________________ पोरिसी 1125 - अभिधानराजेन्द्रः - भाग 5 पोरिसी मभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोडं पुच्छा दिवसस्स भागं छोडं वा करणं० जाव ता अद्धअउणासट्ठिपोरिसीछाया | दिवसस्स किं गते वा सेसे वा? ता एगणबीससतभागे गते वा सेसे वा, ता अउणसट्टिपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा वावीससहस्सभागे गते वा सेसे वा, ता सातिरेगअउणसट्ठि पोरिसी गं छाया दिवसस्स किं गते वा सेसे वा? ताणत्थि किंचि गते वा सेसे वा, तत्थ खलु इमापणवीसनिविट्ठा छाया पण्णत्ता। तंजहा-खंभच्छाया, रज्जुच्छाया, पागारच्छाया, पासायच्छाया, उवग्गच्छाया, उच्चत्तच्छाया, अणुलोमच्छाया | आरुभिता, समा, पडिहता, खीलच्छाया, पक्खच्छाया, पुरत्तो उदया, पुरिमकंढमाउवगता, पच्छिमकंठभाउवगता, छायाणुवादिणी, किट्ठाणुवादिणाछाया, छायच्छाया, गोलच्छाया, तत्थ णं गोलच्छाया अट्ठविहा पण्णत्ता / तं जहा-गोलच्छाया अबद्धगोलच्छाया गाढलगोलच्छाया अबद्धगाढलगोलच्छाया गोलवलिच्छाया, अवड्डगोलावलिच्छाया, गोलपुंजच्छाया, अबद्धगोलपुंजच्छाया। (सूत्रा 31) 'ता कइकट्ट ते' इत्यादि 'ना' इति पूर्ववत्, कतिकाष्ठा-किं--प्रमाणां भगवन्। त्वया सूर्यः पौरुषीच्छायां निवर्तयन्नाख्यात इति वदेत्? एवमुक्ते भगवान प्रथमतो लेश्या स्वरुपविषये यावन्त्यः परतीर्थिणानां प्रतिपत्तयस्तावती रुपदर्शयति-'तत्थ खलु' इत्यादि, तत्र-तस्या पौरुष्या छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्याः। तद्यथा-ता-तेषां पञ्चविंशतः परतीथिकानांमध्ये एके एवमाहुः-ता इति पूर्ववत्, अनुसमयमेव प्रतिक्षणमेव सूर्यः पौरुषीच्छायाम, इह लेश्यावशतः पौरुषीच्छाया भवतीति ततः कारणे कार्योपचारात् पौरुषीच्छायेति लेश्या द्रष्टव्या, तां निवर्तयति निर्वर्तयन्नाख्यात इति वदेता किमुक्तं भवति? प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निवर्तयन् आख्यात इति वदेत / अत्रोपसंहारः-'एगे एवमाहसु,' (एवमित्यादि) एवम्-उक्तेन प्रकारेण एतेन अनन्तरोदितेनाऽभिलापेन सूर्यपाठगमेन या एव ओजःसस्थितौ पञ्चविंशतिः प्रतिपत्तय उक्ताः ता एव क्रमेणात्रापि नेतव्याः। (ताश्च 'ओयसंठिइ' शब्दे द्वितीय भागे 62 पृष्ठे दर्शिताः) तावद्यावचरमप्रतिपत्तिप्रतिपादकमिदं सूत्रम्- 'एगे पुण एवमाहसु--ता अणु ओसप्पिणिउस्सप्पिणिमेव सूरिए' इत्यादि / मध्यमास्त्वालापका एवं ज्ञातव्याः-'एगे पुण एवमाहंसुता अणुमुहत्तमेव सूरिए पोरिसिच्छायं निव्वत्तेइ आहियत्ति वएजा, एगे एत्र माहसु' इत्यादि। तदेवं लेश्याविषयाः परप्रतिपत्तीरुपदर्य सम्प्रति तद्विषयं स्वमतमाह - 'वयं पुण' इत्यादि, वयं पुनरेवं वदामः कथमित्याह- 'ता सूरियस्स णं 'इत्यादि, 'ता' इति पूर्ववत्, सूर्यस्य, णमिति वाक्याऽलङ्कारे, उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः / किमुक्तं भवति?