष्टिभागानां भवति, तस्य च त्र्यशीतेनैव दिनशतेन भागे हृते प्रतिदिनमेकषष्टिभागो वृद्धौ हानौ वा पौरुष्या लभ्यत इति स एवाऽर्थः, अस्याप्येकस्यैकषष्टि भागस्य मुहूर्तद्वाविंशशततमभागरुपत्वादिति। विशे०। ता पौरुष्येव न ज्ञायते किं प्रमाणा? अतस्तत्प्रति-- पादनाायाऽऽहपोरिसिपमाणकालो, निच्छयववहारओ जिणक्खाओ। निच्छयओ करणजुओ, ववहारमतो परं वोच्छं // 281 / / पौसष्याः प्रमाणकालो द्विविधः, निश्चयतो व्यवहारतश्च ज्ञातव्यः, तत्रा निश्चयतो--निश्चयनयाऽभिप्रायेण करणयुत्को गणितन्यायात्, अतः परं व्यावहारिको-व्यवहारन यमतेन वक्ष्ये। तत्र निश्चयपौरुषीप्रमाणाकालप्रतिपादनायाऽऽह - अयणाई य दिणगणे, अट्ठगुणेगट्ठिभाइए लद्धं / उत्तरदाहिणमाई,पोरिसि पयसुज्झपक्खेवा // 26 // दक्षिणायने उत्तरायणदिनानि, उत्तरायणे दक्षिणायन दिनानि मीलयित्वा गण्यन्ते, स राशिरष्टभिर्गुण्यते, एकषष्ट्या भागो ह्रियते, लब्धेऽसलानि, द्वादशाङ्गुलैः पादः यावता भवति (उत्तरत्ति) मकरदिने 4 पादाः / (दाहिण त्ति कर्कदिने 2 पादौ, शेषेषु पदशुद्धिप्रक्षेपौ!) व्यवहारतोऽधुना पौरुषीप्रमाणकालप्रतिपादनायऽऽहआसाढ मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसुमासेसु, तिपपा हवइपोरिसी॥२८३।। आषाढ़े मासे पौर्णमास्यां द्विपदा पौराषी भवति, पदं च द्वादशाकुल ग्राह्य, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा चैत्राश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति। अधुना कियती वृद्धिः कियत्सु दिनेषु कियती वा हानिरि त्येतत्प्रतिपादयन्नाहअंगुणं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं / वड्डए हायए वावि, मासेणं चउरंगुलं // 24 // आषाढपौर्णमास्या आरभ्याङ्गुलं सप्तरात्रोण वर्द्धते, पक्षेण तु अङ्गुलद्रय वर्धते, तथा मासेनाङ्गुलचतुष्टयं वर्द्धते, इयं च वृद्धिरुत्तरोत्तरं तावन्नेया यावत्पौषमासपौर्णमास्यां पदचतुष्टयेन पौरुषी जायते, हानिरपि पौर्णमास्याः परत एवमेव च द्रष्टव्या, यदुताङ्गुलं सप्तरात्रोणापव्हियते, पक्षेणाङ्गुलद्वयं, मासेनाङ्गुल चतुष्टयम्, एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेता स्थापना चेयस्"आसाढपुण्णिमाए पद 2 पोरुसी सावणपुण्णिमाए पद 2 अंगुल 4, भद्दवयपुणिमाए पद 2 अंगुल 8, आसोयपुण्णिमाए पद 3, कत्तियपुन्निमाए पद 3 अंगुल 4, मग्गसिरपुण्णिमाए पद 3 अंगुल 8 पोसपुण्णिमाए पद 4, एत्तिअंजाव वुड्डी होइा माहपुण्णिमाए पद 3 अंगुल 8. फग्गुणपुणिणमाए पद 3 अंगुल 4, चेत्तपुण्णिमाए पद 3, वइसाहपुन्निमाए पद 2, जेठ्ठपुन्निमाए पद 2 अंगुल 4, आसाढपुन्निमाए पद 2 इत्तियं जाव हाणी। भावत्थो इमोसावणस्सपढमदिवसाओ आरभ वुड्डी जदा भवति तदा दिवसे अंगुलस्स सत्तमो भागो किंचिप्पूणो वडइ,