-यथा सूर्यःउच्चैरुच्चैस्तरामधिरोहति यथा च मध्याह्रादूर्ध्वं नीचर्नीरस्तरा मतिक्रामिति एतदपिलौकिकव्यवहाराऽऽपेक्षया उच्यते, लौकिका हि प्रथमतो दूरतरवर्तिनं सूर्यम् उदयमानमतिनीचस्तरां पश्यन्ति. ततः प्रत्यासत्रं प्रत्यासनतरं भवन्तमुच्चै रुचैस्तरां मध्याह्रादूर्ध्व च क्रमेण दूर दूरतरं भवन्तं नीचर्नीचस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा-अतिनीचैस्तरां वर्तमाने सूर्ये सर्वस्याऽपि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उचैरुचै स्तरां वर्द्धमाने सूर्य प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतरा छाया भवति, तत एवं तथा तथा वर्तमानं सूर्यस्योचत्वं लेश्यां च प्रतीत्य छायाया अन्यथा भवन्त्या उद्देश्यो ज्ञातव्यः; इह प्रतिक्षणं तत्तत्पुद्रलोपचयेन तत्तत्पुद्गलहान्यावा यत् छायाया अन्यत्वंतत्केवल्येव जानाति, छ्यस्थस्तूद्देशतः। तत उत्कम् छायोद्देश इति' 'उच्चत्तं च छायं च पडुच लेसोद्दस इति / तथा तथा विवर्त्तमानं सूर्यस्योचत्वं छायां च हीना हीनतरमधिकामधिकतरा च तथा तथा भवर्ती प्रतीत्य-आश्रित्य लेश्यायाःप्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः। तथा 'लेसं च छायं च पडुच्च उच्चत्तोडेसे' इति, लेश्यां प्रकाशस्य वस्तुनो दूर दूरतरमासन्नमासन्नतरं परिपती छायां च हीना हीनतरामधिकामधिकतरां च तथा तथा भवन्ती प्रतीत्य सूर्यगतस्योचवत्वस्य तथा तथा विवर्तमानस्योद्देशो ज्ञातव्यः / किमुक्तं भवति? त्रीण्यप्येतानि प्रतिक्षणमन्यथाऽन्यथा विवर्त्तन्ते, तत एकस्यद्वयस्य वा तथा तथा विवर्त्तमानस्योद्देशत उपलम्भादितरस्याऽप्युदंशतोऽवगमः कर्तव्य इति / तदेव लेश्यास्वरुपमुक्तम् / सम्प्रति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकप्रतिपत्ति सम्भवं कथयति - (तत्थेत्यादि) ता-तस्यां पौरुष्यांश्छायायाः परिमाणचिन्तायां विषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते / तद्यथा-तत्रा-तेषां द्वयानां परतीर्थिकानां मध्ये एके एवमाहु:-अस्ति स दिवसो यस्मिन् दिवसेसूर्य उद्गमनमुहूर्ते अस्त्तमनमुहूर्ते च चतुष्पौरुषीचतुष्पुरुषप्रमाणांपुरुषग्रहणमुपलक्षणं, तेन सर्वस्याऽपि प्रकाश्यस्य वस्तुनश्चतुर्गुणां छायां निर्वर्त्तयति, अस्ति स दिवसो यस्मिन् दिवसे उगमनमुहूर्ते अस्तमनमुहूर्ते च द्विपौरुषी-द्विपुरुष प्रमाणा छायां सूर्यो निर्वर्त्तयति, अत्राऽपिपुरुषग्रहणमुपलक्षणं, ततः सर्वस्याऽपि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निर्वर्तयतीतिद्रष्टव्यम्। अोपसंहारं :'एगे एवमाहं सु' 1 एके पुनरेवमाहुः-'ता' इति पूर्ववत्, अस्ति स दिवसो यरिमन् दिवसे उगमनमुहुर्ते अस्तमनमुहूर्तेच सूर्या द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, पुरुषप्रहणस्योपलक्षणत्वात् सर्वस्याऽपि प्रकाश्यवस्तुनो द्विगुणा छाया निवर्तयतीत्यर्थः, तथा अस्तिस दिवसो यस्मिन् दिवसे सूर्योऽस्तमनमुहूर्ते उगमनमुहूर्ते च न काञ्चिदपि पौरुषी छाया निवर्तयति। सम्प्रत्येत एव मते भावयति-(तत्थेत्यादि) तत्रतेषां द्वयानां मध्ये ये ते वादिन एवमाहुः अस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुषी छायां सूर्यो निर्वर्त्तयति, अस्तिसदिवसो यस्मिन् दिवसे सूर्यो द्वि